अग्निदेवकृता सीतास्तुतिः
अग्निरुवाच ।
तव नखरुचिद्योत्तैः पारेपरार्द्धरविप्रभा
भवति सततं मन्दीभूता प्रमोदवनेश्वरि ।
अथ यदि भवत्कारुण्याब्धेरुतञ्चतिवीचिका
शिथिलप्रायप्राणोऽप्यशोभत सूर्यवत् ॥ १॥
जननि मयका प्राप्तं तेजस्त्वदीयनखत्विष-
स्त्रिभुवनमहाराज्यमप्यणुमासते ।
यदिदमखिललोके पूर्णं महः प्रविलोक्यते
तदपि तव चेद् दृष्टं रूपं भवत्यणुमात्रकम् ॥ २॥
दिनमणिः स्वो मुक्तामाणिक्यहीरमाणिप्रभा
हिमकरकलाकान्तिस्तोमः सुवर्णमरीचयः ।
यदिहभुवने दिव्यं भौमं तथा करजं महः
सकलमपि तन्मन्ये तावन्मदङ्गकलोद्भवम् ॥ ३॥
मयि पुनरदस्तेजोमात्रं त्वदीयतनुप्रभा
वितरणभव मातः का ते रुचामियतीस्तुतिः ।
परमपुरुषप्राणप्रेयस्तमे भवतीपरं
कलयसि कलाकलापं यत्सत्त्वं तदूर्जितमात्मना ॥ ४॥
इयतिविभवे तासा भासामहो सुमहापदे जयति
भवती सीतेमूर्द्धाभिषिक्त पदागमैः ।
तदपि च न ते दृष्टःक्वापिध्रुवम्मनसिस्मयो
न भवति यतःकाचित्कोटिर्भवत्प्रतियोगिनी ॥ ५॥
प्रमुदविपिनक्रोडक्रीडापरा परपूरुष-
प्रणयपदवीसीमा सामानुग्रहभाजनम् ।
कलयकलयप्रेम्णा श्रीमत्यदाम्बुजयोः परं
विधिहरिहरश्रीशेषेन्द्राद्युपासितमात्रयोः ॥ ६॥
परमपुरुषार्थस्ते लीलारसात्मकविग्रहे-
प्रमुदविपिनान्तश्रीः संयोगविप्रयुजात्मिका ।
विधिहरिहराद्यन्तर्निष्ठैः सुरैः समुपासिता
प्रकृतिमधुराकारा धारामृतद्रवरूपिणी ॥ ७॥
रसिकणिना युक्ता रामेन्दुनाप्रमुदाटवी
प्रकटविलसद्रूपा गोपालिकापटुवोशिनी ।
उदयसिकलाकोटिज्योत्स्नमयीमधुराकृति-
र्निजरसमहामग्नानन्दोदधेः स्वसखीगणैः ॥ ८॥
तव हि रमणः प्रोक्तः श्रीरामचन्द्र इति श्रुतौ
तदुदयपदंश्रीर्मायाख्या श्रुताभवतीपुनः ।
त्वपि सतिभवेत्सद्बुद्धिश्चेज्जनो न विमुच्यते-
नियतमथ तज्जायेतज्ञानंयदीश्वरगोचरा ॥ ९॥
नमो महाचिदानन्दिनीशक्तिसमेताय विश्वोदयस्थिति-
संहरणामितलीलाशालिने महाभागैकरसिकाय
प्रमोदवनविलासिने प्रमोदवननिकेतनचमत्कारक-
स्वानन्दभयनित्यनिरवधिविलासप्रेमास्पदस्वरूपाय रामाय ॥ १०॥
तुभ्यं च नमस्तदेकविहारिण्यै ब्रह्मानन्दैकप्रतिष्ठायै
संयोगसुधातरङ्गिण्यै वियोगहुताशकवलीकृताशेषव्यतिरिक्तभावायै
ज्वालामालिन्यै प्रज्वलन्महाभावानलज्वालानुरागरसिकायै गोपेश्वर्यै
जनकनरेन्द्रतनयायै तत्र श्रीनन्दनदुहित्रे
श्रीराजिनीगर्भैकमहांशु मालिमाणीक्यमालायै
श्रीसुखितगवेन्द्रनन्दनप्रेमैकभाजनायै
श्रीमाङ्गल्यकालालनललितविग्रहायै
निरवग्रहानुग्रहपात्रीकृतनिजजनपरिवेष्टितायै
परमपुरुषोरूपप्रकटिताशेषपुमर्थधोरिण्यै
सुधारसद्रवशीतायै सीतायै ॥ ११॥
इत्थमुक्त्वा स्तुतिं तस्यास्त्रिवेदीरूढसत्पदाम् ।
दण्डवन्न्यपतश्चाग्निराधिदैविकरूपधृक् ॥ १२॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे
सीताजन्मोत्सवे देवस्तुतावेकविंशोऽध्यायः ॥ २१॥
भुशुण्डिरामायणम् । पश्चिमखण्ड । अध्याय २१/१-१२॥
bhushuNDirAmAyaNam . pashchimakhaNDa . adhyAya 21/1-12..
Encoded and proofread by Mrityunjay Rajkumar Pandey