श्रीविवेकानन्दजयगीतम्
पुरानन्तध्वान्तैरुपहतशिवज्ञानविभवे
भवे नाना मार्गैरिह समुदिते दूषणशते ।
हितं तत्त्वं चेतुं शितमतिरगाद् यः प्रतिदिशं
नरेन्द्राख्यः सोऽसौ जयति-विषयापास्तहृदयः ॥ १॥
ततो गत्वा गत्वा विविधमतमाश्रित्य भजतां
समीपे सन्देहादनुपगतमुक्तिः कथमपि ।
श्रितो यः संसिद्धं द्विजमथ जहौ संशयमलं
विवेकानन्दोऽसौ जयति जड़तामुक्तहृदयः ॥ २॥
तमेनं विश्वासाद् गुरुमकृत दृष्टार्थमवशः
स चाप्येनं मेने कुशल शरणं भारत-भुवः ।
तदादेशाद्धर्मं प्रथयितुमगाद् योऽपरभुवं
विवेकानन्दोऽसौ जयति जनताजाड्यहरणः ॥ ३॥
गुरोराशीर्वादाद् समनिजशक्तेरपि बलात्
प्रसादादाद्याया वरूणदिशि संसत् परिगतान् ।
क्षणेन व्याख्यानैरकृत परिमुग्धान्मनसि यो
विवेकानन्दोऽसौ जयति जयहेतुर्जनिभुवः ॥ ४॥
ततः प्रत्यावृत्तौ ह्यभयमयमन्त्रान् प्रतिदिशं
चितालस्यान् सञ्जागरयितुमना भारतजनान् ।
य उच्चार्योदात्तं व्यघटयमदीषां भयचयं
विवेकानन्दोऽसौ जयति भयहृद्भारतभुवः ॥ ५॥
दिशन् सेवावृत्तिं परमहितहेतुं जनिमता
मनैषीद् यो निष्ठां दिशिदिशि च सेवाश्रमगणान् ! ।
सुसन्तानः श्रेयः प्रचयजननः सर्वजगतां
विवेकानन्दोऽसौ जयति तिमिरोत्पाततपनः ॥ ६॥
इति महामहोपाध्याय श्रीकालीपदतर्काचार्येण विरचितं
``विवेकानन्दजयगीतम्'' सम्पूर्णम् ।
Proofread by Aruna Narayanan