श्रीवेदव्यासस्तोत्रम् ५
सुखमुखगुणबिम्बः साधुमार्गावलम्बः
सुमति जलजमोदो दूषितान्यप्रमोदः ।
भुवन वितत मोहध्वान्त विध्वंसकेतुः
दिशतु दृशमभीष्टां व्याससूर्यः स्वनिष्ठाम् ॥ १॥
आनन्दादि गुणोद्रिक्तमानन्दादिपदाभिधम् ।
आनन्दमुनिपं व्यास स्वानन्दाय भजेमुहुः ॥ २॥
विदोषभाश्चिन्तितसन्मनोरथप्रदेशः सुधीमण्डल मण्डनायितः ।
सदा ममाज्ञानतमोविनाशकः श्रुतीश चिन्तामणिरस्तु भूतिदः ॥ ३॥
वासवीवियति व्यक्तं परापरविभासकम् ।
व्यासाभिधमहं वन्दे महामोहतमोपहम् ॥ ४॥
(श्रीमन्यायसुधा टिप्पणि)
व्यास भारतकर्तारं मध्वं मूलगुरुं तथा ।
चेतो वाग्देवतां वाणीं गुरूंश्च प्रणमाम्यहम् ॥ ५॥
व्यासं सर्वगुणावासं वासवीनन्दनं प्रभुम् ।
श्रीनिवासं सदा वन्दे भासमानं हृदम्बरे ॥ ६॥
(श्री यमकभारत टिप्पणि)
भूखण्ड प्रकटीकृतामलवपुः विस्तारिताशेषगु
र्वेदान्ताब्ज विकासको हरिर्जगत्तत्वप्रकाशप्रदः ।
ध्वस्तध्वान्तततिः शरण्य जनसन्मार्गप्रदर्शी मुहुः
वेदव्यास दिवाकरो लसतु मे हार्दाम्बरे सर्वदा ॥ ७॥
(श्रीमद्भागवत प्रथम स्कन्ध टिप्पणि)
वासवीनन्दनं व्यासं वासुदेव पराभिदम् ।
श्रीशं नौमि सदा मध्वहृदयाम्बुज वासिनम् ॥ ८॥
(श्रीमद्भागवत प्रथम स्कन्ध टिप्पणि)
सत्यवत्यालवालोत्थं सद्विद्यालतया युतम् ।
नाना शाखाभिरुत्कृष्टं व्यास कल्पद्रुमं भजे ॥ ९॥
(श्रीमद्भागवत द्वितीय स्कन्ध टिप्पणि)
सुखज्ञानादि सद्रत्नः शुकयोगीन्दु सम्भवः ।
व्यासदेवामृताम्बोधिः भूयाद्भूत्यै ममानिशम् ॥ १०॥
(श्रीमद्भागवत तृतीय स्कन्ध टिप्पणि)
सत्यवत्यालवालोत्थं वेदशाखोपबृंहितम् ।
शुकादिद्विजसन्नादं व्यास कल्पद्रुमं भजे ॥ ११॥
(श्रीमद्भागवत चतुर्थ स्कन्ध टिप्पणि)
सुखादिगुण सम्पूर्णं दुःखाज्ञान विवर्जितम् ।
शुकादिमुनि मध्यस्तं व्यासयोगीशमाभजे ॥ १२॥
(श्रीमद्भागवत सप्तम स्कन्ध टिप्पणि)
इति श्रीयादवार्यविरचितं श्रीवेदव्यासस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Krishnananda Achar