व्यासप्रोक्तं अश्वशिरास्तोत्रम्
एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम् ।
पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि ॥ ७२॥
यां यामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित् ।
तां तां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना ॥ ७३॥
एष वेदनिधिः श्रीमानेष वै तपसो निधिः ।
एष योगश्च साङ्ख्यं च ब्रह्म चाग्र्यं हरिर्विभुः ॥ ७४॥
नारायणपरा वेदा यज्ञा नारायणात्मकाः ।
तपो नारायणपरं नारायणपरा गतिः ॥ ७५॥
नारायणपरं सत्यमृतं नारायणात्मकम् ।
नारायणपरो धर्मः पुनरावृत्तिदुर्लभः ॥ ७६॥
प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः ।
नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः ॥ ७७॥
अपां चैव गुणो राजन् रसो नारायणात्मकः ।
ज्योतिषां च गुणो रूपं स्मृतं नारायणात्मकम् ॥ ७८॥
नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः ।
नारायणात्मकश्चापि शब्द आकाशसम्भवः ॥ ७९॥
मनश्चापि ततो भूतमव्यक्तगुणलक्षणम् ।
नारायणपरः कालो ज्योतिषामयनं च यत् ॥ ८०॥
नारायणपरा कीर्तिः श्रीश्च लक्ष्मीश्च देवताः ।
नारायणपरं साङ्ख्यं योगो नारायणात्मकः ॥ ८१॥
कारणं पुरुषो येषां प्रधानं चापि कारणम् ।
स्वभावश्चैव कर्माणि दैवं येषां च कारणम् ॥ ८२॥
पञ्चकारणसङ्ख्यातो निष्ठा सर्वत्र वै हरिः ।
तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः ॥ ८३॥
तत्त्वमेको महायोगी हरिर्नारायणः प्रभुः ।
सब्रह्मकानां लोकानामृषीणां च महात्मनाम् ॥ ८४॥
साङ्ख्यानां योगिनां चापि यतीनामात्मवेदिनाम् ।
मनीषितं विजानाति केशवो न तु तस्य ते ॥ ८५॥
ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते ।
दानानि च प्रयच्छन्ति तप्यन्ति च तपो महत् ॥ ८६॥
सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः ।
सर्वभूतकृतावासो वासुदेवेति चोच्यते ॥ ८७॥
अयं हि नित्यः परमो महर्षिर्महाविभूतिर्गुणवान्निर्गुणाख्यः ।
गुणैश्च संयोगमुपैति शीघ्रं कालो यथर्तावृतुसम्प्रयुक्तः ॥ ८८॥
नैवास्य विन्दन्ति गतिं महात्मनो न चागतिं कश्चिदिहानुपश्यति ।
ज्ञानात्मकाः संयमिनो महर्षयः पश्यन्ति नित्यं पुरुषं गुणाधिकम् ॥ ८९॥
इति महाभारते शान्तरपर्वणि ३३५ अध्यायान्तर्गतं
व्यासप्रोक्तं अश्वशिरास्तोत्रं सम्पूर्णम् ।
महाभारत । शान्तिपर्व । अध्याय ३३५/७३-८९॥
mahAbhArata . shAntiparva . adhyAya 335/73-89..
Proofread by PSA Easwaran