श्रीवेदव्यासाष्टकम्
(दृतविलम्बितं छन्दः)
कलिमलास्तविवेकदिवाकरं समवलोक्य तमोवलितं जनम् ।
करुणया भुवि दर्शितविग्रहं मुनिवरं तमहं सततं भजे ॥ १॥ (मुनिवरं तमहं सततं भजे
भरतवंशसमुद्धरणेच्छया स्वजननीवचसा परिनोदितः ।
अजनयत्तनयत्रितयं प्रभुः शुकनुतं तमहं सततं भजे ॥ २॥
मतिबलादि निरीक्ष्य कलौ नृणां लघुतरं कृपया निगमाम्बुधेः ।
समकरोदिह भागमनेकधा श्रुतिपतिं तमहं सततं भजे ॥ ३॥
सकलधर्मनिरूपणसागरं विविधचित्रकथासमलङ्कृतम् ।
व्यरचयच्च पुराणकदम्बकं कविवरं तमहं सततं भजे ॥ ४॥
श्रुतिविरोधसमन्वयदर्पणं निखिलवादिमतान्ध्यविदारणम् ।
ग्रथितवानपि सूत्रसमूहकं मुनिसुतं तमहं सततं भजे ॥ ५॥
यदनुभाववशेन दिवं गतः समधिगम्य महास्त्रसमुच्चयम् ।
कुरूचमूमजयद्विजयो(१) द्रुतं द्युतिधरं तमहं सततं भजे ॥ ६॥
समरवृत्तविबोधसमीहया कुरुवरेण(२) मुदा कृतयाचनः ।
सपदि सूतमदादमलेक्षणं(३) कलिहरं तमहं सततं भजे ॥ ७॥
वननिवासपरौ कुरुदम्पति सुतशुचा तपसा च विकर्षितौ ।
मृततनूजगणं समदर्शयत् शरणदं तमहं सततं भजे ॥ ८॥
व्यासाष्टकमिदं पुण्यं ब्रह्मानन्देन कीर्तितम् ।
यः पठेन्मनुजो नित्यं स भवेच्छास्त्रपारगः ॥
इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं
श्रीवेदव्यासाष्टकं सम्पूर्णम् ।
१ कुरुवरेण refers to धृतराष्ट्रेण
२ द्विजयो refers to विजयोर्जुनः
३ सूतं refers to सञ्जयं
The refrain तमहं सततं भजे
is also replaced by गुरुव्यासमहं भजे
in some prints.
Encoded and proofread by Sunder Hattangadi