आर्याशतकम्
शार्ङ्गोद्याननिवासिन्यम्ब स्तवः ।
आर्यां परमैश्वर्यां धार्यां हृदये महद्भिरृषिवर्यैः ।
मर्यादातीतगुणौदार्यां शम्भोः समाश्रये भार्याम् ॥ १॥
गाङ्गेयसमाभाङ्गीं गङ्गारङ्गोत्तमाङ्गतन्वङ्गीम् ।
शार्ङ्गोद्यानसुभङ्गीमङ्गीकुर्मोऽन्तरेण मातङ्गीम् ॥ २॥
करुणार्द्रनयनकोणां तरुणाम्भोजन्मरम्यचरणयुगाम् ।
हरिणाङ्कचूडरमणीमरुणाभां देवतां परामीडे ॥ ३॥
निहतामरारिवर्गां निर्धूतनमज्जनारिपङ्वर्गाम् ।
कलयेऽहं वनदुर्गां कारुण्यसुधार्द्रलोचनविसर्गाम् ॥ ४॥
कारुण्यपरमकोटीं कोटीराबद्धहिमकरवधूटीम् ।
पाटीरसुरभिशार्टी गाढीकुर्मोऽन्तरुल्लसन्मकुटीम् ॥ ५॥
मन्दस्मितार्द्रवदनां मन्दारलतां पदारविन्दजुषाम् ।
इन्दीवरदलनयनामिन्दुकलापीडसुन्दरी वन्दे ॥ ६॥
दळितेन्दीवरनयनां गळितकलङ्कोडुराजसखवदनाम् ।
अळिकळभविलसदळकामळिकाक्षप्रेयसीं भजे काळीम् ॥ ७॥
अम्बां जगदवलम्बां बिम्बाधरकान्तिविजितबन्धूकाम् ।
लम्बाळकनिकुरुम्बां लम्बोदरमातरं समालम्बे ॥ ८॥
सम्भाविताङ्घ्रिकमलां जम्भारिप्रमुखसर्वगीर्वाणैः ।
अम्भोरुहदलनयनां शम्भोः सम्भोगसम्पदं वन्दे ॥ ९॥
करिकळभकुम्भविलसत्कुचकुम्भां सम्भ्रमत्कुसुम्भाभाम् ।
अम्भोजासनविनतामम्भोजाताक्षसोदरीं वन्दे ॥ १०॥
आशासितफलदात्रीमाशापालाभिवन्दिताङ्घ्रियुगां
नाशायाशेषविपद्राशीनामीशवल्लभां कलये ॥ ११॥
पङ्कजसम्भवविनतामङ्कविहीनेन्दुबिम्बसमवदनाम् ।
कुङ्कुमसमानवर्णां शङ्करवरवर्णिनीं समालम्बे ॥ १२॥
कुलिशायुधमुखविनुता कलशाम्भोराशिशायिसहजाता ।
कुलशैलवरतनूजा फलशालीदं तनोतु मे जन्म ॥ १३॥
पार्वणसुधांशुमण्डलगर्वसमूलापहरणनिपुणमुखीम् ।
पर्वतपरिवृढकन्यां सर्वजगन्नायिकामहं वन्दे ॥ १४॥
संसारसागरतरीं पुंसां हंसातिशायिमृदुगमनाम् ।
शंसन्मणिमञ्जीरां संसेवे सर्वमङ्गलां नित्याम् ॥ १५॥
एणाङ्ककलित चूळीं वाणीमाधुर्यनिर्जितमधूळीम् ।
एणीसमाक्षिकेळीं प्रीणीमः प्रेक्ष्य गिरिशपुण्याळीम् ॥ १६॥
कल्याणशैलनिलयां चिल्ल्याहितविश्वसृष्टिगुप्तिलयाम् ।
कल्याणीं हरजायां तुल्यातीतां समाश्रये विजयाम् ॥ १७॥
नळिनान्तर्दळनयना पुलिनाहङ्कारहारिपृथुजघना ।
मलिनेतरमृदुवसना फलिनं कुर्यान्ममेप्सितमपर्णा ॥ १८॥
धन्यां गिरिवरकन्यां मुरहरमान्यां भजाम्यसामान्याम् ।
निहतासुरवरसैन्यामितराश्रयशून्यसज्जनशरण्याम् ॥ १९॥
काळीं कल्लोललसञ्चिल्लीयुगलीं मनोज्ञतनुवल्लीम् ।
कचकलित चारुमल्लीं कलय शम्भोः शिरोलिपिमतल्लीम् ॥ २०॥
कलये कुलगिरिपरिवृढकलिततपोदानराशिपरिपाकम् ।
मौलिलसदिन्दुपाकं दलितवलारातिर्वैरिवरलोकम् ॥ २१॥
बालार्करुचिररत्नं हेलानिःशेषिताखिलसपत्नम् ।
कलय चिन्तारलं कुलगिरिराजन्यजन्यसद्रत्नम् ॥ २२॥
बलिमथनघातृपूज्यं मलिनेतरचित्तवृत्तिहृद्योज्यम् ।
कलये सुतरां प्राज्यं कालप्रध्वंसिसुकृतसाम्राज्यम् ॥ २३॥
नवरविकिरणारुण्यं नतजनविश्रान्तपरमकारुण्यम् ।
तुलितेतरलावण्यं कलये कैलासवासिनैपुण्यम् ॥ २४॥
कलये निजपदभाजां सुलभां कळभापहासिकळगमनाम् ।
अळिमास्वत्कबरीकां हरभार्यां मकुटशाभिशिशुभार्याम् ॥ २५॥ (शशिभार्याम्)
याने कळहंसमयीं भाने वालार्ककोटिकिरणमयीम् ।
सञ्चिन्तये भवानीं सन्तानलतामभीष्टफलदाने ॥ २६॥
निखिलजगज्जनयित्रीं कुवलयसङ्कोचदानपटुनेत्रीम् ।
कलये करुणापात्रीं कुलपर्वतराजजन्मफलदात्रीम् ॥ २७॥
करुणासारनिधानं कनकसमाभिख्यमुख्यपरिधानम् ।
कलयेतरां प्रधानं कण्ठेकालस्य भव्यमपदानम् ॥ २८॥
नेत्रे कारुण्यवतीमारुण्यवर्ती मनोज्ञतरगात्रे ।
स्तोत्रे निजभक्तानामामोदवती भजामि हैमवतीम् ॥ २९॥
नवमणिकुण्डलकर्णां नळिनासनवासवादिकृतवर्णाम् ।
कमनीयहेमवर्णां करुणापूर्णां समाश्रयेऽपर्णाम् ॥ ३०॥
आद्यामपि चानाद्यामनवद्यां श्रुतिशिरःशतैर्वेद्याम् ।
स्वर्गापवर्गपद्यां हृद्याकारां स्मरामि सद्विद्याम् ॥ ३१॥
सम्भरितमूरिकरुणं जम्भरिपुप्रमुखसेव्यमृदुचरणम् ।
सम्भावये पुराणं शम्भोस्सम्भोगयोग्यमाभरणम् ॥ ३२॥
चित्ररुचिनेत्रपाळीकेळीलाळित्यलाळितकपालिम् ।
करुणाशालि विशालं कलये प्रालेयशैलपुण्यफलम् ॥ ३३॥
विमथितविबुधातङ्कां हिमकरमार्ताण्डकलितताटङ्काम ।
मक्कुटालसन्मृगाङ्कां कलये विद्ध्वस्तभक्तहृत्पङ्काम् ॥ ३४॥
भुजधृतमणिमयवलयामलयां निर्धूतनम्रलोकभयाम् ।
निरवधिदयाममेयां हरजायामाश्रय महामायाम् ॥ ३५॥
खद्योतितादिमोद्यत्प्रद्योतनकोटिविग्रहमयूखाम् ।
मौलिधृतचन्द्रलेखां कलयेऽहं खण्डपरशुवृषरेखाम् ॥ ३६॥
सद्रक्षणास्तनिद्राविद्रावितरौद्रदैत्यवरवीरा ।
भद्राणि मे प्रदेयाद्रुद्राणी शमयताच्च हृद्रोगान् ॥ ३७॥
दुर्जनसज्जनशिक्षारक्षादक्षा चराचराध्यक्षा ।
दाक्षायणीह रक्षेत् पक्षान्तर्क्षेशदानदक्षास्या ॥ ३८॥
हरिविधिविहितादरणां हरिहयगोपारुणांशुकावरणाम् ।
हरिदीशवन्द्यचरणां हरिणाक्षीं नौम्युमां वराभरणाम् ॥ ३९॥
कुण्डलमण्डितगण्डा खण्डितचण्डतरचण्डमुण्डबला ।
शुण्डोपमोरुकाण्डा खण्डतान्मे भयानि चामुण्डा ॥ ४०॥
आर्तार्तिहरणदीक्षा घात्राद्यैः कीर्तनीयगुणवार्ता
कात्यायनीह रक्षेन्नेत्रान्तालोकलेशमात्रेण ॥ ४१॥
हारीभृताहीश्वरनारीं सैन्दर्यवारिनिधिलहरीम ।
ऊरीकरोमि गौरीं नारीलोकाभिमानमूलहरीम् ॥ ४२॥
खर्वेतराणि भूयस्सर्वविनिन्द्यान्यशर्ममूलानि ।
सर्वाणि शमयतान्मे शर्वाणी झटिति दुरितकर्माणि ॥ ४३॥
पिष्टातिदुष्टलोका शिष्टैस्तोष्टूय्यमानगुणकाष्ठा ।
इष्टा प्रियाष्टमूर्तेः कष्टावस्थां पिनष्टु मे हृष्टा ॥ ४४॥
निष्कासितारिसार्थं निर्मूलितसकलसज्ञ्जनानर्थम् ।
सर्वागमपरमार्थं संसेवे शर्वभोगपरमार्थम् ॥ ४५॥
पदनखरुचि विभ्राजितसकलदिगन्तं सुमङ्गलोदन्तम् ।
कलयेऽहमनाद्यन्तं श्रुतिसिद्धान्तं त्रिशूलिशुद्धान्तम् ॥ ४६॥
निर्धूतनिखिलबाधं निर्जरवैरिप्रसारितक्रोधम् ।
कलये निरवधिबोधं कालारातेः प्रधानमवरोधम् ॥ ४७॥
करुणासुधारसार्द्रा कमनीयरुचा निराकृतहरिद्रा ।
पदकमलनमितरुद्रा रुद्राणी मे हिनस्तु दारिद्र्यम् ॥ ४८॥
परिकलित हेमकाञ्ची करतलघृतचापबाणसृणिपाशा ।
परिणतशरदिन्दुमुखी करिकुम्भक्कुचा विभातु गिरिशसखी ॥ ४९॥
रात्रीसगोत्रगात्री रात्रीश हुताशसवितृनेत्री माम् ।
धात्रीधरेन्द्रपुत्री पात्रीकुर्यात् कटाक्षमात्रस्य ॥। ५०॥
मुष्णातु समुदितोदयदुष्णांशुसहस्रकोटिरोचिष्णुः ।
कृष्णानुजान्तरुष्णं विष्णुविरिश्चादिपूजिताभीक्ष्णम् ॥ ५१॥
मुनिहृदयविहितलास्यं मुखरुचिरचितेन्दुमण्डलालस्यम् ।
कलितानतजनदास्यं कलये कैलासनिलयसारस्यम् ॥ ५२॥
कनकमयकुण्डलाङ्गदकाञ्चीदामाभिरामतमसुषमा ।
दिशतु मम लोकमाता सीमातीतामचञ्चलां लक्ष्मीम् ॥ ५३॥
दुग्धहविर्मधुमद्यैश्चातुर्वण्येन तर्पिताध्यर्धम् ।
सकलं परापरमयी सफलं कुर्यान्ममेप्सितं त्रिपुरा ॥ ५४॥
वलमथनकुवलयाक्षीं चिकुरभरभ्रमरमुखरचरणयुगाम् ।
कुलशैलराजचेतःकुमुदशरच्चन्द्रचन्द्रिकां कलये ॥ ५५॥
अन्धकपरिपन्थिमनःक्षीरधिमन्थानशैलपृथुलकुचाम् ।
सिन्धुरपरिवृढबन्धुरमन्थरगमनां स्मरामि जगदम्बाम् ॥ ५६॥
परमेशचित्तमदगजनिगलायिततरलचिल्लियुगलं मे ।
विदलयतु निखिलदैन्यं मदनमहावीरगर्वसर्वस्वम् ॥ ५७॥
कलयतु विशदतराभा जपपटवरपुस्तकाभयाढ्यभुजा ।
रसनाग्रं मम रङ्गं माध्वीमाधुर्यधुर्यभणितीनाम् ॥ ५८॥
कारणभूता जगतः पालनसंहारकरणधौरेया ।
व्रातं ममाशु विपदां माता लोकस्य सञ्जरीहर्तु ॥ ५९॥
वरिवसितटतपिनाकां निरुपमकारुण्यसम्पदतिरेकाम् ।
कुलशिखरिवरपताकां कलये नमदमितविसरदवलोकाम् ॥ ६०॥
प्रालेयजालशीतलशैलकुलोत्तंसचारुकलिके ! माम् ।
कालं निरस्य कारुण्यालोकनलेशभाजनं कुर्याः ॥ ६१॥
कैलासशैलनिलयनकारुण्यकटाक्षमूलिके ! तुभ्यम् ।
कलयामि नमोवाकं करुणां कुरु कालयापनमपास्य ॥ ६२॥
दरदलितनीलकुवलयदलकुलविलसद्विलोचनद्वन्द्वाम् ।
कलये विषमविलोचननयनचकोरेन्दुकौमुदीं हृदये ॥ ६३॥
परमशिवचिचधैर्यक्षितिधरसन्दलनशातशतकोटिः ।
वैरिगिरिपटलिकां मे वलरिपुसम्भाविता विदारयतात् ॥ ६४॥
प्रसरतु ममान्तरङ्गे प्रतिपदभोग्या भिषक्तमस्य सदा ।
भवरोगभीतसेव्या दिव्यौषधिका तुषारगिरिजन्या ॥ ६५।
तुहिनगिरिकीर्तिसम्पच्चरणसरोजातयुगळवरघृळिः ।
भुवनतलपावनी मे विमलीकुर्यान्मनोमणीमुकुरम् ॥ ६६॥
वलमथनविटपिसुरभिलनवसुमपरीहासिचिकुरसौरभ्याम् ।
स्मरदहनभाग्यसीमां निरतिशयानन्दकन्दलीं वन्दे ॥ ६७॥
कालिन्दीजलवेणीमालिन्यविधानधीरतरवेणीम् ।
मकरन्दमधुरवाणीमाणिक्यमणीं स्मरामि शर्वाणीम् ॥ ६८॥
लोलम्बडिम्भसंहतिसम्भ्रमसन्दायिविसरदलकभराम् ।
निटिलतलविजितवैधवकुटिलकलां सर्वमङ्गलां कलये ॥ ६९॥
कारुण्यसरससागरमृदुलहरीपरिणतोल्लसच्चिल्लीम् ।
फुल्लेन्दीवरसोदरसुन्दरनयनां स्मरामि चिल्लहरीम् ॥ ७०॥
करुणासुधाम्बुधाराशिशिरतरोदारकोमलकटाक्षाम् ।
नासाग्रकलितमणिमयभूषणसारां परां कलां कलये ॥ ७१॥
गण्डतलमुकुरबिम्बितकुण्डलितार्केन्दुमण्डलां कलये ।
खण्डपरशूर्जिततपोमण्डलसाम्राज्यपरमसीमानम् ॥ ७२॥
विशदतरदशनदीधितिनिन्दितकुन्देन्दुचातुरीलहरीम् ।
शिशिरकरशकलशेखररोषग्रीष्मोष्मचन्द्रिकां वन्दे ॥ ७३॥
अरुणांशुदशनवसनज्योतिष्प्रसरातिशोणितदिगन्ताम् ।
शितिकण्ठेनातर्पणसरसास्वादितामृताधरां कलये ॥ ७४॥
शारदपार्वणहिमकिरणाशासितदास्यसुन्दरतरास्याम् ।
कलयामि कुलगिरीश्वरविरचितपरमशिवचरणवरिवस्याम् ॥ ७५॥
अतिलळितगळतलाश्रितघवळतरोदारहारिमणिहाराम् ।
कलयामि निटिललोचननयनालीचन्दनादिगुलिकालीम् ॥ ७६॥
करिकुम्भकनककलशाड़म्बरसम्बाधिसाधुकुचकुम्भाम् ।
स्मरमथनचित्तशमधनतास्कर्यकलां कृपाकुलां कलये ॥ ७७॥
शम्भुकृतसुकृतसम्पत्सम्भृतसौवर्णकुम्भकुचकुम्भाम् ।
निटिलनयनपरिकाङ्क्षितदृढपरिरम्भां स्मरामि जगदम्बाम् ॥ ७८॥
रुचिरतरकनकवल्लीसाष्टाङ्गप्रणतभुजततिमतल्लीम् ।
अमरपरिपन्थिवर्गप्रतिभयतरकाळरात्रिमाकलये ॥ ७९॥
आनीलरोमवल्लीक्षुल्लीकृतवनपिपीलिकावलिकाम् ।
क्षोणीधरेश्वरयशश्चन्द्रमसः पूर्णिमामुमां प्रणुमः ॥ ८०॥
शोणनदावर्तरुचिश्रेणीभयदायिनिम्नशुभनाभीम् ।
सायन्तनघनपटलीशोभनवसनां स्मरामि हरसेनाम् ॥ ८१॥
कटितटघटितस्फुटरुचिकनकमणीकाञ्चिदलिततटिदाभाम् ।
कुटिलेन्दुमकुट मञ्जुलमञ्चां सञ्चिन्तये कलां काञ्चित् ॥ ८२॥
हस्तिवरमस्तकविभवजित्वरविस्तारिहारिजघनभराम् ।
निस्तुलसौन्दर्यसुधारत्नाकरसम्पदं स्मरेदम्बाम् ॥ ८३॥
विकटाक्षचित्तमन्मथविकृतिविधानैकतानसुनितम्बाम् ।
कलयामि भुवनमण्डलमन्दिरमणिदीपिकां महामायाम् ॥ ८४॥
कुम्भिकरराजरम्भासम्भावितसुरुचिरोरुवरकाण्डाम् ।
सम्भावये निसुम्भाद्यसुरमहारण्यदवशिखिज्वालाम् ॥ ८५॥
जानुमयहेमसम्पुटसंसज्जद्भक्तचित्तमणिमुकुराम् ।
भानुहिमभानुकृशानुलोचनसहधर्मिणीं नमस्कुर्मः ॥ ८६॥
जङ्घाप्रकाण्डशोभासङ्घास्तमितोच्चकनकदण्डाभाम् ।
हुङ्कारभस्मितासुरजृम्भितबलपटलिकां कलां कलये ॥ ८७॥
मञ्जुलशिञ्जानमणीमञ्जीरस्फुरणरञ्जितपदाब्जाम् ।
कञ्जशरवैरिचेतस्सरसिजकलहंसयोषितमुपासे ॥ ८८॥
प्रपदप्रभाप्रकाण्डप्रोत्सारितकच्छपच्छविप्रसराम् ।
प्रणुमः प्रालेयगिरिप्रचुरतपःप्रकरनैपुणीश्रेणीम् ॥ ८९॥
चरणनमदमरपालीमौलीमाणिक्यरञ्जितनखालीम् ।
नखचन्द्रिकानिरस्तप्रणततमोमण्डलीं कलां कलये ॥ ९०॥
सुरविटपिमृदुललोहितकिसलयवैकल्यकलनपटुचरणाम् ।
कलयामि चरणकान्तिप्रसरनिरस्तारुणाम्बुजामम्बाम् ॥ ९१॥
मणिमयकिरीकुण्डलकेयूरोदारहारकटकाद्यैः ।
रुचिरैर्भूषणसारैर्भूषितवेषां स्मरामि हरयोषाम् ॥ ९२॥
कलयामि कालयक्षीं करतलविलुठत्कराळकरवाळां
कूळीगणैः परिवृतां काळीपरिवारमण्डलीमौलीम् ॥ ९३॥
स्फुटरुचिविटपिविशेषैः पटुतरनिनदैः प्लवङ्गमैश्च भृतम् ।
कलये शार्ङ्गोध्यानं कार्त्यायन्याः सुखासिकास्थानम् ॥ ९४॥
हारिद्ररुचिसमाभा निर्निद्रा दीनरक्षणे माता ।
सौरद्रवीं मयि धुरं दारिद्र्यव्याकुले द्रुतं वहतु ॥ ९५॥
भूर्यद्रिमौलिनिलया भूरिद्रविणौघवृष्टिभिर्माता ।
दारिद्र्यघर्मतप्तं मां रुद्राण्यभिषिञ्चतात् क्षणेनैव ॥ ९६॥
वन्यां दैन्यौघमयीं धन्या निर्मूलयेत् समूलं मे ।
कन्या तुषारपर्वतजन्या गुण्या कटाक्षशस्त्रेण ॥ ९७॥
सर्गस्थित्यन्तकरी जगतः स्वर्गापवर्गदात्री मे ।
दौर्गत्यशिखरिकूटान् दुर्गा भिन्द्यात् कटाक्षकुलिशेन ॥ ९८॥
शार्ङोद्याननिवासिनि मातः परदेवते महामाये ! ।
करुणां कुरु मयि दीने कालविलम्ब सुदुस्सहं न सहे ॥ ९९॥
शार्ङोद्याननिवासिनि कार्त्यायनि ! नः कुरुष्व कल्याणम् ।
करुणामृतपरिवृष्ट्या भूयो भूयो वयं नमस्कुर्मः ॥ १००॥
शार्ङ्गद्याननिवासिनि ! मानसवाक्कायकर्मभिर्विहिताम् ।
सर्व मयापराधं मातमें त्वं क्षमस्व कारुण्यात् ॥ १०१॥
शार्ङोद्याननिवासिन्यम्बायाः पठति नुतिशतीमेताम् ।
भक्त्या यस्तस्य भवेत् कार्त्यायन्या निरङ्कुशा प्रीतिः ॥ १०२॥
(Aryasataka in praise of the Goddess of
the Sarngodyana temple (Chamakkavu temple
near Pandalam, Chenganoor Taluq) found in
the Library which originally belonged to the
Kilimanur Palace. The work consisting of a
century of verses composed in the metre AryA
remains anonymous at present. It is evident from
the heartfelt devotion which pulsates in every
line of the work that the author was a great
devotee of the Goddess. The rich vocabulary and
the melody of diction show that the work is from
the pen of a poet of no mean merit.)
इति आर्याशतकं सम्पूर्णम् ।
Proofread by Mohan Chettoor