श्रीव्यासाचार्याष्टोत्तरशतनामावलिः
॥ ध्यानम् ॥
अभ्र-श्यामः पिङ्ग-जटा-बद्ध-कलापः
प्रांशुर्दण्डीकृष्णमृग-त्वक्-परिधानः ।
सर्वान् लोकान् पावयमानः कवि-मुख्यः
पाराशर्यः पर्व-सुरूपं विवृणोतु ॥ १॥
व्यासं वसिष्ठ-नप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ २॥
कृष्ण-द्वैपायनं व्यासं सर्व-भूत-हितेरतम् ।
वेदाब्ज-भास्करं वन्दे शमादि-निलयं मुनिम् ॥ ३॥
अथ नामावलिः ।
ॐ नारायणकुलोद्भूताय नमः ।
ॐ नारायणपराय नमः ।
ॐ वराय नमः ।
ॐ नारायणावताराय नमः ।
ॐ नारायणवशंवदाय नमः ।
ॐ स्वयम्भुवंशसम्भूताय नमः ।
ॐ वसिष्ठकुलदीपकाय नमः ।
ॐ शक्तिपौत्राय नमः ।
ॐ पापहन्त्रे नमः ।
ॐ पराशरसुताय नमः । १०
ॐ अमलाय नमः ।
ॐ द्वैपायनाय नमः ।
ॐ मातृभक्ताय नमः ।
ॐ शिष्टाय नमः ।
ॐ सत्यवतीसुताय नमः ।
ॐ स्वयमुद्भूतवेदाय नमः ।
ॐ चतुर्वेदविभागकृते नमः ।
ॐ महाभारतकर्त्रे नमः ।
ॐ ब्रह्मसूत्रप्रजापतये नमः ।
ॐ अष्टादशपुराणानाङ्कर्त्रे नमः । २०
ॐ श्यामाय नमः ।
ॐ प्रशिष्यकाय नमः ।
ॐ शुकताताय नमः ।
ॐ पिङ्गजटाय नमः ।
ॐ प्रांशवे नमः ।
ॐ दण्डिने नमः ।
ॐ मृगाजिनाय नमः ।
ॐ वश्यवाचे नमः ।
ॐ ज्ञानदात्रे नमः ।
ॐ शङ्करायुःप्रदाय नमः । ३०
ॐ शुचये नमः ।
ॐ मातृवाक्यकराय नमः ।
ॐ धर्मिणे नमः ।
ॐ कर्मिणे नमः ।
ॐ तत्त्वार्थदर्शकाय नमः ।
ॐ सञ्जयज्ञानदात्रे नमः ।
ॐ प्रतिस्मृत्युपदेशकाय नमः ।
ॐ सर्वधर्मोपदेष्ट्रे नमः ।
ॐ मृतदर्शनपण्डिताय नमः ।
ॐ विचक्षणाय नमः । ४०
ॐ प्रहृष्टात्मने नमः ।
ॐ पर्वपूज्याय नमः ।
ॐ प्रभवे नमः ।
ॐ मुनये नमः ।
ॐ वीराय नमः ।
ॐ विश्रुतविज्ञानाय नमः ।
ॐ प्राज्ञाय नमः ।
ॐ अज्ञाननाशनाय नमः ।
ॐ ब्राह्मकृते नमः ।
ॐ पाद्मकृते नमः । ५०
ॐ धीराय नमः ।
ॐ विष्णुकृते नमः ।
ॐ शिवकृते नमः ।
ॐ श्रीभागवतकर्त्रे नमः ।
ॐ भविष्यरचनादराय नमः ।
ॐ नारदाख्यस्यकर्त्रे नमः ।
ॐ मार्कण्डेयकराय नमः ।
ॐ अग्निकृते नमः ।
ॐ ब्रह्मवैवर्तकर्त्रे नमः ।
ॐ लिङ्गकृते नमः । ६०
ॐ वराहकृते नमः ।
ॐ स्कान्दकर्त्रे नमः ।
ॐ वामनकृते नमः ।
ॐ कूर्मकर्त्रे नमः ।
ॐ मत्स्यकृते नमः ।
ॐ गरुडाख्यस्यकर्त्रे नमः ।
ॐ ब्रह्माण्डाख्यपुराणकृते नमः ।
ॐ उपपुराणानाङ्कर्त्रे नमः ।
ॐ पुराणाय नमः ।
ॐ पुरुषोत्तमाय नमः । ७०
ॐ काशिवासिने नमः ।
ॐ ब्रह्मनिधये नमः ।
ॐ गीतादात्रे नमः ।
ॐ महामतये नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वसिद्धये नमः ।
ॐ सर्वशास्त्रप्रवर्तकाय नमः ।
ॐ सर्वाश्रयाय नमः ।
ॐ सर्वहिताय नमः ।
ॐ सर्वस्मै नमः । ८०
ॐ सर्वगुणाश्रयाय नमः ।
ॐ विशुद्धाय नमः ।
ॐ शुद्धिकृते नमः ।
ॐ दक्षाय नमः ।
ॐ विष्णुभक्ताय नमः ।
ॐ शिवार्चकाय नमः ।
ॐ देवीभक्ताय नमः ।
ॐ स्कन्दरुचये नमः ।
ॐ गणेशादृते नमः ।
ॐ योगविदे नमः । ९०
ॐ पैलाचार्याय नमः ।
ॐ ऋचः कर्त्रे नमः ।
ॐ शाकल्यार्याय नमः ।
ॐ याजुषाय नमः ।
ॐ जैमिन्यार्याय नमः ।
ॐ सामकर्त्रे नमः ।
ॐ सुमन्त्वार्याय नमः ।
ॐ अथर्वकृते नमः ।
ॐ रोमहर्षणसूतार्याय नमः ।
ॐ लोकाचार्याय नमः । १००
ॐ महामुनये नमः ।
ॐ व्यासकाशिरतये नमः ।
ॐ विश्वपूज्याय नमः ।
ॐ विश्वपूजकाय नमः ।
ॐ शान्ताय नमः ।
ॐ शान्ताकृतये नमः ।
ॐ शान्तचित्ताय नमः ।
ॐ शान्तिप्रदाय नमः । १०८
॥ इति व्यासाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Proofread by Aruna Narayanan