श्रीमद्वेदान्तदेशिकाष्टोत्तरशतनामावलिः २
श्रीः
अथ श्रीमद्वेदान्तदेशिकप्रदर्शिता मूलमन्त्रप्रतिपादिता
अष्टोत्तरशतनामावलिः ।
ॐ रक्षकाय नमः ।
ॐ स्वभावसिद्ध रक्षकाय नमः ।
ॐ सर्वविषय रक्षकाय नमः ।
ॐ रक्ष्यवस्तुविशेषानुरूप नानाप्रकार रक्षाय नमः ।
ॐ सर्वदा रक्षकाय नमः ।
ॐ सर्वत्र रक्षकाय नमः ।
ॐ सर्वप्रकार रक्षकाय नमः ।
ॐ स्वार्थ रक्षकाय नमः ।
ॐ सर्व रक्षकत्वापेक्षित सर्वज्ञाय नमः ।
ॐ सर्वशक्तये नमः । १०
ॐ स्वेच्छाव्यतिरिक्तानिवार्याय नमः ।
ॐ अनतिक्रमणीय संरक्षणसंरम्भाय नमः ।
ॐ परमकारुणिकाय नमः ।
ॐ अवसरप्रतीक्षाय नमः ।
ॐ व्याजमात्र सापेक्षाय नमः ।
ॐ आश्रित सुलभाय नमः ।
ॐ विश्वसनीयाय नमः ।
ॐ सापराधघटनाद्यनुगुण विशेषणवते नमः ।
ॐ शेषिणे नमः ।
ॐ निरुपाधिक शेषिणे नमः । २०
ॐ नित्य शेषिणे नमः ।
ॐ सर्वविषय शेषिणे नमः ।
ॐ अनन्य शेषिणे नमः ।
ॐ गुणकृत शेषिणे नमः ।
ॐ सपत्नीक शेषिणे नमः ।
ॐ सामाभ्यधिकरहिताय नमः ।
ॐ आत्महविरुद्देशार्हाय नमः ।
ॐ अचिद्ध मुक्तनित्य विलक्षणाय नमः ।
ॐ परशेषित्व हेतवे नमः ।
ॐ स्वतः कर्त्रे नमः । ३०
ॐ शक्त्याधायकाय नमः ।
ॐ प्रेरकाय नमः ।
ॐ अनन्य प्रेर्याय नमः ।
ॐ अनुमन्त्रे नमः ।
ॐ कर्मसाक्षिणे नमः ।
ॐ सहकारिणे नमः ।
ॐ प्रियप्रवर्तकाय नमः ।
ॐ निरुपाधिकनन्तव्याय नमः ।
ॐ वशीकार्याय नमः ।
ॐ सिद्धोपायाय नमः । ४०
ॐ साध्योपाय हेतवे नमः ।
ॐ श्रुतिस्मृतिरूपाज्ञावते नमः ।
ॐ दण्डधराय नमः ।
ॐ सर्वसमाय नमः ।
ॐ आश्रितपक्षपातिने नमः ।
ॐ अविद्यादि हेतवे नमः ।
ॐ अविद्यानर्हाय नमः ।
ॐ आश्रिताविद्यानिवर्तकाय नमः ।
ॐ स्वरूपान्यथाभाव रहिताय नमः ।
ॐ स्वभावान्यथाभाव रहिताय नमः । ५०
ॐ सर्व नेत्रे नमः ।
ॐ सर्व जगद्व्यापार लीलाय नमः ।
ॐ सर्ववेदान्त प्रधान प्रतिपाद्याय नमः ।
ॐ सर्वोपादानाय नमः ।
ॐ सर्वनिमित्ताय नमः ।
ॐ सत्यसङ्कल्पाय नमः ।
ॐ सर्वशरीरिणे नमः ।
ॐ सर्वशब्दवाच्याय नमः ।
ॐ सर्वकर्मसमाराध्याय नमः ।
ॐ सर्वफलप्रदाय नमः । ६०
ॐ सर्वविधबन्धवे नमः ।
ॐ सर्वव्यापकाय नमः ।
ॐ निरतिशय सूक्ष्माय नमः ।
ॐ सर्वाधाराय नमः ।
ॐ स्वनिष्ठाय नमः ।
ॐ सत्याय नमः ।
ॐ ज्ञानाय नमः ।
ॐ अनन्ताय नमः ।
ॐ आनन्दाय नमः ।
ॐ अमलाय नमः । ७०
ॐ निरूपतिस्वरूपविशेषणानुक्तानन्त गुणवते नमः ।
ॐ नित्यदिव्यमङ्गलविग्रहवते नमः ।
ॐ परव्यूहाद्यवस्थावते नमः ।
ॐ सत्यावताराय नमः ।
ॐ अप्राकृतावताराय नमः ।
ॐ अकर्मवश्यावताराय नमः ।
ॐ अकालनियमावताराय नमः ।
ॐ आश्रितार्थगुणपरिवाहाय नमः ।
ॐ सर्वावस्थशुभाश्रयाय नमः ।
ॐ सर्वावस्थलक्ष्मीसहचराय नमः । ८०
ॐ दिव्यभूषणायुधमहिषीस्थानपरिजन परिच्छद द्वारपालपार्षदादिमते नमः ।
ॐ स्थूलशरीरविश्लेषकाय नमः ।
ॐ विश्रमस्थानाय नमः ।
ॐ अनुग्रहविशेषवते नमः ।
ॐ ब्रह्मनाडीद्वारप्रकाशकाय नमः ।
ॐ ब्रह्मनाडि प्रवेशकाय नमः ।
ॐ ब्रह्मरन्ध्रोत्क्रान्तिहेतवे नमः ।
ॐ अर्चिराद्यातिवाहिकनियोक्त्रे नमः ।
ॐ सूर्यद्वारादिनेतृत्ववते नमः ।
ॐ अण्डावरणप्रकृतिमण्डलातिक्रमहेतवे नमः । ९०
ॐ विरजातीर प्रापकाय नमः ।
ॐ सूक्ष्मशरीरविश्लेषकाय नमः ।
ॐ अप्राकृतदेहप्रदाय नमः ।
ॐ दिव्याप्सरस्सत्कारादि प्रयोजकाय नमः ।
ॐ ब्रह्मगन्धादि प्रवेशकाय नमः ।
ॐ नित्यमुक्तसत्कारविशेष हेतवे नमः ।
ॐ पर्यङ्काधिरोहणपर्यन्तादरवते नमः ।
ॐ परिपूर्णानुभवहेतवे नमः ।
ॐ प्रधानप्राप्याय नमः ।
ॐ सदेहविदेहबहुदेहकृतसर्वविधकैङ्कर्य प्रतिसम्बन्धिने नमः । १००
ॐ अवाप्तसमस्तकामाय नमः ।
ॐ निरतिशयानन्दवते नमः ।
ॐ निरतिशयभोग्याय नमः ।
ॐ सर्वप्रकार भोग्याय नमः ।
ॐ सर्वदानुकूल स्वभावाय नमः ।
ॐ अत्यन्ततुल्यभोगप्रदाय नमः ।
ॐ आश्रितविश्लेषासहाय नमः ।
ॐ अपुनरावृत्तिहेतवे नमः । १०८
इति श्रीमद्वेदान्तदेशिकाष्टोत्तरशतनामावलिः सम्पूर्णा ।
Proofread by Aruna Narayanan