श्रीविवेकानन्दप्रभातप्राञ्जलिः
समाधिस्थः शिवः स्वलोके निर्भरं
जनानां क्रन्दनाद् भवाग्नौ भीषणे ।
प्रदग्धानां प्रबोधितस्त्वं ह्यागतः
विवेकानन्द ते प्रभाते प्राञ्जलिः ॥ १॥
नरेन्द्रः शैशवे नरेन्द्रो यौवने
नरेन्द्रः क्रीड़ने नरेन्द्रः शिक्षणे ।
नरेन्द्रः पालने नरेन्द्राह्यर्पणे
विवेकानन्द ते प्रभाते प्राञ्जलिः ॥ २॥
हरीन्द्रश्चेष्टितैः कलाज्ञो गायनैः
परिज्ञानैबुर्धो महर्षिर्दर्शनैः ।
यतीन्द्रोऽसक्तिभिर्भवान् यन्नास्ति किं
विवेकानन्द ते प्रभाते प्राञ्जलिः ॥ ३॥
मुमुक्षादर्शिताऽभिहंसं धावनैः
विनैकां पादुकां नितान्तोन्मत्तवत् ।
समानां देहि मे मुमुक्षां मद्गुरो
विवेकानन्द ते प्रभाते प्राञ्जलिः ॥ ४॥
गुरोरङ्घ्र्यत्पले स्वमात्मानः ददौ
परीक्ष्यानन्तरं बहुप्रश्नैर्भृशम् ।
विशुद्धैः सेवनैर्भवांस्त्वं पिप्रिये
विवेकानन्द ते प्रभाते प्राञ्जलिः ॥ ५॥
सुगन्धः श्री गुरुर्भवान्वायुः खलु
स तूर्यं त्वं च भो महोचैर्घोषकः ।
गुरुस्सूर्यस्तु हे किलादर्शो भवान्
विवेकानन्द ते प्रभाते प्राञ्जलिः ॥ ६॥
स्वधर्मश्रेष्ठतां सगर्वं शंसतां
जनानां धृष्टता त्वयैवाभाज्यहो ।
स्वधर्मो वैदिको ह्यनर्घो दर्शितः
विवेकानन्द ते प्रभाते प्राञ्जलिः ॥ ७॥
स्फुलिङ्गान् स्फोटयन् सुदीप्ताग्निर्यथा
तथैव त्वं यते विकीर्यामानुषीम् ।
परिज्ञानप्रभामचारीर्भारते
विवेकानन्द ते प्रभाते प्राञ्जलिः ॥ ८॥
अहो आकर्षणं तवास्यास्यातुलं
तवाहो पौरुषं विरागो मुग्धता ।
प्रगाढं प्रेम च ह्यगाधं वेदनं
विवेकानन्द ते प्रभाते प्राञ्जलिः ॥ ९॥
विमोक्षं स्वात्मनश्चतुर्योगाध्वभिः
पृथग्वा संहतैर्हितं लोकस्य च ।
तवाज्ञा साधयेदिति प्रीत्या नरः
विवेकानन्द ते प्रभाते प्राञ्जलिः ॥ १०॥
यतेऽनुरूस्तव प्रणामं दास्यति
प्रफुल्लं षट्पदैः प्रसूनं प्रावृतम् ।
तवार्थं कोकिलो मनोज्ञं कूजति
विवेकानन्द ते प्रभाते प्राञ्जलिः ॥ ११॥
उषः काले पदे नमस्कृत्याशिषा
लभेरन् धन्यतामिति श्रद्धालवः ।
समेता सम्मुखे ददेथा दर्शनं
विवेकानन्द ते प्रभाते प्राञ्जलिः ॥ १२॥
हिमाद्रेराश्रमे जयन्त्यां निर्मितः
भुजङ्गस्रग्विणीति वृते नूतने ।
स्तवोऽयं यः पठेत् सभक्त्या तं नरः
स शक्तिं पौरुषं विरागं चार्जति ॥ १३॥
इति स्वामिहर्षानन्दविरचितः ``श्रीविवेकानन्दप्रभातप्राञ्जलिः'' समाप्तः ।
Proofread by Aruna Narayanan