श्रीविजयेन्द्रगुरुपादुकापञ्चकम्
अज्ञानदोषशमनीं भवबन्धविमोचनीम् ।
विजयेन्द्रगुरोर्दिव्यपादुकां प्रणमाम्यहम् ॥ १॥
शरणागतशिष्याणां सर्वमङ्गलदायिनीम् ।
विजयेन्द्रगुरोर्दिव्यपादुकां प्रणमाम्यहम् ॥ २॥
आयुरारोग्यमैश्वर्यं श्रियं पुत्रांश्च कृण्वतीम् ।
विजयेन्द्रगुरोर्दिव्यपादुकां प्रणमाम्यहम् ॥ ३॥
स्वर्गापवर्गफलदां सर्वरोगभयापहाम् ।
विजयेन्द्रगुरोर्दिव्यपादुकां प्रणमाम्यहम् ॥ ४॥
दारिद्र्यदुःखहरणीं इष्टसौभाग्यदायिनीम् ।
विजयेन्द्रगुरोर्दिव्यपादुकां प्रणमाम्यहम् ॥ ५॥
इति विजयेन्द्रगुरुपादुकापञ्चकं सम्पूर्णम् ।
Composed by S. Chandrasekaran