श्रीभगवदाचार्यविरचितं यतिराजमङ्गलं
पुण्यसद्यात्मजाय श्रीधन्यकन्याङ्कभूश्रिये ।
राघवानन्दपुण्यश्रीभूषारत्नाय मङ्गलम् ॥ १॥
रामसीताञ्जनासूनुब्रह्मादिपरिरक्षिताम् ।
श्रीसम्प्रदायसम्भूतिं वर्द्धयित्रेऽस्तु मङ्गलम् ॥ २॥
राममन्त्रमहाराजराज्यजीवातुरक्षिणे ।
सर्वतन्त्रस्वतन्त्राय रामानन्दाय मङ्गलम् ॥ ३॥
सर्ववेदार्थसत्तत्त्वसत्त्वसद्रत्नराशये ।
जगदानन्दनानन्दभाष्यकराय मङ्गलम् ॥ ४॥
त्रिलोकीनाथताद्योति स्वात्मज्योतिः प्रकाशकम् ।
त्रिदण्डं दधते यमिभूसार्वभौमाय मङ्गलम् ॥ ५॥
कषायाभावसंसूचिकाषायाम्बरधारिणे ।
श्रीमते यतिराजाय रामानन्दाय मङ्गलम् ॥ ६॥
उपदेशसुधावर्षिवचनारचनाश्रिया ।
मङ्गलं दिशते नित्यं जीवजाताय मङ्गलम् ॥ ७॥
जगत्सन्त्राससन्त्रस्तजीवोद्धाराध्वकारिणे ।
दिव्यसम्पत्तिसंशोभिमानसायास्तु मङ्गलम् ॥ ८॥
सर्वजीवमहामोहिमायाकायाभिभूतये ।
सर्वशक्तिप्रदाय श्रीरामानन्दाय मङ्गलम् ॥ ९॥
विद्यामहीमहीपायाविद्यासन्तमसच्छिदे ।
धर्मरूपाय भूपाय धर्मभूमेश्च मङ्गलम् ॥ १०॥
इति त्रिवेदोपाह्नब्रह्मचारिश्रीभगवदाचार्यविरचितं यतिराजमङ्गलं समाप्तम् ।
Encoded and proofread by Mrityunjay Pandey