श्रीअष्टलक्ष्मीमहामन्त्रम्

श्रीअष्टलक्ष्मीमहामन्त्रम्

(ऋषिः - छन्दः - देवता - ध्यान सहितम्) श्रीलक्ष्मीनारायणः अस्य श्रीरमानाथमहामन्त्रस्य - नारायण ऋषिः - विराट् छन्दः - लक्ष्मीनारायणो देवता - अं बीजं - उं शक्तिः - मं कीलकं - अस्य श्रीलक्ष्मीनारायणप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ अङ्गुष्टाभ्यां नमः ॐ नं तर्जनीभ्यां नमः ॐ रं मध्यमाभ्यां नमः ॐ यं अनामिकाभ्यां नमः ॐ णं कनिष्ठिकाभ्यां नमः ॐ यं करतलकरपृष्ठाभ्यां नमः ॐ हृदयाय नमः ॐ नं शिरसे स्वाहा ॐ रं शिखायै वषट् ॐ यं कवचाय हुं ॐ णं नेत्राभ्यां वौषट् ॐ यं अस्त्राय फट् ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥ ध्यानम् श्रीवत्सवक्षसं विष्णुं चक्रशङ्खसमन्वितम् । वामोरुविलसल्लक्ष्म्याऽऽलिङ्गितं पीतवाससम् ॥ सुस्थिरं दक्षिणं पादं वामपादं तु कुञ्जितम् । दक्षिणं हस्तमभयं वामं चालिङ्गितश्रियम् ॥ शिखिपीताम्बरधरं हेमयज्ञोपवीतिनम् । एवं ध्यायेद्रमानाथं पश्चात्पूजां समाचरेत् ॥ मूलमन्त्रम् - ॐ नमो नारायणाय । श्री आदिलक्ष्मीः अस्य श्री आदिलक्ष्मीमहामन्त्रस्य - भार्गव ऋषिः - अनुष्टुबादि नाना छन्दांसि - श्री आदिलक्ष्मीर्देवता - श्रीं बीजं - ह्रीं शक्तिः - ऐं कीलकं - श्रीमदादि महालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ श्रीं अङ्गुष्ठाभ्यां नम ॐ ह्रीं तर्जनीभ्यां नमः ॐ ऐं मध्यमाभ्यां नम ॐ श्रीं अनामिकाभ्यां नमः ॐ ह्रीं कनिष्ठिकाभ्यां नमः ॐ ऐं करतलकरपृष्ठाभ्यां नमः ॐ श्रीं हृदयाय नमः ॐ ह्रीं शिरसे स्वाहा ॐ ऐं शिखायै वषट् ॐ श्रीं कवचाय हुं ॐ ह्रीं नेत्राभ्यां वौषट् ॐ ऐं अस्त्राय फट् ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥ ध्यानम् द्विभुजां च द्विनेत्रां च साभयां वरदान्विताम् । पुष्पमालाधरां देवीं अम्बुजासनसंस्थिताम् ॥ पुष्पतोरणसम्युक्तां प्रभामण्डलमण्डिताम् । सर्वलक्षणसम्युक्तां सर्वाभरणभूषिताम् ॥ पीताम्बरधरां देवीं मकुटीचारुबन्धनाम् । सौन्दर्यनिलयां शक्तिं आदिलक्ष्मीमहं भजे ॥ मूलमन्त्रं - ॐ श्रीं आदिलक्ष्म्यै नमः । श्रीसन्तानलक्ष्मी अस्य श्रीसन्तानलक्ष्मीमहामन्त्रस्य - भृगु ऋषिः - निचृत् छन्दः - श्रीसन्तानलक्ष्मीः देवता - श्रीं बीजं - ह्रीं शक्तिः - क्लीं कीलकं - अस्य श्रीसन्तानलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ स्रां अङ्गुष्टाभ्यां नमः ॐ स्रीं तर्जनीभ्यां नमः ॐ स्रूं मध्यमाभ्यां नमः ॐ स्रैं अनामिकाभ्यां नमः ॐ स्रौं कनिष्ठिकाभ्यां नमः ॐ स्रः करतलकरपृष्ठाभ्यां नमः ॐ स्रां हृदयाय नमः ॐ स्रीं शिरसे स्वाहा ॐ स्रूं शिखायै वषट् ॐ स्रैं कवचाय हुं ॐ स्रौं नेत्राभ्यां वौषट् ॐ स्रः अस्त्राय पट् ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम् जटामकुटसम्युक्तां स्थिरासन्समन्विताम् । अभयं कटकञ्चैव पूर्णकुम्भं करद्वये ॥ कञ्चुकं सन्नवीतञ्च मौक्तिकञ्चापि धारिणीम् । दीपचामरहस्ताभिः सेवितां पार्श्वयोर्द्वयोः ॥ बालसेनानिसङ्काशां करुणापूरिताननाम् । महाराज्ञीं च सन्तानलक्ष्मीमिष्टार्थसिद्धये ॥ मूलमन्त्रम् - ॐ श्रीं सन्तानलक्ष्म्यै नमः । श्रीगजलक्ष्मीः अस्य श्रीगजलक्ष्मीमहामन्त्रस्य - शुक्र ऋषिः - अनुष्टुप् छन्दः - गजलक्ष्मीः देवता - कं बीजं - मं शक्तिः - लं कीलकं - श्रीगजलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ क्रां अङ्गुष्ठाभ्यां नमः । ॐ क्रीं तर्जनीभ्यां नमः । ॐ क्रूं मध्यमाभ्यां नमः । ॐ क्रैं अनामिकाभ्यां नमः । ॐ क्रौं कनिष्ठिकाभ्यां नमः । ॐ क्रः करतलकरपृष्ठाभ्यां नमः ॥ ॐ क्रां हृदयाय नमः । ॐ क्रीं शिरसे स्वाहा । ॐ क्रूं शिखायै वषट् । ॐ क्रैं कवचाय हुं । ॐ क्रौं नेत्राभ्यां वौषट् । ॐ क्रः अस्त्राय पट् । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम् । चतुर्भुजां महालक्ष्मीं गजयुग्मसुपूजिताम् । पद्मपत्राभनयनां वराभयकरोज्ज्वलाम् ॥ ऊर्ध्वं करद्वये चाब्जं दधतीं शुक्लवस्त्रकम् । पद्मासने सुखासीनां गजलक्ष्मीमहं भजे ॥ मूलमन्त्रं - ॐ श्रीं गजलक्ष्म्यै नमः । श्रीधनलक्ष्मीः अस्य श्रीधनलक्ष्मीमहामन्त्रस्य - परब्रह्म ऋषिः - अनुष्टुप्छन्दः - श्रीधनलक्ष्मीः देवता - लं बीजं - धं शक्तिः - मं कीलकं - श्रीधनलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ त्रां अङ्गुष्ठाभ्यां नमः ॐ त्रीं तर्जनीभ्यां नमः ॐ त्रूं मध्यमाभ्यां नमः ॐ त्रैं अनामिकाभ्यां नमः ॐ त्रौं कनिष्ठिकाभ्यां नमः ॐ त्रः करतलकरपृष्ठाभ्यां नमः ॐ त्रां हृदयाय नमः ॐ त्रीं शिरसे स्वाहा ॐ त्रूं शिखायै वषट् ॐ त्रैं कवचाय हुं ॐ त्रौं नेत्राभ्यां वौषट् ॐ त्रः अस्त्राय फट् ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम् किरीटमुकुटोपेतां स्वर्णवर्णसमन्विताम् । सर्वाभरणसम्युक्तां सुखासनसमन्विताम् ॥ परिपूर्णञ्च कुम्भञ्च दक्षिणेन करेण तु । चक्रं बाणञ्च ताम्बूलं तदा वामकरेण तु ॥ शङ्खं पद्मञ्च चापञ्च कुण्डिकामपि धारिणीम् । सकञ्चुकस्तनीं ध्यायेत् धनलक्ष्मीं मनोहराम् ॥ मूलमन्त्रम् - ॐ श्रीं धनलक्ष्म्यै नमः । श्रीधान्यलक्ष्मीः अस्य श्रीधान्यलक्ष्मीमहामन्त्रस्य - परब्रह्म ऋषिः - अनुष्टुप्छन्दः - श्री धान्यलक्ष्मीः देवता - धं बीजं - लं शक्तिः - मं कीलकं - श्रीधान्यलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ द्रां अङ्गुष्टाभ्यां नमः । ॐ द्रीं तर्जनीभ्यां नमः । ॐ द्रूं मध्यमाभ्यां नमः । ॐ द्रैं अनामिकाभ्यां नमः । ॐ द्रौं कनिष्ठिकाभ्यां नमः । ॐ द्रः करतलकरपृष्ठाभ्यां नमः ॥ ॐ द्रां हृदयाय नमः । ॐ द्रीं शिरसे स्वाहा । ॐ द्रूं शिखायै वषट् । ॐ द्रैं कवचाय हुं । ॐ द्रौं नेत्राभ्यां वौषट् । ॐ द्रः अस्त्राय फट् । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम् । वरदाभयसम्युक्तां किरीटमकुटोज्ज्वलाम् । अम्बुजञ्चेक्षुशालिञ्च कदम्बफलद्रोणिकाम् ॥ पङ्कजञ्चाष्टहस्तेषु दधानां शुक्लरूपिणीम् । कृपामूर्तिं जटाजूटां सुखासनसमन्विताम् ॥ सर्वालङ्कारसम्युक्तां सर्वाभरणभूषिताम् । मदमत्तां मनोहारिरूपां धान्यश्रियं भजे ॥ मूलमन्त्रम् - ॐ श्रीं धान्यलक्ष्म्यै नमः । श्रीविजयलक्ष्मीः । अस्य श्रीविजयलक्ष्मीमहामन्त्रस्य - नारद ऋषिः - नाना छन्दांसि - श्रीविजयलक्ष्मीः देवता - लं बीजं - क्षं शक्तिः - यं कीलकं - सर्वकार्यसिद्धिद्वारा श्रीविजयलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ व्रां अङ्गुष्ठाभ्यां नमः । ॐ व्रीं तर्जनीभ्यां नमः । ॐ व्रूं मध्यमाभ्यां नमः । ॐ व्रैं अनामिकाभ्यां नमः । ॐ व्रौं कनिष्ठिकाभ्यां नमः । ॐ व्रः करतलकरपृष्ठाभ्यां नमः ॥ ॐ व्रां हृदयाय नमः । ॐ व्रीं शिरसे स्वाहा । ॐ व्रूं शिखायै वषट् । ॐ व्रैं कवचाय हुं । ॐ व्रौं नेत्राभ्यां वौषट् । ॐ व्रः अस्त्राय फट् । ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥ ध्यानम् । अष्टबाहुयुतां देवीं सिम्हासनवरस्थिताम् । सखासनां सुकेशीञ्च किरीटमुकुटोज्ज्वलाम् ॥ श्यामाङ्गीं कोमलाकारां सर्वाभरणभूषिताम् । खड्गं पाशं तदा चक्रमभयं सव्यहस्तके ॥ खेटकञ्चाङ्कुशं शङ्खं वरदं वामहस्तके । राजरूपधरां शक्तिं प्रभासौन्दर्यशोभिताम् ॥ हंसारूढां स्मरेद्देवीं विजयां विजयप्रदे ॥ मूल्मन्त्रं - ॐ श्रीं विजयलक्ष्म्यै नमः । श्रीधैर्य(वीर)लक्ष्मीः अस्य श्रीवीरलक्ष्मीमहामन्त्रस्य - नारद ऋषिः - तृष्टुप्छन्दः - श्रीवीरलक्ष्मीः देवता - लं बीजं - रं शक्तिः - लं कीलकं - आरोग्यभाग्यसिद्धिद्वारा श्रीवीरलक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ व्रां अङ्गुष्ठाभ्यां नमः । ॐ व्रीं तर्जनीभ्यां नमः । ॐ व्रूं मध्यमाभ्यां नमः । ॐ व्रैं अनामिकाभ्यां नमः । ॐ व्रौं कनिष्ठिकाभ्यां नमः । ॐ व्रः करतलकरपृष्ठाभ्यां नमः ॥ ॐ व्रां हृदयाय नमः । ॐ व्रीं शिरसे स्वाहा । ॐ व्रूं शिखायै वषट् । ॐ व्रैं कवचाय हुं । ॐ व्रौं नेत्राभ्यां वौषट् । ॐ व्रः अस्त्राय फट् । ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥ ध्यानम् । अष्टबाहुयुतां लक्ष्मीं सिम्हासनवरस्थिताम् । तप्तकाञ्चनसङ्काशां किरीटमकुटोज्ज्वलाम् ॥ स्वर्णकञ्चुकसंयुक्तां सन्नवीततरां शुभाम् । अभयं वरदं चैव भुजयोः सव्यवामयोः ॥ चक्रं शूलञ्च बाणञ्च शङ्खं चापं कपालकम् । दधतीं धैर्यलक्ष्मीं च नवतालात्मिकां भजे ॥ मूलमन्त्रम् - ॐ श्रीं वीरलक्ष्म्यै नमः । श्री ऐश्वर्य(महा)लक्ष्मीः अस्य श्रीमहालक्ष्मीमहामन्त्रस्य - ब्रह्मा ऋषिः - जगती छन्दः - श्रीमहालक्ष्मीः देवता - ह्रां बीजं - ह्रीं शक्तिः - ह्रूं कीलकं - श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः । ॐ क्ष्रां अङ्गुष्टाभ्यां नमः । ॐ क्ष्रीं तर्जनीभ्यां नमः । ॐ क्ष्रूं मध्यमाभ्यां नमः । ॐ क्ष्रैं अनामिकाभ्यां नमः । ॐ क्ष्रौं कनिष्ठिकाभ्यां नमः । ॐ क्ष्रः करतलकरपृष्ठाभ्यांनमः ॥ ॐ क्ष्रां हृदयाय नमः । ॐ क्ष्रीं शिरसे स्वाहा । ॐ क्ष्रूं शिखायै वषट् । ॐ क्ष्रैं कवचाय हुं । ॐ क्ष्रौं नेत्राभ्यां वौषट् । ॐ क्ष्रः अस्त्राय फट् । ॐ भूर्भुवस्युवरोमिति दिग्बन्धः ॥ ध्यानम् । चतुर्भुजां द्विनेत्राञ्च वराभयकरान्विताम् । अब्जद्वयकराम्भोजां अम्बुजासनसंस्थिताम् ॥ ससुवर्णघटोराभ्यां प्लाव्यमानां महाश्रियम् । सर्वाभरणशोभाढ्यां शुभ्रवस्त्रोत्तरीयकाम् ॥ चामरग्रहनारीभिः सेवितां पार्श्वयोर्द्वयोः । आपादलम्बिवसनां करण्डमकुटां भजे ॥ मूलमन्त्रम् - अं श्रीं श्रीमहालक्ष्म्यै नमः ॥ इति श्रीअष्टलक्ष्मीमहामन्त्रं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : aShTalakShmImahAmantram
% File name             : aShTalakShmImahAmantram.itx
% itxtitle              : aShTalakShmImahAmantram
% engtitle              : aShTalakShmImahAmantram
% Category              : devii, lakShmI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : shrIlakShmIkaTAkSha S K Rajagopalan 2001 collection of Laxmistotras
% Indexextra            : (Text)
% Latest update         : May 5, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org