अष्टलक्ष्मी सम्प्रत्प्रदस्तवः
अथ सम्पत्प्रदस्तवः ।
प्रत्यूहद्ध्वान्तचण्डांशुः प्रत्यूहारण्यपावकः ।
प्रत्यूहसिह्मशरभः पातु नः पार्वतीसुतः ॥
चित्सभानायकं वन्दे चिन्ताधिकफलप्रदम् ।
अपर्णास्वर्ण कुम्भाभ कुचाश्लिष्टकलेवरम् ॥ १॥
विराड्ढृदय पद्मस्थत्रिकोणेशिवयासह ।
सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ २॥
श्रुतिस्तम्भान्तरेचक्र युग्मेगिरिजयासह ।
सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ३॥
शिवकामीकुचाम्भोज सव्यभागविराजितः ।
सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ४॥
करस्थ डमरुध्वान परिष्कृतरवागमः ।
सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ५॥
नारदब्रह्म गोविन्द वीणाताल मृदङ्गकैः ।
सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ६॥
जैमिनि व्याघ्रपाच्छेषस्तु तिस्मेरमुखाम्बुजः ।
सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ७॥
तिल्वविप्रैस्त्रयी मार्ग पूजिताङ्घ्रिसरोरुहः
सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ८॥
मन्त्रनूपुर पद्पद्म झणज्झणि तदिन्द्मुखः ।
सयोनः कुरुतेलास्यमष्टलक्ष्मीः प्रयच्छतु ॥ ९॥
सम्पत्प्रदमिदं स्तोत्रं प्रातरुत्थाय यः पठेत् ।
अचलां श्रियमाप्नोति नटराजप्रसादतः ॥ १०॥
इति अष्टलक्ष्मीसम्प्रत्प्रदस्तवः ।
Encoded by Muthuraman Krishnamurthy
Proofread by Muthuraman Krishnamurthy, Aruna Narayan