श्रीवेदान्तदेशिकमङ्गलानुशासनम्

श्रीवेदान्तदेशिकमङ्गलानुशासनम्

श्रीमद्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्न्निधत्तां सदा हृदि ॥ १॥ श्रीमल्लक्ष्मणयोगीन्द्रसिद्धान्तविजयध्वजम् । विश्वामित्रकुलोद्भूतं वरदार्यमहं भजे ॥ २॥ सर्वतन्त्रस्वतन्त्राय सिंहाय कविवादिनाम् । वेदान्ताचार्यवर्याय वेङ्कटेशाय मङ्गलम् ॥ ३॥ नभस्यमासि श्रोणायामवतीर्णाय सूरये । विश्वामित्रान्वयायास्तु वङ्कटेशाय मङ्गलम् ॥ ४॥ पिता यस्यानन्तसूरिः पुण्डरीकाक्षयज्वनः । पौत्रो यस्तनयस्तोतारम्बायास्तस्य मङ्गलम् ॥ ५॥ वङ्कटेशावतारोऽयं तद्घण्टांशोऽथवा भवेत् । यतीन्द्रांशोऽथवेत्येवं वितर्क्यायास्तु मङ्गलम् ॥ ६॥ श्रीभाष्यकारः पन्थानमात्मना दर्शितं पुनः । उद्धर्तुमागतो नूनमित्युक्तायास्तु मङ्गलम् ॥ ७॥ यो वाल्ये वरदार्यस्य प्राचार्यस्य परां दयाम् । आवाप्य वृद्धिं गमितस्तस्मै योग्याय मङ्गलम् ॥ ८॥ रामानुजाचार्यदात्रेयान्मातुलात् सकलाःकलाः । आवाप्य विंशत्यब्दे यस्तस्मै प्राज्ञाय मङ्गलम् ॥ ९॥ श्रुतप्रकाशिका भूमौ येनादौ परिरक्षिता । प्रवर्तिता च पात्रेषु तस्मै श्रेष्ठाय मङ्गलम् ॥ १०॥ सांस्कृतिभिर्द्रामिडीभिः बह्वीभिः कृतिभिर्जनान् । यः समुज्जीवयामास तस्मै सेव्याय मङ्गलम् ॥ ११॥ यः ख्यातिताभपूजासु विमुखो वैष्णवे जने । क्रयणीयदशां प्राप्तस्तस्मै भव्याय मङ्गलम् ॥ १२॥ यस्मादेव मया सर्वं शास्त्रमग्राहि नान्यतः । तस्मै वेङ्कटनाथाय मम नाथाय मङ्गलम् ॥ १३॥ पित्रे ब्रह्मोपदेष्ट्रे मे गुरवे दैवताय च । प्राप्याय प्रापकायास्तु वेङ्कटेशाय मङ्गलम् ॥ १४॥ यः कृतं वरदार्येण वेदन्ताचार्यमङ्गलम् । अशास्तेऽनुदिनं सोऽपि भवेन्मङ्गलभाजनम् ॥ १५॥ भाद्रपदमासगतविष्णुविमलर्क्षे वेङ्कटमहीध्रपतितीर्थदिनभूते । प्रादुरभवज्जगति दैत्यरिपुघण्टा हन्त कवितार्किकमृगेन्द्रगुरुमूर्त्या ॥ १६॥ सशङ्खचक्रलाञ्छनः सदूर्ध्वपुण्ड्रमण्डितः सकण्ठलग्नसत्तुलस्यनर्धपद्ममालिकः । सितान्तरीयसूत्तरीययज्ञसूत्रशोभितः ममाविरस्तु मानसे गुरुः स वेङ्कटेश्वरः ॥ १७॥ अनन्तसूरिसूनवेऽभिवन्द्यमानवैभवात् दिगन्तवादिहंसजैत्रकालमेघदेशिकात् । उपात्तसर्वशासनाय हन्त वर्षविंशतौ पुनःपुनर्नमस्क्रियास्तु वेङ्कटेशसूरये ॥ १८॥ गुरौ वादिहंसाम्बुदाचार्यशिष्ये जना भक्तिहीना यतीन्द्राप्रियाः स्युः । यतीन्द्राप्रिया विष्णुकारुण्यदूराः कुतो मुक्तिवार्ता हि तादृग्विधानाम् ॥ १९॥ कवितार्किककलभव्रजकबलीकृतसिंहं कमलापतिकरुणारसपरिवर्धितबोधम् । यतिनायकपदपङ्कजयुगलीपरतन्त्रं भज मानस बुधवेङ्कटपतिदेशिकमनिशम् ॥ २०॥ वेदे सञ्जातखेदे मुनिजनवचने प्राप्तनित्यावमाने सङ्कीर्णे सर्ववर्णे सति तदनुगुणे निष्प्रमाणे पुराणे । मयावादे समोदे कलिकलुषवशाच्छून्यवादेऽविवादे धर्मत्राणाय योऽभूत् स जयति भगवान्विष्णुघण्टावतारः ॥ २१॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ इति श्रीवेदान्तदेशिकमङ्गलानुशासनं सम्पूर्णम् ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : vedAntadeshikamangalAnushAsanam
% File name             : vedAntadeshikamangalAnushAsanam.itx
% itxtitle              : vedAntadeshikamaNgalAnushAsanam
% engtitle              : vedAntadeshikamangalAnushAsanam
% Category              : deities_misc, gurudev, rAmAnujasampradAya, mangala
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (stotramAlA)
% Acknowledge-Permission: Shri Tripursundari Ved Gurukulam, Sahibabad (Ghaziabad), UP
% Latest update         : March 24, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org