ऋषिभिः कृतं नर्मदास्तोत्रम्
श्रीमार्कण्डेय उवाच ।
एतच्छ्रुत्वा वचो राजन्संहृष्टा ऋषयोऽभवन् ।
नर्मदां स्तोतुमारब्धाः कृताञ्जलिपुटा द्विजाः ॥ १॥
नमोऽस्तु ते पुण्यजले नमो मकरगामिनि ।
नमस्ते पापमोचिन्यै नमो देवि वरानने ॥ २॥
नमोऽस्तु ते पुण्यजलाश्रये शुभे
विशुद्धसत्त्वं सुरसिद्धसेविते ।
नमोऽस्तु ते तीर्थगणैर्निषेविते
नमोऽस्तु रुद्राङ्गसमुद्भवे वरे ॥ ३॥
नमोऽस्तु ते देवि समुद्रगामिनि
नमोऽस्तु ते देवि वरप्रदे शिवे ।
नमोऽस्तु लोकद्वयसौख्यदायिनि
ह्यनेकभूतौघसमाश्रितेऽनघे ॥ ४॥
सरिद्वरे पापहरे विचित्रिते
गन्धर्वयक्षोरगसेविताङ्गे ।
सनातनि प्राणिगणानुकम्पिनि
मोक्षप्रदे देवि विधेहि शं नः ॥ ५॥
महागजौघैर्महिषैर्वराहैः संसेविते देवि महोर्मिमाले ।
नताः स्म सर्वे वरदे सुखप्रदे विमोचयास्मान्पशुपाशबन्धात् ॥ ६॥
पापैरनेकैरशुभैर्विबद्धा भ्रमन्ति तावन्नरकेषु मर्त्याः ।
महानिलोद्भूततरङ्गभूतं यावत्तवाम्भो हि न संस्पृशन्ति ॥ ७॥
अनेकदुःखौघभयार्दितानां पापैरनेकैरभिवेष्टितानाम् ।
गतिस्त्वमम्भोजसमानवक्रे द्वन्द्वैरनेकैरपि संवृतानाम् ॥ ८॥
नद्यश्च पूता विमला भवन्ति त्वां देवि सम्प्राप्य न संशयोऽत्र ।
दुःखातुराणामभयं ददासि शिष्टैरनेकैरभिपूजितासि ॥ ९॥
स्पृष्टं करैश्चन्द्रमसो रवेश्च तदैव दद्यात्परमं पदं तु ।
यत्रोपलाः पुण्यजलाप्लुतास्ते शिवत्वमायान्ति किमत्र चित्रम् ॥ १०॥
भ्रमन्ति तावन्नरकेषु मर्त्या दुःखातुराः पापपरीतदेहाः ।
महानिलोद्भूततरङ्गभङ्गं यावत्तवाम्भो न हि संश्रयन्ति ॥ ११॥
म्लेच्छाः पुलिन्दास्त्वथ यातुधानाः पिबन्ति येऽम्भस्तव देवि पुण्यम् ।
मुक्ता भवन्तीह भयात्तु घोरान्निःसंशयं तेऽपि किमत्र चित्रम् ॥ १२॥
सरांसि नद्यः क्षयमभ्युपेता घोरे युगेऽस्मिन् हि कलौ प्रदूषिते ।
त्वं भ्राजसे देवि जलौघपूर्णा दिवीव नक्षत्रपथे च गङ्गा ॥ १३॥
तव प्रसादाद्वरदे वरिष्ठे कालं यथेमं परिपालयित्वा ।
यामोऽथ रुद्रं तव सुप्रसादाद्वयं तथा त्वं कुरु वै प्रसादम् ॥ १४॥
गतिस्त्वमम्बेव पितेव पुत्रांस्त्वं पाहि नो यावदिमं युगान्तम् ।
कालं त्वनावृष्टिहतं सुघोरं यावत्तरामस्तव सुप्रसादात् ॥ १५॥
पठन्ति ये स्तोत्रमिदं द्विजेन्द्राः शृण्वन्ति ये चापि नराः प्रशान्ताः ।
ते यान्ति रुद्रं वृषसंयुतेन यानेन दिव्याम्बरभूषिताश्च ॥ १६॥
ये स्तोत्रमेतत्सततं पठन्ति स्नात्वा तु तोये खलु नर्मदायाः ।
अन्ते हि तेषां सरिदुत्तमेयं गतिं विशुद्धामचिराद्ददाति ॥ १७॥
प्रातः समुत्थाय तथा शयानो यः कीर्तयेतानुदिनं स्तवं च ।
स मुक्तपापः सुविशुद्धदेहः समाश्रयं याति महेश्वरस्य ॥ १८॥
इति श्रीस्कन्दपुराणे आवन्त्यखण्डे रेवाखण्डे
श्रीनर्मदामाहात्म्ये नर्मदास्तोत्रकथनं नाम द्वादशोऽध्यायः ॥
स्कन्दपुराण । आवन्त्यखण्ड । रेवाखण्ड । अध्याय १२/२-१८॥
skandapurANa . AvantyakhaNDa . revAkhaNDa . adhyAya 12/2-18..
Proofread by PSA Easwaran