व्यासप्रोक्तं अश्वशिरास्तोत्रम्

व्यासप्रोक्तं अश्वशिरास्तोत्रम्

एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम् । पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि ॥ ७२॥ यां यामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित् । तां तां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना ॥ ७३॥ एष वेदनिधिः श्रीमानेष वै तपसो निधिः । एष योगश्च साङ्ख्यं च ब्रह्म चाग्र्यं हरिर्विभुः ॥ ७४॥ नारायणपरा वेदा यज्ञा नारायणात्मकाः । तपो नारायणपरं नारायणपरा गतिः ॥ ७५॥ नारायणपरं सत्यमृतं नारायणात्मकम् । नारायणपरो धर्मः पुनरावृत्तिदुर्लभः ॥ ७६॥ प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः । नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः ॥ ७७॥ अपां चैव गुणो राजन् रसो नारायणात्मकः । ज्योतिषां च गुणो रूपं स्मृतं नारायणात्मकम् ॥ ७८॥ नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः । नारायणात्मकश्चापि शब्द आकाशसम्भवः ॥ ७९॥ मनश्चापि ततो भूतमव्यक्तगुणलक्षणम् । नारायणपरः कालो ज्योतिषामयनं च यत् ॥ ८०॥ नारायणपरा कीर्तिः श्रीश्च लक्ष्मीश्च देवताः । नारायणपरं साङ्ख्यं योगो नारायणात्मकः ॥ ८१॥ कारणं पुरुषो येषां प्रधानं चापि कारणम् । स्वभावश्चैव कर्माणि दैवं येषां च कारणम् ॥ ८२॥ पञ्चकारणसङ्ख्यातो निष्ठा सर्वत्र वै हरिः । तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः ॥ ८३॥ तत्त्वमेको महायोगी हरिर्नारायणः प्रभुः । सब्रह्मकानां लोकानामृषीणां च महात्मनाम् ॥ ८४॥ साङ्ख्यानां योगिनां चापि यतीनामात्मवेदिनाम् । मनीषितं विजानाति केशवो न तु तस्य ते ॥ ८५॥ ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते । दानानि च प्रयच्छन्ति तप्यन्ति च तपो महत् ॥ ८६॥ सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः । सर्वभूतकृतावासो वासुदेवेति चोच्यते ॥ ८७॥ अयं हि नित्यः परमो महर्षिर्महाविभूतिर्गुणवान्निर्गुणाख्यः । गुणैश्च संयोगमुपैति शीघ्रं कालो यथर्तावृतुसम्प्रयुक्तः ॥ ८८॥ नैवास्य विन्दन्ति गतिं महात्मनो न चागतिं कश्चिदिहानुपश्यति । ज्ञानात्मकाः संयमिनो महर्षयः पश्यन्ति नित्यं पुरुषं गुणाधिकम् ॥ ८९॥ इति महाभारते शान्तरपर्वणि ३३५ अध्यायान्तर्गतं व्यासप्रोक्तं अश्वशिरास्तोत्रं सम्पूर्णम् । महाभारत । शान्तिपर्व । अध्याय ३३५/७३-८९॥ mahAbhArata . shAntiparva . adhyAya 335/73-89.. Proofread by PSA Easwaran
% Text title            : Vyasaproktam Ashvashira Stotram
% File name             : vyAsaproktaMashvashirAstotram.itx
% itxtitle              : ashvashirAstotram (vyAsaproktaM mahAbhAratAntargatam)
% engtitle              : vyAsaproktaM ashvashirAstotram
% Category              : deities_misc, mahAbhArata, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : mahAbhArata | shAntiparva | adhyAya 335/73-89||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Gujarati, Bengali, Hindi)
% Latest update         : November 15, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org