व्यासस्तुतिः
व्यासं वसिष्ठ-नप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ १॥
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।
अभाललोचनः शम्भुर्भगवान् बादरायणः ॥ २॥
नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपतनेत्र ।
येन त्वया भारततैलपूर्ण प्रज्वालितो ज्ञानमयः प्रदीपः ॥ ३॥
नमः सर्वविदे तस्मै व्यासाय कविवेधसे ।
चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥ ४॥
वदन-कमल-निर्यद्यस्य पीयूषमाद्यं
पिबति जनवरोऽयं पातु सोऽयं गिरं मे ।
वदनवन-विहारः सत्यवत्या कुमारः
प्रणतदुरितहारः शार्ङ्ग धन्वावतारः ।
इति व्यासस्तुतिः समाप्ता ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com