श्रीषोडशी त्रिपुरसुन्दरी ध्यानम्
१. बालार्कमण्डलाभासां चतुर्बाहां त्रिलोचनाम् ।
पाशाङ्कुशशरांश्चापं धारयन्तीं शिवां भजे ॥
२. बालार्कायुततेजसं त्रिनयनां रक्ताम्बरोल्लासिनीम् ।
नानालङ्कृतिराजमानवपुषं बालोडुराट्शेखराम् ॥
हस्तैरिक्षुधनुः सृणिं सुमशरं पाशं सदा बिभ्रतीम् ।
श्रीचक्रस्थितसुन्दरीं त्रिजगतामाधारभूतां भजे ॥
इति श्रीषोडशी त्रिपुरसुन्दरी ध्यानम् ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com