व्यासस्तोत्रम्
तस्मै भगवते नित्यं नमः सत्याय धीमते ।
पाराशर्याय मुनये व्यासायामिततेजसे ॥ १॥
कृष्णद्वैपायनः साक्षाद्विष्णुरेव सनातनः ।
को ह्यन्यस्तत्त्वतो रुद्रं वेत्ति तं परमेश्वरम् ॥ २॥
नमः कुरुध्वं तमृषिं कृष्णं सत्यवतीसुतम् ।
पाराशर्यं महात्मानं योगिनं विष्णुमव्ययम् ॥ ३॥
एवमुक्तास्तु मुनयः सर्व एव समीहिताः ।
प्रेणेमुस्तं महात्मानं व्यासं सत्यवतीसुतम् ॥ ४॥
इति कूर्मपुराणे पूर्वभागे त्रिंशाध्यायान्तर्गतं
व्यासस्तोत्रं समाप्तम् ।
कूर्मपुराणे पूर्वभागे ३०/६६-६८
Proofread by PSA Easwaran