आर्यतारानमस्कारैकविंशतिस्तोत्रम्
ॐ नमो भगवत्यै आर्यश्री-एकविंशतितारायै ।
नमस्तारे तुरे वीरे क्षणद्युतिनिभेक्षणे ।
त्रैलोक्यनाथवक्त्राब्जविकसत्कमलोद्भवे ॥ १॥
नमः शतशरच्चन्द्रसम्पूर्णेव वरानने ।
तारासहस्रकिरणैः प्रहसत्किरणोज्ज्वले ॥ २॥
नमः कनकनीलाब्जपाणिपद्मविभूषिते ।
दानवीर्यतपःशा(क्षा)न्तितितिक्षाध्यानगोचरे ॥ ३॥
नमस्तथागतोष्णीषविजयानन्तचारिणि ।
शेषपारमिताप्राप्तजिनपुत्रनिषेविते ॥ ४॥
नमस्तुतारहुङ्कारपूरिताशादिगन्तरे ।
सप्तलोकक्रमाक्रा(न्ते) अशेषकरुणा(णे)क्षणे ॥ ५॥
नमः शक्रानलब्रह्ममरुद्विश्वेश्वरार्चिते ।
भूतवेतालगन्धर्वगणयक्षपुरस्कृते ॥ ६॥
नमः स्त्रदिति फट्कार परजत्र(यन्त्र)प्रमर्दिनि ।
प्रत्यालीढपदन्यासे शिखी(खि)ज्वालाकुलोज्ज्वले ॥ ७॥
नमस्तुरे महाघोरे मालवीरविनाशिनि ।
भृकुटीकृतवक्त्राब्जसर्वशत्रुनिसुन्दनी(षूदिनि) ॥ ८॥
नमः स्त्रीरत्नमुद्राङ्कहृदयाङ्गुलिभूषिते ।
भूषिताशेषदिक्चक्रनिकरस्वकराकुले ॥ ९॥
नमः प्रमुदिताशेषमुक्ताक्षीरप्रसारिणि ।
हसत्प्रहसतुत्तारे मारलोलवशङ्करि ॥ १०॥
नमः समन्तभूपालपत(ट)लाकर्षण(णे)क्षणे ।
चरभृकुटिहूङ्कारसर्वापदविमोचनी(चिनि) ॥ ११॥
नमः श्रीखण्डखण्डेन्दु(सु)मुक्ताभरण(णो)ज्ज्वले ।
अमिताभजिताभारभासुरे किरणोद्ध्रुवे(द्धुरे) ॥ १२॥
नमः कल्पान्तहुतभुगज्वालामालान्तरे(र)स्थिते ।
आलीढमुदि(द्रि)ताबद्धरिपुचक्रविनाशिनी(नि) ॥ १३॥
नमः करतरा(ला)घाट(त)चरणाहतभूतले ।
भृकुटीकृतहुङ्कारसप्तपातालभेदिनी(नि) ॥ १४॥
नमः शिवे शुभे शान्ते शान्तनिर्वाणगोचरे ।
स्वाहाप्रणवसंयुक्ते महापातकनाशनी(शिनि) ॥ १५॥
नमः प्रमुदिताबद्धरिगात्रप्रभेदिनि ।
दशाक्षरपदन्यासे विद्याहुङ्कारदीपिते ॥ १६॥
नम(स्तारे) तुरे पादघातहुङ्कारवीजिते ।
मेरुमण्डलकैलाशभुवनत्रयचारिणी(णि) ॥ १७॥
नमः सुरे स(श)राकारहरिणाङ्ककरे(र)स्थिते ।
हरिद्विरुक्तफट्कार(रे) अशेषविषनाशिणी(नि) ॥ १८॥
नमः सुरासुरगणयक्षकिन्नरसेविते ।
अबुद्धमुदिताभोगकरी(रि) दुःस्वप्ननाशिनी(नि) ॥ १९॥
नमश्चन्द्रार्कसम्पूर्णनयनद्युतिभास्वरे ।
ताराद्विरुक्ततुत्तारे विषमज्वल(र)नाशिनि ॥ २०॥
नमः स्त्रीतत्त्वविन्यासे शिवशक्तिसमन्विते ।
ग्रहवेतार(ल)यक्षोष्मनाशिनि प्रवरे तुरे ॥ २१॥
मन्त्रमूलमिदं स्तोत्रं नमस्कारैकविंशतिः(ति) ।
यः पठेत्प्रातः(पठेत् प्रयतः) धीमान् देव्याभक्तिसमन्विते(तः) ॥ २२॥
सायं वा प्रातरुत्थाय स्मरेत् सर्वाभयप्रदम् ।
सर्वपापप्रशमनं सर्वदुर्गतिनाशनम् ॥ २३॥
अभिषिक्तो भवेत् तूर्णं सप्तभिर्जिनकोटिभिः ।
मासमात्रेण चैवासौ सुखं बौद्धपदं व्रजेत् ॥ २४॥
विषं तस्य महाघोरं स्थावरं चाथ जङ्गमम् ।
स्मरणान्न पदं याति खादितं पि(पी)तमेव वा ॥ २५॥
ग्रहजो(जा)लविषार्तानां परस्त्रीविषनाशनम् ।
अन्येषां चैव सत्त्वानां द्विसप्तमभिवर्तितम् ॥ २६॥
पुत्रकामो लभेत् पुत्रं घनकामो लभेद्धनम् ।
सर्वकामानवाप्नोति न विघ्नैः प्रतिहन्यते ॥ २७॥
इति श्रीसम्यक्सम्बुद्धवैलो(रो)चनभाषितं भगवत्यार्यतारादेव्या
नमस्कारैकविंशतिनामाष्टोत्तरशतकं बुद्धभाषितं परिसम्पूर्णम् ॥