विश्वकर्मनामाष्टोत्तरशतकम्

विश्वकर्मनामाष्टोत्तरशतकम्

श्रीगणेशाय नमः । अथ श्रीविश्वकर्मनामाष्टोत्तरशतकं प्रारम्भम् । अस्य श्रीविश्वकर्मनामाष्टोत्तरशतकस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः । श्रीविश्वकर्मा देवता । अनुष्टुप्छन्दः । सर्वाभीष्टसिद्ध्यर्थं श्रीविश्वकर्मप्रीत्यर्थे जपे विनियोगः ॥ अथ ध्यानम् । पञ्चाननो दशभुजा घृतवद दीक्षः केयूरहारमणिकुण्डलचण्डतेजाः । भस्माङ्कितो मणिमयासनसंस्थितोऽसौ सर्वेश्वरो वसतु मे हृदि विश्वकर्मा ॥ ॐ विश्वकर्मा मनुस्त्वष्टा स्थाष्ठि च स्थविरो ध्रुवः । विष्णुर्वैश्वानरो योगी शिल्पाचार्यः क्रियापरः ॥ १॥ अमयी निर्भयः शान्तः सत्यव्यामः सतां प्रियः । लोकाध्यक्षः सुराध्यक्षो वरदोऽभयदो वरः ॥ २॥ मयो मन्द्रर्महातेजाः शिवयोगी हरिप्रियः । कायदः कयदः कान्तः कुलीनः कौशलप्रदः ॥ ३॥ दाता सत्यः स्वराड्विभुः गृहस्थाश्रमिणो मतिः ॥ वनवासी महामायो रूपाध्यक्षो ह्यचिन्तितः ॥ ४॥ स्वापनः शाघ्र सोचिन्त्यः कौशलः कर्मठो नरः ॥ जटी मुण्डी शिखी देवः संवृत्ताङ्गः पिशाचराट् ॥ ५॥ शास्त्रविधिर्विधिकरो लोकेशः पावनः परः ॥ हरो बुद्धिप्रदोऽनन्तः सत्यसङ्कल्प ईश्वरः ॥ ६॥ सत्यकामः सत्यरुचिः सत्यार्थः शम्भवः शिवः ॥ नादप्रियो बोधकर्ता करुणाश्रीरायुधप्रियः ॥ ७॥ घना खड्गी ध्वजी वर्मी शूली चक्री कपालभृत् । अजरो प्रणवो व्यक्तोऽव्यक्तः कृष्णो यजुर्डविः ॥ ८॥ यज्ञ इज्यो महान्स्पष्टः सोयी सम्राड् भवोऽभवः ॥ नाथः शिल्पी कविः शूरो मुनिर्मौनी दिगम्बरः ॥ ९॥ सर्वायुधिः सर्वसहः सर्वकृत् शङ्करप्रभुः ॥ इत्यष्टशतसङ्ख्याभिर्नामभिः संस्तुतो मयः ॥ १०॥ इत्यष्टशतनामेदं यः पठेन्नित्यशो नरः । सोऽर्थी यशः समाप्नोति श्रेयः सकलसम्पदः ॥ ११॥ इति विश्वकर्मनामाष्टोत्तरशतकं सम्पूर्णम् । As a caution, there are some doubtful words in this text. For example, ghRRitavada dIkShaH, satyavyAmaH, shAghra sochintyaH, ghanA, yajurDaviH, soyI
% Text title            : vishvakarmanAmAShTottarashatakam
% File name             : vishvakarmanAmAShTottarashatakam.itx
% itxtitle              : vishvakarmanAmAShTottarashatakam
% engtitle              : vishvakarmanAmAShTottarashatakam
% Category              : deities_misc, aShTottarashatanAma
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Divya K Suresh
% Indexextra            : (Scan)
% Latest update         : December 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org