व्यासाष्टोत्तरशतनामावलिः
ॐ कृष्णद्वैपायनाय नमः ।
ॐ व्यासाय नमः ।
ॐ भगवते नमः ।
ॐ बादरायणाय नमः ।
ॐ वसिष्ठनप्त्रे नमः ।
ॐ शाक्ताय नमः ।
ॐ पाराशर्याय नमः ।
ॐ धृढव्रताय नमः ।
ॐ शुकताताय नमः ।
ॐ महाबुद्धये नमः । १०
ॐ महात्मने नमः ।
ॐ नारदप्रियाय नमः ।
ॐ मैत्रेयमित्राय नमः ।
ॐ मान्याय नमः ।
ॐ मुनिमण्डलपूजिताय नमः ।
ॐ नारायणाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ विष्णवे नमः ।
ॐ वैष्णव पुङ्गवाय नमः ।
ॐ शिवभक्तिमतां श्रेष्टाय नमः । २०
ॐ वेदविभागकृते नमः ।
ॐ अष्टादशपुराणानां कर्त्रे नमः ।
ॐ सत्यवतीसुताय नमः ।
ॐ ब्रह्मसूत्रविधात्रे नमः ।
ॐ धर्मसूत्रनियामकाय नमः ।
ॐ महाकवये नमः ।
ॐ महाज्ञानिने नमः ।
ॐ महाभारतकृते नमः ।
ॐ मुनये नमः ।
ॐ सुमन्तु सेविताय नमः । ३०
ॐ श्रीमते नमः ।
ॐ जैमिनिपूजिताय नमः ।
ॐ पैलादिशिष्यभाव्याय नमः ।
ॐ वैशम्पायनवन्दिताय नमः ।
ॐ शंयाप्रासनिवासिने नमः ।
ॐ रोमहर्षणरक्षकाय नमः ।
ॐ सूतमण्डलसेव्याय नमः ।
ॐ सुरासुरनमस्कृताय नमः ।
ॐ यमुनाद्वीपसञ्जाताय नमः ।
ॐ गङ्गातीरचराय नमः । ४०
ॐ सरस्वतीतीरवासिने नमः ।
ॐ सर्वतीर्थनिषेवकाय नमः ।
ॐ जटावल्कलधारिणे नमः ।
ॐ कृष्णाजिनविभूषिताय नमः ।
ॐ प्रांशवे नमः ।
ॐ प्रगल्भरूपाय नमः ।
ॐ प्रसन्नवदनाम्बुजाय नमः ।
ॐ कमण्डलुधराय नमः ।
ॐ योगिने नमः ।
ॐ कामक्रोधविनाशकृते नमः । ५०
ॐ जितेन्द्रियाय नमः ।
ॐ जितात्मने नमः ।
ॐ जयिने नमः ।
ॐ जयकराय नमः ।
ॐ तपोधनाय नमः ।
ॐ तपस्विने नमः ।
ॐ तपस्विगणपूजिताय नमः ।
ॐ ब्रह्मज्ञाय नमः ।
ॐ ब्रह्मनिष्ठाय नमः ।
ॐ ब्रह्मचर्यव्रतेस्थिताय नमः । ६०
ॐ ब्रह्मण्याय नमः ।
ॐ ब्रह्मविदे नमः ।
ॐ ब्रह्मणे नमः ।
ॐ ब्राह्मणाय नमः ।
ॐ ब्राह्मणप्रियाय नमः ।
ॐ भीष्मादिराजपूज्याय नमः ।
ॐ धृतराष्ट्रादिसृष्टिकृते नमः ।
ॐ कुलवर्धनकारिणे नमः ।
ॐ गुणज्ञाय नमः ।
ॐ विदुरप्रियाय नमः । ७०
ॐ पञ्चपाण्डवपालाय नमः ।
ॐ पाञ्चालीभद्रकारणाय नमः ।
ॐ धौम्यादिदेशिकाय नमः ।
ॐ द्वारकाधीशदैवताय नमः ।
ॐ कृष्णप्रियाय नमः ।
ॐ कृष्णभक्ताय नमः ।
ॐ कृष्णध्यानपरायणाय नमः ।
ॐ कृष्णलीलारसज्ञाय नमः ।
ॐ कृष्णाय नमः ।
ॐ श्रीकृष्णपूजिताय नमः । ८०
ॐ सभायां विष्णुमाहात्म्य निर्धारणपरायणाय नमः ।
ॐ पाषण्डमतविद्वेषिणे नमः ।
ॐ कुतर्किकरिकेसरिणे नमः ।
ॐ वेदान्तमतसिद्धान्तनिर्धारणकराय नमः ।
ॐ गुरवे नमः ।
ॐ नैमिषारण्यनिलयाय नमः ।
ॐ नित्यकर्मपरायणाय नमः ।
ॐ निःसंशयाय नमः ।
ॐ निर्मालाय नमः ।
ॐ नित्यानित्यविचारकृते नमः । ९०
ॐ शिष्टाय नमः ।
ॐ श्रेष्ठाय नमः ।
ॐ कष्ठहराय नमः ।
ॐ अष्ठैश्वर्यप्रदायकाय नमः ।
ॐ भ्रष्टजनोद्धारिने नमः ।
ॐ भक्ताभीष्ठफलप्रदाय नमः ।
ॐ आपद्बन्धवे नमः ।
ॐ कृपासिन्धवे नमः ।
ॐ प्रणतार्तिविमोचनाय नमः ।
ॐ संसारदुःखहरणाय नमः । १००
ॐ स्मरणात् पापनाशनाय नमः ।
ॐ नानारोगहराय नमः ।
ॐ नानादुःखहराय नमः ।
ॐ धर्मार्थकामदात्रे नमः ।
ॐ पुत्रभाग्यफलप्रदाय नमः ।
ॐ कलिधर्मस्यवक्त्रे नमः ।
ॐ कलिकल्मषनाशकाय नमः ।
ॐ भगवद्धर्मनिष्णाताय नमः ।
ॐ बदर्याश्रमवासकृते नमः । १०९
स्तवमष्टोत्तरशतनामवलि समन्वितम् ।
यः पठेत् व्यासदेवस्य स हि मङ्गलमाप्नुयात् ॥
आयुष्यमपि माङ्गल्यं आरोग्यकरमेवच ।
वंशवृद्धिकरं नॄणां सार्वाभीष्टफलप्रदम् ॥
व्यासस्तोत्रमिदं पुण्यं पठन् भक्त्या दिने दिने ।
सर्वमङ्गलमाप्नोति व्यासो विष्णुः सनातनः ॥
इति श्रीकृष्णप्रेमीविरचिता व्यासाष्टोत्तरशतनामावलिः समाप्ता ।