वेदव्यासलघुस्तोत्राणि

वेदव्यासलघुस्तोत्राणि

१. श्रीहरिवंशे श्रीवेदव्यासस्तोत्रम् जयति पराशरसूनुः सत्यवती हृदयनन्दनोव्यासः । यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति ॥ २. श्रीमद्भागवते श्रीवेदव्यासस्तोत्रम् नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ ३. श्रीमदानन्दतीर्थ भगवत्पादाचार्यविरचितं श्रीवेदव्यासस्तोत्रं नमो भगवते तस्मै व्यासायामित तेजसे । यस्य प्रसादाद् वक्ष्यामि नारायण कथामिमाम् ॥ १ (श्रीम. भा. ता. नि. २-६७) श्रीमद्महाभारत तात्पर्य निर्णयः जयत्यजोखण्डगुणोरुमण्डलः सदोदितो ज्ञानमरीचिमाली । स्वभक्त हार्दोच्चतमोनिहन्ता व्यासावतारो हरिरात्म भास्करः ॥ २ (श्रीम. भा. ता. नि. ३-१) नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जय मुदीरयेत् ॥ ३ (श्रीम. भा. ता. नि. ३-४) तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव । विशेषतो मे परमाख्यविद्या व्याख्यां करोम्यन्वपि चाहमेव ॥ ४ (अनुव्याख्यान १-२) द्वीपे भगिन्याश्च यमस्य विश्वकृत् प्रकाशते ज्ञानमरीचि मण्डलः । प्रभासयन्नण्ड बहिस्तथान्तः सहस्रलक्षामित भानुदीधितिः ॥ ५ (श्रीम. भा. ता. नि. १०-५१) अगण्य दिव्योरुगुणार्णवः प्रभुः समस्त विद्याधिपतिर्जगद्गुरुः । अनन्तशक्तिर्जगदीश्वरेश्वरः समस्त दोषातिविदूरविग्रहः ॥ ६ (श्रीम. भा. ता. नि. १०-२२) शुभमरकतवर्णो रक्तपादाब्बनेत्रा धरकरनखरसनाग्रश्चक्र शङ्खाब्जरेखः । रविकरवरगौरं चर्मचैणंवसान स्तटिदमलजटा सन्दीप्तचूडं दधानः ॥ ७ (श्रीम. भा. ता. नि. १०-५३) विस्तीर्ण वक्षाः कमलायताक्षो बृहद्भुजः कम्बु समानकण्ठः । समस्त वेदान्मुखतः समुद्गिरन् अनन्त चन्द्राधिक कान्ति सन्मुखः ॥ ८ (श्रीम. भा. ता. नि. १-५४) प्रबोध मुद्राभयदोर्द्वयान्वितो यज्ञोपवीताजिनमेखलोल्ल सन् । दृशा महाज्ञान भुजङ्गदष्ट मुजीवयानो जगदत्यरोचत ॥ ९ (श्रीम. भा. ता. नि. १०-५५) ४. श्रीमज्जयतीर्थ पूज्यचरणविरचितं श्रीवेदव्यासस्तोत्रम् येन प्रादुरभावि भूमिवलये व्यस्तारि गोसन्ततिः प्राबोधि श्रुतिपङ्कजं करुणया प्राकाशि तत्वं परम् । ध्वान्तं ध्वंसमनायि साधुनिकरश्चाकारि सन्मार्गगः तेन व्यासदिवाकरेण सततं मा त्याजि मे मानसम् ॥ १ (श्रीमन्न्यायसुधा) याञ्च्नामन्दरलोलिताद्यत उदैद्विद्यैँदिरा निर्जरै- र्जातो भारत पारिजातसुतरुः सद्ब्रह्म सूत्रामृतम् । आसीत्तन्त्रपुराणसन्मणिगणो जातः शुकेन्दुः सदा सोयं व्याससुधा निधिर्भवतु मे भूत्यै सतां भूतिदः ॥ २ (तत्त्व प्रकाशिका) दुरन्त दुरितध्वान्त विध्वंसन पटीयसे । बादरायणसंज्ञाय परस्मै महसे नमः ॥ ३ (न्यायविवरण टीका) गुणगणनिलयं पतिं रमाया जगदघदहनं च वासवीसूनुम् । मुनिकुलतिलकं च पूर्णबोधं गुरुमपि परमं गुरुं च मे वन्दे ॥ ४ (गीताभाष्य टीका) ५. श्री श्रीसत्यधर्मतीर्थविरचितं श्रीवेदव्यासस्तोत्रम् दशमेदिशमेम्बोधौ धीतर्यातरितुर्यतः । पाराशर्यपरम्पारमसिदाशसुतासुतः ॥ १॥ (श्रीमद्भागवत दशमस्कन्ध टिप्पणी) आचार्योपास्य हे वेदव्यास मत्सेवयानया । तदन्तस्थः भव प्रीतो वीतदोष नमोऽस्तु ते ॥ २॥ (श्रीमद्भागवत द्वादशस्कन्ध टिप्पणि) वासवीनन्दन हरे व्याससारसलोचन । दासस्य मे दिश ज्ञानं श्रीसत्यधिषणार्चित ॥ ३॥ (रामायण व्याख्यान) ऋतबोधहृदावास शतमन्यु मुखस्तुत । सुतसत्यवतीदेव्या वितराजित सन्मतीः ॥ ४॥ (रामायण व्याख्यान) ६. श्रीराघवेन्द्रतीर्थविरचितं श्रीवेदव्यासस्तोत्रम् श्रीशोब्द्युन्मथनाभिरामचरितं देवैर्गृणद्भिः स्तुतः सद्ज्ञानाय पराशराख्यमुनिना यः सत्यवत्यामभूत् । व्यासत्वेन विधाय वेदविवृतिं शास्त्राणि सर्वाण्यपि ज्ञान सत्सु निधाय तद्गतकलिं निघ्नन् सनोव्याद्दरिः ॥ (श्रीमन् महाभारत ता. नि. भावसङ्ग्रहः) ७. श्रीविजयध्वजतीर्थविरचितं श्रीवेदव्यासस्तोत्रम् यदीयकृतिरञ्जसा सुमनसां सुमानं सतां सती सकलसन्नता सकलवेदवाणीनिधिः । सचित्सुखपयोनिधिः सरसिजेक्षणः श्रीपतिः पराशरशरीरजः शरणमस्तु मे सन्ततम् ॥ १॥ (श्रीमद्भागवत प्रथम स्कन्ध आदि) वेदव्यासमहं वन्दे वेदव्यासैकवेदिनम् । वेदव्यास जनारातिं वेदव्यासमुनीनपि ॥ (श्रीमद्भागवत एकादश स्कन्ध आदि) ८. श्रीछलारी शेषाचार्यकृतं श्रीवेदव्यासस्तोत्रं वेदान्यो व्यभजद्विष्णुर्भारतब्रह्मसूत्रकृत् । कर्ता भागवतादेश्च वेदव्यासं नतोऽस्मि तम् ॥ (श्रीमद्भागवत प्रथमस्कन्ध टिप्पणि तात्पर्य बोधिनि) ९. श्रीअहोबल नरसिंहाचार्यकृतं श्रीवेदव्यासस्तोत्रं व्यासं योगि मनोवासं मध्वदास सुसेवितम् । श्रीशं सम्पत्प्रदं नौमि सदा दासेप्सितप्रदम् ॥ (श्रीमद्भागवत विजयध्वज टीका आद्यन्त श्लोक व्याख्यान) १०. शर्करा श्रीनिवासाचार्यविरचिता श्रीवेदव्यासस्तुतिः ज्ञानभाक् हृतमोहर्ता श्रुतिपङ्कजबोधकः । व्यासांशुमान् दर्शयतु सन्मार्गं गुणमण्डलः ॥ (वाक्यार्थ मञ्जरि) इति वेदव्यासलघुस्तोत्राणि समाप्ता । Encoded and proofread by Krishnananda Achar
% Text title            : Veda Vyasa Laghu Stotrani
% File name             : vedavyAsalaghustotrANi.itx
% itxtitle              : vedavyAsalaghustotrANi
% engtitle              : vedavyAsalaghustotrANi
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Various
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Krishnananda Achar
% Proofread by          : Krishnananda Achar
% Indexextra            : (Scan)
% Latest update         : August 22, 2010
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org