श्रीव्यासस्तोत्रम्
वेदव्यासमहं वन्दे वेदव्यासकरं हरिम् ।
पराशरसुतं सत्यवतीपुत्रं महामुनिम् ॥ ४७॥
प्राचीनगर्भं प्रवदन्ति यं वै ज्ञानावतारं प्रथमं मुरारेः ।
आचार्यसिंहासनमाश्रितो यो वेदान्तसूत्राण्यवदच्च मन्त्रान् ॥ ४८॥
अपान्तरतमा मुनिर्निगमादेशिकश्चादिमः
वदन्ति परमर्षयोऽपरविधिं च षष्ठं विधेः ।
चतुर्मुखमुखोदितं निगदितं च यत्पञ्चमं
जगद्धितकृते निजहितस्य वेदं नुमः ॥ ४९॥
व्यासाम्भोधि(धौ) ज्ञानविज्ञानलीनं
तस्मिन् जातं भारताम्भोजपुष्पम् ।
हंसाहंसा मोदिता यस्य मोदात्
त्यक्त्वासारां संस्मृतिं यान्ति पारम् ॥ १॥
मानं यस्य वचः सुरासुरगणैः सद्भिर्नरैर्मन्यते
ज्ञानं येन च भण्यते भ्रमहरं शान्तिप्रदं चामृतम् ।
यद्वाच्यार्थचतुष्टयन्तदृषयः प्राहुर्नृणां तुष्टये
यस्मिन्नास्ति न चास्य तत्क्वचिदपि व्यासं तमेनं भजे ॥ २॥
भारतस्य मिषतो निगमार्थो
भारते प्रकटितः परमार्थः ।
येन संसृतिविहीनजनानां
संस्कृतिर्भवति चामृतहेतुः ॥ ३॥
भक्तिविरक्त्यनुभूतिप्रधानं
केशवकीर्त्यमृतैकनिधानम् ।
येन मुदे निखिलस्य पुराणं
व्यासमहं प्रणमामि पुराणम् ॥ ४॥
कृष्णद्वैपायनं वन्दे व्यासं तमरणीपतिम् ।
शुको यन्मुखतो जातो यन्मुखात्परमागमम् ॥ ५॥
इत्युग्रश्रवसा गीतं जनिना रोमहर्षणेः ।
पठेद्वा शृणुयात्स्तोत्रं स प्रसादं गुरोर्भजेत् ॥ ६॥
(४७-५५)
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे चतुर्थांशे
श्रीव्यासस्तोत्रं सम्पूर्णम् ।
Proofread by Manish Gavkar