यतिपतिषण्णवतिः

यतिपतिषण्णवतिः

॥ श्रीः ॥ ॥ श्रीनिधये नमः ॥ ॥ श्रीमते रामानुजाय नमः ॥ अथ (१)यतिपतिषण्णवतिः ॥ कविताजितकल्लोलिकन्यकाकान्तवक्षसे । करुणादिगुणाढ्याय कमलानिधये नमः ॥ (१. अनुष्टुभ्) वन्दे (२)नलाग्रजशरच्चापजं चापपत्तने । कुर्वन् (३)नलानुजशरन्मधुजातयतिस्तुतिम् ॥ १॥ एवं शुभसन्देशावहरामानुजपत्रिकायै स्वकृतज्ञतां दर्शयन्तः ९०--तमे श्लोके श्लेषेण श्रीरामानुजसाम्यं तस्या उपपादयन्ति कवीश्वराः ॥ पिङ्गलवत्सरे भगवतो रामानुजस्य अवतारः । स च भगवतः आदिशेषस्य अवतारविशेषः । छन्दश्शास्त्रकृत् पिङ्गलमुनिश्च तथा आदिशेषस्य अवतारविशेषः । अतः नानाविध (५४) वृत्तैरभिपूर्णेयं षण्णवतिः कल्पिता कविसार्वभौमैः ॥ (२. पङ्क्तिविशेषः- यतिनुतिः(४)) पिङ्गलनामकवत्सरजं मङ्गलदं यतिवृन्दपतिम् । पिङ्गलदर्शितवृत्तकुलैः अङ्गलसच्छुभपुण्ड्रमये ॥ २॥ (३. वियोगिनी) अभिवन्द्य यतीन्द्रसंश्रयान् अनघानाश्रितपापनाशकान् । अहमद्य करोमि सन्मुनेः अतिहृद्यामलवृत्तमालिकाम् ॥ ३॥ (४. मालभारिणी) भगवन्नुदितो(५) भवस्य तारे मतमंहो ! स भवस्य तल्लुनासि । मधुमासभवस्तथा कथं वा मधुविद्वेषिणि सक्तमानसोऽभूः ॥ ४॥ भगवन्नुदितो भवस्य तारे भवताराय नतस्य चेष्टसे त्वम् । मधुमासभवस्तथैव संयक् मधुमद्भाष्ययुगं प्रणीतवान् त्वम् ॥ ५॥ (५. श्रीः) श्रीस्ते । सा स्तात् ॥ ६॥ (६. स्त्री) श्रीमन् ! योगिन् ! । विद्यां दद्याः ॥ ७॥ (७. मृगी) दीव्यतान्मानसे । मे भवान् सन्ततम् ॥ ८॥ (८. कन्या) योगिन्नस्मत्स्वामिन् ! जीयाः । जीया योगिन्नस्मत्स्वामिन् ! ॥ ९॥ (९. पङ्क्तिः) श्रीयतिनेतुः ध्यानविधाता । पश्यति तत्त्वं वेदशिरस्थम् ॥ १०॥ (१०. प्रिया) यतिराट्पदे निरतस्सदा । यमभीकरो भविता पुमान् ॥ ११॥ (११. तनुमध्या) मूर्तिर्यतिनेतुः शोणायितवस्त्रा । वंशं कलयन्ती पायादघराशेः ॥ १२॥ (१२. नरप्रिया(६)) भवति भाष्यकृत् भगवतः प्रियः । भवभयापहो भज तमुन्नतम् ॥ १३॥ (१३. सोमराजी) यदा लक्ष्मणार्यं मुदा पूजयेन्ना । तदा वेदशीर्ष्णां विदा शंसितस्स्यात् ॥ १४॥ (१४. मदलेखा) राजायं यतिपङ्क्तेः राजा सन् द्विजपङ्क्तेः । अज्ञानं भवरात्रेः नुद्यान्नस्तम एतत् ॥ १५॥ रामायामयि रागं मा याया मम चित्त ! । गोदायास्सहजेऽस्मिन् मायाया हृति यायाः ॥ १६॥ (अनुष्टुभ्) श्रीमद्रामानुजौ वन्दे गीतातद्भाष्यदायिनौ । वंशालङ्कृतहस्ताब्जौ गोदानाथसहोदरौ ॥ १७॥ अद्वैतं श्रवसां नेत्रेः द्वैतं च रसनासु यः । धत्ते स एव योगी सन् विशिष्टाद्वैतमब्रवीत् ॥ १८॥ (१५. प्रमाणिका) श्रुतिस्मृतिप्रमाणिका यतिप्रकाण्डभारती । सुधानिमग्नविग्रहं करोति पण्डितं जनम् ॥ १९॥ (१६. गजगतिः) बुधगणैरभिनुतो मुनिमणिः श्रितहरिः । श्रुतिशिरःकृतमतिः शुभततिं वितनुताम् ॥ २०॥ (१७. बृहतीविशेषः यादवी(७)) यादववञ्चितचेता यः यादवपूजितपादो यः । यादवपर्वतवासी यः यादववंशजचेता यः ॥ २१॥ (१८. बृहत्युपजातिः) ब्राह्मणराक्षसपीडायाः भूपतिपुत्रीं पालयता । ख्यापितरामानुजनाम्ना संयमिराजा तेन वयम् ॥ २२॥ (१९. चम्पकमाला) हन्त सनाथा तेन न चिन्ता संसृतिरक्षोभूतपिशाचात् । लक्ष्मणयोगीड्श्रीपदसक्तान् लक्ष्मणपूर्वः पातुमिहास्ति ॥ २३॥ मत्तमयूरो बाणरणेऽभूत् खण्डितवीर्यो येन षडास्यः । तं हि भुजङ्गं कञ्चन चित्ते हन्त विधत्ते श्रीयतिराजः ॥ २४॥ (२०. मत्ता) मा मा चेतो धनमदमत्तान् याया मर्त्यान् श‍ृणु तव पथ्यम् । योगीन्दो हे यतिशतमन्यो ! नाथेत्येवं वद सुखभाक् स्याः ॥ २५॥ (२१. पङ्क्तिविशेषः यतिमहिता(८)) अयि भज मानस ! यतिराजं श्रितहितदायकपदरेणुम् । यदि भवभीकुलमपनेतुं मतिरपि ते मुदमथ भोक्तुम् ॥ २६॥ (२२. त्वरितगतिः) मतमखिलं श्रुतिरहितं यतिपतिना परिमथितम् । श्रुतिमधुरं परमरतं जगति ततं जयतितराम् ॥ २७॥ (२३. स्वागता) धन्विनव्यपुरजातरसायाः इष्टपूरकसहोदर ! धीर ! । संयमीन्द्र ! करुणारसलीला- सौधमानस ! सदा वस चित्ते ॥ २८॥ शेमुषीति भवता किल पद्ये सम्प्रयुक्तमयि ! शेष ! यतीन्द्र ! । योऽमुमीरयति शब्दमभिज्ञः तस्य भाति हृदये स हि शेषी ॥ २९॥ संयमीन्द्रपदपद्मभवान् ये संवहन्ति शिरसा शुभरेणून् । सन्नमन्ति सहसा सुरलोकाः सङ्घशोऽतिविनयेन युतास्तान् ॥ ३०॥ (२४. इन्द्रवज्रा) श्रीवारिजातोदितक्लृप्ततादृक्- श्रीवाजिमेधोदितविग्रहाय । श्रीवारणाद्रीश्वरभूषणाय श्रीवारिदो भाति यतीश्वरो नः ॥ ३१॥ (२५. उपजातिः) सरस्वतीयं सरसा भवन्तं सन्न्यासिनं नाम सदाऽऽश्रयन्ती । सन्न्यासिनी साधु बभूव तस्मात् सन्तं न योगं सहते स्वभर्तुः ॥ ३२॥ श्रीलक्ष्मणाचार्यपदावलम्बी कदाऽपि कृच्छ्रं न समेति धन्यः । श्रीलक्ष्मणे तत्पदसंश्रये च श्रीरामभद्रस्सुमनास्स तादृक् ॥ ३३॥ (२६. अनुकुला) संयमिनेतुश्चरणसरोजं सन्ततमन्तर्विलसतु मान्यम् । सङ्कटसङ्घः प्रतिचकितो यत् सम्प्रति भीतः परिगलितोऽस्मत् ॥ ३४॥ (२७. दोधकम्) संयमिनायकपादभवानां सात्विकसन्ततिमौलिधृतानाम् । संसृतिसम्भवतापहराणां सन्तु कणा मयि रेणुगणानाम् ॥ ३५॥ (२८. वंशस्स्थम्) स नाम लोके मनुजो महीयते स नाम दूरीकुरुतेऽघविभ्रमम् । स नाम सर्वानिह विन्दते शुभान् सदा मुदा यो यतिराजसेवकः ॥ ३६॥ (२९. भुजङ्गप्रयातम्) अहो यादवाद्यैर्वनान्तर्विसृष्टः किरातेन केनाऽपि जायायुतेन । निमेषेण नीतोऽसि काञ्चीसमीपं रसं पातुकामेन नित्यं धरण्याम् ॥ ३७॥ सुचित्रावतारं भवन्तं सुधीन्द्राः वदन्त्येव युक्तं ततस्संयमीन्द्र ! । सुचित्रावतारो भवान् सत्यमेतत् किमत्रास्ति चित्रं परामर्शभाजाम् ॥ ३८॥ (३०. स्रग्विणी) लक्ष्मणं सन्मुनिं भावये सन्ततं भक्तिमत्तल्लजं श्रीपतेः पादयोः । अम्बरं शोणितं दण्डकं पुण्ड्रकं बिभ्रतं विग्रहे मानसे सद्दयाम् ॥ ३९॥ (३१. द्रुतविलम्बितम्) यतिपते ! कपिलादिमतानि ते भणितिभिः परमुन्नतयुक्तिभिः । परिहृतानि विचिन्त्य विदः श्रुतेः परमनन्दथुपूरितमानसाः ॥ ४०॥ भवभजं भज हे भवभञ्जकं भवपितुः पितुरान्तररञ्जकम् । भवततिर्भवतीह परत्र सा भव मनो ! मम तेन निराकुलम् ॥ ४१॥ (३२. कुसुमविचित्रा) यतिपतिवाणी सरलगभीरा श्रुतिशतनन्द्या मुररिपुभोग्या । मनसि मदीये विलसतु नित्यं परमतजातैरपि बहुमान्या ॥ ४२॥ (३३. मणिमाला) नित्यं कुरु कण्ठे योगीश्वरनाम्नां वर्णावलिरूपां काञ्चिन्मणिमालाम् । भीतिर्न भवाख्यात् भीमादहिराजात् चित्ते तव कुर्यात् नृत्तं मममित्र ! ॥ ४३॥ (३४. ललिता) श्रीलक्ष्मणार्यमुनिनाथकीर्तनात् श्रीलक्षितात्मपृथुवक्षसो हरेः । श्रीपूरितानि ललितानि ते पुरः श्रीमन् ! भवन्ति मम मित्र ! निश्चितम् ॥ ४४॥ (३५. मञ्जुभाषिणी) प्रमदानुसारनिरतेन चेतसा मदनानुकूलललितेन मोहिते । भवभीतिदायिगहने कृतभ्रमे मयि लक्ष्मणार्य ! कुरु वीक्षणं मनाक् ॥ ४५॥ प्रमिताक्षराऽपि सकलार्थशेवधिः यतिराजसूक्तिरनघा विराजते । इति नाम हन्त विबुधा मुदा युताः सततं त्वदीयपदसेवने रताः ॥ ४६॥ यदि नाम भीतिमुपयासि संसृतेः यमयातनादिबहुघोरभाजनात् । यदुवंशनाथललितैकमग्नहृत्- यतिवृन्दनाथपदपङ्कजं भज ॥ ४७॥ वनिताविलासरमणीयवक्षसा वसुधातलेऽत्र बहुधा विहारिणा । वसुदेवदेववरदेवकीभुवा वदतीह योऽति यतिराट् तमाश्रये ॥ ४८॥ मदनेन पापसदनेन केवलं मधुवैरिपादभजनैकवैरिणा । मम मानसं हि परिमोहितं हितं महितं हिताय यतिराजमाश्रये ॥ ४९॥ कलिकालजातकलुषाभिभूतधीः कमलाधिनाथहृदया प्रियोऽनिशम् । (९) कमलासकुक्षिकरुणाजुषाऽमुना कलयामि नाम कमलापतिं करे ॥ ५०॥ यतिनायके त्रितनुदण्डमण्डिते गुणवारिधौ निखिलपुरुषार्थदे । रतमानसाय नतिवृन्ददायिनी जनता शुभं निखिलमत्र विन्दते ॥ ५१॥ दधिदुग्धकुन्दशरदिन्दुपाण्डरैः दश चैकमेकमिति पुण्ड्रजालकैः । परिमण्डितं भजत हंसमद्भुतं रमणीयपिङ्गशुभरेखिकायुतैः ॥ ५२॥ (३६. प्रहर्षिणी) उद्विग्नो भवविपिनादनेकदुःखात् उद्गन्तुं यदि कुरुषेऽथ मित्रराजम् । उन्नाम्नो रविवसतेः गुणान् विवेक्तुः उद्योगं कुरु सुहृदस्य कीर्तने त्वम् ॥ ५३॥ (३७. मत्तमयूरम्) काञ्चीपूर्णात् प्राप्य गिरः षट् करिशैल- श्रीनाथप्रोक्ताः शुभदाः श्रीयतिराजः । आश्रित्यासौ तं च महापूर्णगुरूद्धं हृष्टस्तस्थौ यस्तमुदारं कलयामि ॥ ५४॥ (३८. वसन्ततिलकं) शैलो हि तस्य वपुरेव हरेः कथं वा पद्भ्यां चरेयामति कुञ्चितजानुभागः । आरोहणं कलयति स्म गिरेर्महान् यः तस्याङ्घ्रिपद्मयुगलं शरणं प्रपद्ये ॥ ५५॥ मन्मौलिमण्डनमहो महिता महीयं अस्याश्च मण्डनमिदं तव पादपद्मम् । तन्न्यस्तुमत्र मयि किं चकितो यतीन्द्र ! स्वामिन् ! इतीव वदति स्म गिरिश्च शेषः ॥ ५६॥ एतत् द्वयं समवलोक्य सपद्यनन्तः तत्रैव वेङ्कटपतिः स्वयमाविरासीत् । यद्वन्दनोदितविलोचनमोदवारि- सम्प्लावितस्स भगवानपि शैलराजः ॥ ५७॥ श्रीरङ्गराजदयितासहसम्भवाय श्रीदेवराजहृदयङ्गमनीरदाय । श्रीश्रीनिवासधरणीधरविग्रहाय सम्पत्कुमारजनकाय नमो नमस्ते ॥ ५८॥ पुण्ड्रत्रिदण्डपरिमण्डितगात्रमेनं पुण्ड्रेक्षुदण्डपरिमण्डितगात्रमेकम् । पुंसोऽपि हन्त परमे पुरुषेऽनुरक्तान् पुण्यानतीव कलयन्तमवैमि कामम् ॥ ५९॥ (३९. अपराजिता) यतिपतिमतकाः परैरपराजिताः अपि यमपृतनां निजार्थमुपागताम् । तनुगततुलसीस्रगादिपराजितां विदधति मयि सन्तु ते प्रसन्नाः ॥ ६०॥ (४०. प्रहरणकलिता) यतिपतिपदयोः नतिमिह वहतः मतिरतिसुभगा गतिरतिपरमा । भगवति महती रतिरपि भविता भवति च भवतो न हि भयकणिका ॥ ६१॥ (४१. मालिनी) सरलमतिगभीरं पावनं धन्यलभ्यं मधुरतममुदारं मङ्गलं माननीयम् । विरतविततितथ्यं भाषितं यस्य सर्वं स जयति यतिराजः सार्वभौमो गुरूणाम् ॥ ६२॥ अनुपममतिहृद्यं पावनं धन्यलभ्यं कलिबलमललोपं कल्पकं काङ्क्षितानाम् । कमलनयनभोग्यं यद्वचो भाति सर्वं स जयति यतिराजः सार्वभौमो गुरूणाम् ॥ ६३॥ कमलमिव मनोज्ञं (१)षड्पदानन्द्यभावं (षड्पद - भृङ्गः । द्वयाख्यमन्त्रश्च ॥) विमलमिव नभो यत् (२)सत्कुलालोकपात्रं (सत्कुलं - नक्षत्राणां कुलम् । सतां कुलं च ।) अमलमिव मुनीनां मानसं सर्वतत्त्वं प्रथयति वचनं ते लक्ष्मणाचार्यवर्य ! ॥ ६४॥ (४२. चामरम्) शोणवस्त्रवेष्टितं विभाति यत्त्रिदण्डवत् पुण्ड्रजालमण्डितं च दारुपादुकायुतम् । विष्णुचित्तबालिकास्यजातसूक्तिचिन्तकं लक्ष्मणार्यनामकं तदस्तु भूतये मम ॥ ६५॥ संयमीन्द्रपादपद्मसङ्गतेन चेतसा मानवोऽत्र नेतरत्र सङ्गमेति यस्स मे । बन्धुरत्नमन्तरङ्गमित्ररत्नमिष्यते देशिकोऽपि सोऽयमेव तत् परं च दैवतम् ॥ ६६॥ (४३. पञ्चचामरम्) यतीन्द्रवक्त्रनिर्गतैश्शुभाक्षरैः प्रपूरितं श्रुतिस्मृतीतिहासतः समुद्धृतैस्तथा रसैः । पराशरात्मजातजातसूत्रमार्गसङ्गतं परावरज्ञभावितं विभाति भाष्यमद्भुतम् ॥ ६७॥ निधाय वेत्रमञ्जसा स्वमौलिवेष्टनान्तरा प्रबोधमुद्रिकां वहन् प्रमोदपूरितान्तरः । स्तोत्रसूत्रसत्करः परो जगाद यत्पुरा यतीन्द्रभाष्यमण्डितं तदत्र भाति शोभनम् ॥ ६८॥ सुनव्यकाव्यसेवनात् सुशास्त्रयुक्तिसेवनात् श्रुतिस्मृतीतिहासतः सदागमान्तसेवनात् । यदत्र विन्दते परं जनो मनोविनोदनं ततोऽपि गद्यसेवनात् यतीश्वरस्य विन्दति ॥ ६९॥ कृतागमार्थसङ्ग्रहः कृतान्तभूतभाषितः कृतान्तभीतिदायकः कृताननाभिनन्दितः । कृतायितस्वकालकः कृताकृताघसत्क्रियं कृतानुकम्प एष मां कृती यतीश्वरोऽवतु ॥ ७०॥ यतीश्वरः कृपामयः परं परो विराजते य एष नित्यनामकं भृशं दृशाल्पकाकृतिम् । गुरुं पुनः प्रभावतः प्रबन्धमद्भुतं परं विधाय पाति मानवान् पुराणपूरुषप्रियम् ॥ ७१॥ (४४. शिखरिणी) महानामोदोऽयं मम मनसि लीलां वितनुते यतीन्दोरास्येन्दोः अमृतमिव भूयो विगलितम् । पिबाम्येवं नित्यं वचनमतिरम्यं भगवतः मनःकान्तं मान्यं मधुरमधुरं साम्यविधुरम् ॥ ७२॥ यतीन्दोरास्येन्दोरमृतमिव पीत्वा विगलितं वचस्तादृक् श्रीमान् स्वयमुपगतो हर्षविवशः । प्रियां त्यक्त्वा डिल्यां यदुशिखरिशीर्षे विजयते ततस्तामायातामपि स रमणीमाह तदिदम् ॥ ७३॥ (४५. पृथ्वी) प्रणम्य यतिमण्डलप्रवरपादपङ्कोदितं प्रवेशमनवीनवाक्शिरसि यो विधत्ते पुमान् । प्रमोदमतुलं वरं स किल सत्यमत्राश्नुते प्रमोदभरपूरितो नयति कालमस्मिन् कालौ ॥ ७४॥ कलिः प्रथयतु स्वयं कमपि विभ्रमं सम्भ्रमात् कठोरमकपूरितं कलुषजालकन्दायितम् । तथाऽपि सुखमेधते यतिवरस्य सूक्तौ रतः चिरन्तनसरस्वतीरसभरेण या पूरिता ॥ ७५॥ यतीश्वरसरस्वतीमनुभवन्ति ये कोविदाः यतीश्वरसरस्वतीमथ पठन्ति ये सादरम् । यतीश्वरसरस्वतीमथ वहन्ति ये पुस्तके यतीश्वरधियैव तान् इह नमामि सर्वानपि ॥ ७६॥ (४६. मन्दाक्रान्ता) आसूर्याख्ये महति मधुरे मान्यवंशेऽवतीर्णः दिव्यक्षेत्रे सकलमहिते पावने दर्शनीये । नाम्ना यत्तत् सुरनरभुवा भाषया मिश्रितेन प्रोक्तं जातं जगति विदितं श्रीपरुम्भूधुरीति ॥ ७७॥ श्रीर्या श्लाघ्या भवति हि सतां तामिमां संवहन्ती धूर्या तां भूर्वहति यदियं श्रीपरुम्भूधुरीति । तादृक् नाम्ना भवति जगति प्राप्तकीर्तिः पुरीयं नामन्युक्तान्यह ! विमृशतां भाति वर्णानि तत्त्वम् ॥ ७८॥ (४७. हरिणी) कुवलयदलश्यामे रामे रतस्सततं मुनिः यतिपतिरसावीहामुक्तो हितैकरतो नते । मधुरमधुरा भाषावेषाः किरन् निजसंविदः कलयतु सदा नृत्तं चित्तं मदीयमुपाश्रितः ॥ ७९॥ (४८. नर्कुटकम्) करधृतदण्डमस्तु मम मानसवाच्छितदं कटितटरक्तवस्त्रकमनीयवपुःप्रवरम् । शुभमयशुभ्रपुण्ड्रसुभगाकृति मङ्गलदं यतिपतिनामकं किमपि दैवतमप्रतिमम् ॥ ८०॥ यतिपतिमञ्जुवक्त्रगलिताक्षरपङ्क्तिधरं मतिमतिहर्षजालपरिवर्षणकर्मकृति (तम् ।) । सति पथि नीयमाननिगमार्थमहाविभवं रतिमिह मे ददातु परपुंसि सुभाष्यमिदम् ॥ ८१॥ (४९. कुसुमितलतावेल्लिता) स्वामी काषायं वपुषि कलयन् हस्तपद्मे त्रिदण्डं श्रीमच्छ्रीचूर्णं परिगततनुं श्वेतपुण्ड्रैस्सुरम्यम् । मौलौ सन्दृश्यां कचचयकृतां सच्छिखां भव्यमूर्तिं श्रीमानन्तर्मे विलसतु सदा संयमीन्द्रो महात्मा ॥ ८२॥ (५०. विबुधप्रिया) वारणाद्रिशिरःस्थितं वरदं सुपर्वमहीरुहं वर्धयन् स्वकराम्बुना परमुन्नतं सकलेडितम् । सर्वदाऽतुलसद्दयं चतुराननाध्वरसम्भवं संयमिप्रवरो गुरुः गुणवान् सदा स विराजते ॥ ८३॥ (५१. शार्दूलविक्रीडितम्) वन्दे लक्ष्मणयोगिपादयुगलं शोणाब्जतुल्यप्रभं वीथीधूलिसमूहक्लृप्तकवचं भिक्षाटनप्रस्थितम् । यद्विन्यासपवित्रितं क्षितिरजश्चक्राङ्करेखोज्ज्वलं स्वाङ्गुल्यग्रसमादृतं शुभकरं मौलौ विधत्ते जनः ॥ ८४॥ श्रीमद्यामुनतीर्थसक्तहृदयौ पाण्याप्तवंशोत्तमौ विख्यातौ भुवि यादवाश्रितपदौ रामानुजौ यौ तयोः । एकः श्रीविबुधेन्द्रजातमहितं मूलं किलादौ जगौ अन्यस्तस्य ततश्च भाष्यमनयोः पादाम्बुजान्याश्रये ॥ ८५॥ (श्रीकृष्णयतिपत्योः श्लेषः) श्रीमल्लक्ष्मणयोगिराजवचसां माहात्म्यमत्यद्भुतं कोऽहं वक्तुमिदं वदन्ति सुधियः श्रीवत्सगुर्वादयः । काणादप्रमुखेषु मास्तु धिषणा शास्त्रेषु काव्येषु वा सर्वत्राऽपि जयं यतीश्वरगिरां सेवा प्रदद्यादिति ॥ ८६॥ शय्या पद्मविलोचनस्य महतः पुंसो भुजङ्गाधिपः सञ्जातो धरणौ किलायमभवत् पूर्वं महाभाष्यकृत् । सञ्जातोऽथ च पिङ्गलाह्वयमुनिः छन्दश्चयं निर्ममे सञ्जातोऽथ च लक्ष्मणार्यमुनिराट् श्रीभाष्यकारोऽभवत् ॥ ८७॥ जातो भाष्यकृदेष भाष्यकृदभूत् श्रीपिङ्गलः पिङ्गले वर्षेऽभूत् मधुरोदितोऽथ च मधौ मासे भवात्तारकः । सञ्जातो भवतारके सकलमप्येतत् परं साम्प्रतं तस्मात् साम्प्रतमेनमस्मि शरणं यातो यतीनां पतिम् ॥ ८८॥ शास्त्रे शब्दमये ततान विहृतिं जन्मन्यसावादिमे मध्यस्थेऽथ च जन्मनीह विहृतिं छन्दःकुलेऽथोदिते । जन्मन्यत्र विधाय भाष्यमुभयं गद्यत्रयं सारवत् वेदार्थस्य च सङ्ग्रहं यतिपतिः नित्यं स्थितो दीपवत् ॥ ८९॥ सञ्चारेण पवित्रितक्षितितलं सद्भिस्सदा सेवितं काञ्चीपूर्णकृतीन्द्रवाग्विलसितैः विद्योतमानान्तरम् । वेदार्थौघसमृद्धशोभननवग्रन्थोदयैकस्थलं श्रीरामानुजमग्र्यवर्णमधुरं सेवस्व हे चित्त ! मे ॥ ९०॥ (श्रीरामनुजश्रीरामनुजपत्रिकयोः श्लेषः) (५२. स्रग्धरा) नामाभूत्ते त्रिवर्णं त्रिजगदभिहितं लक्ष्मण ! श्रीयतीन्दो ! सौत्रं भाष्यं त्रिधेदं त्रिविधमपि कृतं गद्यमत्र त्वयेदम् । वाणी सेयं त्रिधाम्नः विवृततनुरभूत् या त्रिषट्काभिरामा त्रित्रिग्रन्थप्रणेतः ! त्रिमुनिवर नमस्ते गृहीतत्रिदण्ड ! ॥ ९१॥ ``गाथाताथागतानां'' इति निगमशिरोदेशिकः प्राह यं ते स्तोत्रे श्लोकं महान्तं तमिह वयमहो कीर्तयन्तो महान्तम् । विन्देमानन्दमन्तर्विधुतसमशुचो विस्तृतापार्थसार्थान् नान्यान् स्वप्नेऽपि यामो विमतसृतिमतो जीवसञ्जीवकामाः ॥ ९२॥ (५३. पादाकुलकम्) मा मां रामां चेतो यायाः श्रीमद्रामावरजं यायाः । रामास्सर्वा अनुजा एताः कामान्नेमा वामाः कुर्याः ॥ ९३॥ (५४. गीतिः) यतिपतिपादपयोजे यदि मतिरीषन्निवेशिता भवति । यम इति तस्य व पूरिति यवलवमात्रं न विद्यते चिन्ता ॥ ९४॥ पिङ्गलवत्सरजातः पिङ्गलमुनिरेव लक्ष्मणार्योऽयम् । मङ्गलसन्ततिदायक तुङ्गगुणाश्लिष्टवृत्तकुलभूमिः ॥ ९५॥ लक्ष्मण ! यतिवर ! स भवान् अतिमहितो नस्सुबन्धुरत एव । वासवभवाय दत्ता विवृता भवतात्र हृद्यगद्यकृता ॥ ९६॥ (उपजातिः) श्रीभाष्यसिंहासनमात्मनीनं अस्मत्कुलश्रीतिलकाय दत्वा । स्वभागिनेयाय तुतोष भूयः यस्तं प्रपद्ये शरणं यतीन्द्रम् ॥ ९७॥ (गीतिः) यतिपतिषण्णवतिरियं द्विजपतिसुस्कन्धलालनीयाङ्गा । ह्रस्वा च वर्धमाना सेव्या परमेव देवता जयति ॥ ९८॥ यतिपतिषण्णवतिरियं सुगुणा शुद्धा सुवृत्तजातयुता । ब्राह्मीं श्रियं वहन्ती कण्ठाभरणं सतां सदा भवतु ॥ ९९॥ (त्वरितगतिः) यतिपतिषण्णवतिरियं कविमणिमानिधिरचिता । निजपठने रतधिषणं समकुशलं विरचयति ॥ १००॥ यतिपतिषण्णवतिः ॥ इति श्रीमदाशुकविसार्वभौमस्य श्रीनिधेः कृतिषु यतिपतिषण्णवतिं सम्पूर्णम् । Footnotes टिप्पणी (१) आगामिनि पिङ्गले वत्सरे भगवतः श्रीरामानुजस्य षोडशी षष्टिपूर्तिः (९६० संवत्सराणां पूर्तिः) भविता । सा च उत्सवैः पूर्णा कर्तव्या । तदङ्गतया श्रीरामानुजविषयकाः प्रबन्धाः उपन्यासाश्च विद्वद्भिः कर्तव्याः । इति प्रार्थये ।'' -- इति श्रीकाञ्ची विद्वद्वरेण्य पद्मभूषण महामहिमोपाध्याय, प्रतिवादि- भयङ्करमण्णङ्गराचार्य स्वामिनः स्वकीय ``रामानुजन्'' नाम द्रमिडपत्रिकायां सन्देशमदिशन् । श्रीकवीश्वराः तेन सन्देशेन प्रचोदिताः ९६० संवत्सरपूर्तिजन्मर्क्षोत्सवत्वात् अस्य, ९६ श्लोकैः पूर्णां इमां यतिपतिषण्णवतिं अरचयन् ॥ (२) नलाग्रजशरश्चापजः - राक्षसवत्सरे धनुर्मासे जातः इत्यर्थः । चापपत्तने-धनुष्पुरे । श्रीकविसार्वभौमानां गुरवः श्रीवात्स्यवेङ्कट- शेषार्यमहादेशिकाः राक्षसवर्षे चापमासि अवतारं कृतवन्तः । तत एवं वर्णना ॥ (३) नलानुजशरत्-पिङ्गलवत्सरः । मधुजातः-चैत्रमासे कृतावतारः ``मधुश्च माधवश्च वासन्तिकावृत्'' इति भगवती श्रुतिः ॥ (४) नवमिदं वृत्तम् । यतिनुतिरिति नामधेयमस्य अस्माभिः दत्तम् ॥ (५) भवस्य तारेः - आर्द्रानक्षत्रे- ``आर्द्रा नक्षत्रं रुद्रो देवता'' इति श्रुतिः ॥ (६) नरप्रिया -- नवमिदं वृत्तं कविप्रयुक्तम् । इदस्माभिः दत्तं नामधेयमस्य ॥ (७) यादवी - नवमिदं वृत्तम् । एतदस्माभिः दत्तं नामधेयम् ॥ (८) यतिमहिता - नवमिदं वृत्तम् । एतदस्माभिः दत्तं नामधेयम् ॥ (९) कमला नाम यतिपतेः भगिनी । यस्याः वंशे जाता एते कवीश्वराः ॥ कविताजितकल्लोलिकन्यकाकान्तवक्षसे । करुणादिगुणाढ्याय कमलानिधये नमः ॥ ॥ श्रीनिधये नमः ॥ The footnotes are given as number enclosed in parenthesis. Proofread by Aruna Narayanan
% Text title            : Yatipati Shannavatih
% File name             : yatipatiShaNNavatiH.itx
% itxtitle              : yatipatiShaNNavatiH (shrInidheH kRitiShu)
% engtitle              : yatipatiShaNNavatiH
% Category              : deities_misc, stotra, gurudev, shataka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : Ramanujastotraratnavali, Ramanuja Sampradaya. (Prayer to Shri Ramanujacharya)
% Indexextra            : (Scans 1, 2)
% Latest update         : December 25, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org