यतिराजस्तोत्रम् २
धनं यस्य सद्ब्रह्म विद्यानिदानं
बुधानन्दरूपं स्वरूपं दधानम् ।
परप्रापकाङ्घ्रिद्वयीसन्निधानं
विधानं विभूतिद्वयेशाभिधानम् ।
भजे भाष्यकारं भजे लक्ष्मणार्यं
भजे सालसद्ग्रामरामानुजार्यम् ॥ १॥
नमोनित्यदिव्यप्रबन्धादिकृद्भ्यो
नमः पञ्चरात्रादिविद्भ्यो मुनिभ्यः ।
नमोमद्गुरुभ्यो नमस्तद्गुरुभ्यो
नमः पञ्चसंस्कारविद्यागुरुभ्यः ॥ भजे भाष्य०॥ २॥
नमो वेङ्कटाधीशसत्पादरेणु-
स्तवैः पद्यविद्यासहस्रप्रयोक्त्रे ।
मुमुक्षूञ्जनान्नित्यकल्पान्विधात्रे
महाहोबलाचार्यवर्याय पित्रे ॥ भजे भाष्य०॥ ३॥
अहिर्बुध्न्यइत्यादि यस्मिन्प्रमाणं
कलौ कश्चिदित्यादिशुद्धं पुराणम् ।
मृषा घोषवादादि येनाधरीणं
धुरीणं गुरूणां पुमांसं पुराणम् ॥ भजे भाष्य०॥ ४॥
यतीशाश्रितानां कनिष्ठो भवेयं
सदा पञ्चमोपायनिष्ठो भवेयम् ।
गुरोरङ्घ्रिरूपो भवेयं भवेयं
हरेरन्तरङ्गो भवेयं भवेयम् ॥ भजे भाष्य०॥ ५॥
अनन्तोहि भूत्वा महाभाष्यकारः
प्रबुद्धं चकार त्रयीशब्दजालम् ।
पुनस्सोऽयमागत्य मद्भाष्यकारः
प्रबुद्धं चकार श्रुतेरर्थमूलम् ॥ भजे भाष्य०॥ ६॥
मृषावादिदुर्वादपङ्के निमग्नं
गुणाभावहेयस्वरूपादिभग्नम् ।
परं ब्रह्म यस्य प्रभावेण लग्नं
बभौ दृष्टकल्याणलक्ष्मीवलग्नम् ॥ भजे भाष्य०॥ ७॥
सदैकान्तिभिर्दादशोद्यत्सहस्रै-
श्चतुस्सप्ततिस्वीयसिंहासनस्थैः ।
तथाविष्णुभक्तैरनन्तैरुपेतं
महारङ्गराजाङ्गरक्षाविनीतम् ॥ भजे भाष्य०॥ ८॥
न यागो न योगो न वा तन्त्रमन्त्रौ
न हि ज्ञानदाने न भक्तिप्रपत्ती ।
तथाप्यात्मलब्धौ न सन्देहगन्धो
बलम्मे महद्भाष्यकारानुबन्धः ॥ भजे भाष्य०॥ ९॥
कृतं वा तपो न्यद्बलंवागुरूणां
श्रियःश्रीपतेः किन्नु साक्षादपेक्षा ।
घृणाभाष्यकारस्य निष्कारणा वा
ममैषा मुखेघोषते कापि भाषा ॥ भजे भाष्य०॥ १०॥
परव्यूहलीलान्तरार्चाविशेषै-
रशेषैर्हरिर्व्यासमन्वादिवेषैः ।
समुद्धर्तुमेतन्भवाब्धेरशक्त-
स्ततोभूद्यतिः शेषभावानुषक्तः ॥ भजे भाष्य०॥ ११॥
भवाब्धौ निमग्नान्त्समुद्धर्तुकामः
परोलक्ष्मणार्याद्गुरुर्नेति नेति ।
सनिस्साणभेरीमहाकाहलीभि-
र्भटैर्घुष्यतां घुष्यतां दिक्तटेषु ॥ भजे भाष्य०॥ १२ ॥
सती ब्रह्मविद्या सुतः शैलदीपो
गुरुः पारिजातः श्रितं भाग्यरत्नम् ।
ततः कालमेघे स्वयं भोगिराजे
प्रसन्ने तदस्मिन्नलभ्यं कुतो नः ॥ भजे भाष्य०॥ १३॥
तृणीकृत्यवैरिञ्जिरुद्रप्रतिष्ठां
यदीयाङ्घ्रिपाथोजकैङ्कर्यनिष्ठाम् ।
इहामुत्र च प्राभवाः प्रक्रमन्ते-
तदन्यं गुरुं मूढभावा भजन्ते ॥ भजे भाष्य०॥ १४॥
यतीन्द्र्ं विनिन्दत्यसद्ग्रन्थकन्था-
धराविश्वमिथ्यानुसन्धानगन्धाः ।
जगच्चक्षुषं प्रत्नमेकं शतान्धा-
नपश्यन्त्यहो कर्मबन्धादिवान्धाः ॥ भजे भाष्य०॥ १५॥
न तर्केऽप्युदर्को न शब्दे च शक्तो
न कस्यावतारो न तन्त्रस्वतन्त्रः ।
कथं कल्पयेत्सर्वभाषासु गाथाः
किमाचार्यमाहात्म्यभीतस्सवेधाः ॥ भजे भाष्य०॥ १६॥
अहं तूर्ध्वबाहुर्भणामि शृणुध्वं
शठारातिनाथादिवाचः स्मरध्वम् ।
यतीन्द्राङ्घ्रिकैङ्कर्यमात्रे यतध्वं
मनुध्वं मुरध्वंसिलोके रमध्वम् ॥ भजे भाष्य०॥ १७ ॥
सुधापुण्ड्रूरेखा विराजल्ललाटं
सुधांशुप्रतीकाशकाशत्किरीटम् ।
समुद्धाट्य वैकुण्ठकक्ष्याकवाटं
सुपर्णादिसंसेव्यमानन्दकूटम् ॥ भजे भाष्य०॥ १८॥
उषस्सान्ध्यरागारुणन्मेघरेखा-
कचाकर्षिकाषायखण्डोत्तरीयम् ।
बृहन्नारदीयोक्तरूपं तुरीयं
परं वस्तु पश्यामि लक्ष्मीधरीयम् ॥ भजे भाष्य०॥ १९॥
अलं देशिकैरन्यचित्तैः प्रमत्तै-
रलंस्थाणुकल्पैरलक्ष्मीशतल्पैः ।
अपद्माक्षहारैरचक्राङ्कधारै-
रसद्भाष्यकारैरशेषावतारैः ॥ भजे भाष्य०॥ २०॥
प्रफुल्लाब्जनेत्रं प्रभाशोभिगात्रं
प्रकृत्या पवित्रं प्रभावैर्विचित्रम् ।
हरेरातपत्रं सतां जैतपत्रं
सुपर्णस्यमित्रं सुमित्रासुपुत्रम् ॥ भजे भाष्य०॥ २१॥
अहो शाङ्कराः किङ्करत्वं प्रयाताः
वरे भास्करास्तस्कराकारभाजः ।
ततो यादवाः पादवारिप्रपूता-
स्तथैवागतास्सौगता भाट्टसाङ्ख्याः ॥ भजे भाष्य०॥ २२॥
शठः कापिलः कोऽपि लक्ष्यो न मोक्षे
विनष्टस्वरोऽभूत्स माहेश्वरोऽपि ।
कणादः प्रमाणप्रणादोऽपि शान्तः
प्रमाणं ब्रुवाणश्च गाणापतेयः ॥ भजे भाष्य०॥ २३॥
स्वयम्ब्रह्मसूत्रायभावेऽपि बुद्ध्या
कथं ब्रह्मसूत्रादिभाष्यं विदध्यात् ।
कथं तस्य शिष्या बभूवुर्मनुष्याः
कुतो नास्ति रोषः कलेरेष दोषः ॥ भजे भाष्य०॥ २४॥
पुरादर्शितं चोलभृत्कीटकण्ठं
समारुह्य सह्याचलेन्द्रोपकण्ठम् ।
अकुण्ठप्रभावोऽत्र वैकुण्ठकल्पः
सकण्ठीरवं प्राप्य सोल्लुण्ठमास्ते ॥ भजे भाष्य०॥ २५॥
नमः पुण्यकौण्डिन्यगोत्रोद्भवेभ्यो
नमस्सालसद्ग्रामसद्वंशजेभ्यः ।
नमो वैष्णवेभ्यो महद्भ्योऽर्भकेभ्यो
नमः शेषभावादचिद्भ्यश्च चिद्भ्यः ।
भजे भाष्यकारं भजे लक्ष्मणार्यं
भजे सालसद्ग्रामरामानुजार्यम् ॥ २६॥
इति श्रीसालग्रामस्थलाचार्यपुरुषनरपतिराजसंस्थानगुरूद्दण्डवेदान्त-
रङ्गार्यविरचितं यतिराजस्तोत्रद्वयं सम्पूर्णम् ॥ २॥
Encoded and proofread by Mohan Chettoor