श्रीविवेकानन्दवन्दना
(सप्तर्षि-मण्डलस्य श्रेष्ठर्षि-विवेकानन्दस्य श्रीपादपद्मेषु
सप्तश्लोकसमन्वितः सामान्यातिसामान्यः पूजार्घ्यः)
नमामि वन्द्यं विवेकानन्दं धराहृदयारविन्दम् ।
विश्वचन्दनं निःस्वनन्दनमोङ्कारनादविन्दम् ॥ १॥
नवधर्मधुरं भवमर्मचरं मथित मनोमकरन्दम् ।
प्रेमपथकरं क्षेमशतधरं रणित ब्रह्मानन्दम् ॥ २॥
स्थिरशान्तितरं चिरभ्रान्तिहरं मर्दितद्वेषद्वन्द्वम् ।
रोचनऋषिवरं मोचनतत्परं कर्तितभवभयबन्धम् ॥ ३॥
शोकभञ्जनं लोकरञ्जनं परदोषदर्शनानन्दम् ।
गुणिगण-गञ्जनं मुनिजनखञ्जनं पूतपारिजातगन्धम् ॥ ४॥
न्यायवरदण्डं ध्येयपरचण्डं हसनोत्प्रफुल्लगण्डम् ।
धृतब्रह्माण्डं हृतमार्तण्डं सप्तर्षिमण्डलमण्डम् ॥ ५॥
शारदानयनं वरदातनयं नरनारायणचन्द्रम् ।
कल्मषकन्टं रामकृष्णकण्ठं वेदवाणीमधुमन्द्रम् ॥ ६॥
जीवशिवदासं क्लीवजननाशं नवयुगप्राणस्पन्दम् ।
नमामि वन्द्यं विवेकानन्दमालोकामृतस्कन्दम् ॥ ७॥
॥ ॐ शान्ति ॥
इति डाॅ रमाचतुर्धुरिण्याविरचिता ``श्रीविवेकानन्दवन्दना''
(श्रीविवेकानन्द सप्तमी) समाप्ता ।
Proofread by Aruna Narayanan