आर्यतारास्तुतिः
नमस्तारायै ।
सुखदचक्रचारुचूडामणिरुचिरमरीचिसञ्चय-
प्रचुरशिखाप्रचारपरिचुम्बितचर्चितचरणचन्द्रके ।
जगति चराचरेऽपि साचीकृतचकितकृपालुलोचने
स्तुतिवचनोपचारमुचिताचरतिं रचयामि देवि ते ॥ १॥
नखरकठोरकोटिकुट्टितकरिकटतटपाटनोत्कटाः
प्रविकटरुधिरपटलपटपालिता अटवीविलुण्ठकाः ।
विकटसटाट्टहासघटितावटतटघटानोद्भटास्त्वज्जुषि
झटिति यान्ति सटिनः कुण्ठादपि कुण्ठशक्तिताम् ॥ २॥
मलिनमहाकपोलतलविगलितमदजलमलनविह्वलाः
स्खलदलिजालबहलकोलाहललितविलासलासिनः ।
विचलितकर्णतालपवनाहतललितविलेपधूलयः
पथि न गजाश्चलन्ति कुलशैलतुलास्तव ला(ना)मलालिताः ॥ ३॥
मारुतघातजातरभसोच्छलदनलशिखाकदम्बक-
प्रतिहतपुरपुरन्ध्रिहाहारवत्वरितदिगन्तभैरवः ।
उद्धतधूम्रधूमधूलिधुतबद्धघनान्धकारकं
त्वन्नतिनीतिगतिरेति शमं बहुशो हुताशनः ॥ ४॥
चलितलतावितानकुटिलोद्गमदुर्गमगहनवर्तिनः
सपदि पुरो नरस्य तारेति मनागपि नामधारिणः ।
स्फीतफणौघघोरफूत्कारपरिस्फुरतानलस्फुट-
स्फुरदुरुविस्फुलिङ्गविस्फारिणि फणिनि विषं विनश्यति ॥ ५॥
क्षणकृतकोपकम्पकरकर्षितखरकरवालनिर्मल-
व्यतिकरकरकरवालविकरालमहाबलभुजार्गलः ।
प्रस्थितपथिकनिकटकटविघटनपटुरतिनिष्ठुराशयो
भगवति भक्तिवन्तुमुपसर्पति तव न वनेऽपि तस्करः ॥ ६॥
योऽपि नरेन्द्रवीरहुङ्कारकचग्रहनिग्रहो
ग्रहग्रस्त इव रज्जुहिञ्जीरवजर्जरिताङ्गपञ्जरः ।
प्रतिपदखनखनायमानमुखरीकृतखरखरशृङ्खलावलि-
स्त्वच्चरणारविन्दमभिवन्द्य स नन्दति मुक्तबन्धनः ॥ ७॥
कलकलकलिललोलकल्लोलजलोल्ललत्कालिकानिला-
स्फालितविपुलबहलवेलाकुलकूलतमालपल्लवात् ।
सरभसमकरनिकरखरनखरसुदुस्तरतोऽपि सागरात्
तारिणि तरलतारतरतारकमातुरमेत्य रक्षसि ॥ ८॥
सूक्ष्मविरावसारसरघोत्करनिर्भरघोरघर्घरघ्राणा
घृणाङघ्रिपाण्यस्रविस्रीकृतक्वथितशरीरपञ्जरा ।
यत्क्षणमहाप्रसादावेशत्वत्प्रणता तारिणि कामरूपिणा
तत्क्षणलब्धलोलकिरणमणिकुण्डलमण्डितगण्डमण्डला ॥ ९॥
यूकविकीर्णशीर्णपटकर्पटकटितटवेष्टनोद्भटः
सङ्कटपेट्टपूरमात्रार्जनपरपुरपिण्डतर्कणः ।
यदि तव नामकं हृदि करोति हि राक्षसैककः
प्रौढवधूविधूतचामीकरखचितविचित्रचामरम् ॥ १०॥
इति श्रीचन्द्रदासविरचितार्यतारास्तुतिः समाप्ता ॥