अखिलाण्डेश्वरीपुष्पमालास्तोत्रम्

अखिलाण्डेश्वरीपुष्पमालास्तोत्रम्

अध्वातीतपदे अलङ्कृतशिवे अर्थान्तरर्थे परे अत्यर्थे अमलाशये अतिदये अर्धेन्दुभूषोज्ज्वले । अध्यक्षे अमराङ्गनापरिवृते अध्यात्मविद्यामये अव्यक्ते अचलाधिराजतनये वन्देऽखिलाण्डेश्वरि ॥ १॥ आद्ये आगमसम्प्रदायनिपुणे आचार्यवर्यार्चिते आधारादिसरोजपीठनिलये आलोलनीलालके । आताम्राधरचारुमन्दहसिते आपीनवक्षोरुहे आब्रह्माच्युतशङ्करार्चितपदे वन्देऽखिलाण्डेश्वरि ॥ २॥ इच्छाज्ञानसमस्तशक्तिसहिते इन्दीवरश्यामले इन्द्रोपेन्द्रवरपदे इभवनाधीशे इनाराधिते । इज्ये इन्दुनिभानने इभनुते इष्टार्थसिद्धिप्रदे इन्द्राणीनमिते इभाननसुते वन्देऽखिलाण्डेश्वरि ॥ ३॥ ईशे ईशविरिञ्चिशौरिवरदे ईड्यालि ईशात्मिके ईर्ष्यादूषितचित्तदूरचरणे ईशप्रिये ईश्वरि । ईडये ईश्वरवामभागनिलये ईङ्कारक्लृप्तोदये ईशित्वादिमहाविभूतिनिलये वन्देऽखिलाण्डेश्वरि ॥ ४॥ उद्यद्भानुसहस्रकोटिकिरणे उर्वीधरेन्द्रात्मजे उत्फुल्लाम्बुजलोचने उभयकावेर्यन्तरालाश्रये । उद्यच्चन्द्रनिभानने उरुतरे उच्चासने उज्ज्वले उद्दामद्युतिपुञ्जमञ्जुलतरे वन्देऽखिलाण्डेश्वरि ॥ ५॥ ऊहापोहविवेकबाह्यनिलये ऊनातिरिक्तोज्ज्वले ऊर्जस्वन्मणिमेखलाविलसिते ऊरीकृतार्थप्रिये । ऊर्ध्वाधोद्भवयोगमूलनिलये ऊष्मापहारोज्ज्वले ऊधः क्षीरसुधाधृतत्रिभुवने वन्देऽखिलाण्डेश्वरि ॥ ६॥ ऋग्वेदादिनिषेविते ऋतुनते ऋद्धानुकम्पावहे । ऋद्धामोदमुखेप्सिते ऋतुनुते ऋक्षौघसंसेविते । ऋक्षाधीशकलान्विते ऋणतमोभास्वत्पदाम्भोरुहे ऋद्ध्यापूरितविष्टपत्रयनुते वन्देऽखिलाण्डेश्वरि ॥ ७॥ रूपारूपसदाशिवान्तरगते रूपे सदा रूपिणि रूपातीतपरापरार्थनिलये रूढप्ररूढात्मिके । नॄणां जन्मजरापहारनिलये नृत्राणकल्पद्रुमे नॄणां पापविमोचनाद्यफलदे वन्देऽखिलाण्डेश्वरि ॥ ८॥ क्लृप्ताशेषजगन्महेशनिलये क्लृप्ताङ्गरागोज्ज्वले क्लृप्ताक्लृप्तविशङ्क्यमानविलसन्मध्यावलीरञ्जिते । लिङ्गाराधनतत्परे लिकुचराजत्पाणिपङ्केरुहे क्लृप्ताकल्पमनोहराङ्गलतिके वन्देऽखिलाण्डेश्वरि ॥ ९॥ लूताधीशगजेन्द्रपूजितपदे लूनाहितेशान्विते। क्लीङ्काराङ्कित बिन्दुपीठनिलये क्लीङ्काररूपेडिते । लूतातन्तुजडीकृतेशनिलये लूनाहिवल्लीदले लूताक्ष्मापतिमुक्तिदातृमहिले वन्देऽखिलाण्डेश्वरि ॥ १०॥ एके एकमहाम्बुराशिनिलये एकान्तक्लृप्तोदये एकानेकतया विभक्तभुवने एकातपत्रोज्ज्वले । एणीचारुविलोललोचनयुगे एकावलीभूषणे एतत्तत्त्वमयाणिमादिवरदे वन्देऽखिलाण्डेश्वरि ॥ ११॥ ऐङ्कारासनमध्यपीठनिलये ऐन्द्रादिलोकप्रदे ऐरावत्युपमानदेहलतिके ऐन्द्रादिशक्तीडिते । ऐङ्काराक्षरवेदवेद्यविभवे ऐश्वर्यदानेक्षणे ऐमैमित्यनुसन्दधानभुवने वन्देऽखिलाण्डेश्वरि ॥ १२॥ ओमित्येकपदावलीडितपदे ओजोविशेषान्विते ओष्ठाधावितबिम्बविद्रुमलते ओघत्रयाराधिते । ओघैरप्सरसां सदापरिवृते ओताखिलार्थाधिपे ओजोराजितवाग्विभूतिविनुते वन्देऽखिलाण्डेश्वरि ॥ १३॥ औशीरादिसुगन्धिशोभनकचे औत्पत्तिजालप्रिये औदासीन्यविभिन्नदैत्यविभवे औपाधिकोपान्विते । औदार्याकरपादपङ्कजयुगे औपम्यहीनानने औमाकान्तपदप्रदार्तिहपदे वन्देऽखिलाण्डेश्वरि ॥ १४॥ अम्भोजासनमुख्यसेवितपदे अम्भोधरश्यामले अङ्गाकल्पितरत्नभूषणशते अण्डौघसंसेविते । अम्ब्वाकाशतया विभक्तभुवने अम्भोरुहाङ्घ्रिद्वये अह्नायान्तकसूदनप्रियतमे वन्देऽखिलाण्डेश्वरि ॥ १५॥ अस्ताघे अवनम्रदेवनिवहे अस्तोकभाग्योदये अर्धाधिक्यमनोहरे अचलजे अष्टाक्षरैरर्चिते । अर्घातीतमनोज्ञभूषणशते अक्षीणसौभाग्यदे अर्काम्भोरुहवैरिवह्निनयने वन्देऽखिलाण्डेश्वरि ॥ १६॥ कावेरीपुलिनालये कमलजे कामारिवामालये कारुण्यामृतलोचने कविनुते कन्दर्पकान्तिप्रदे । कल्याणि क्षितिलोककल्पलतिके कारुण्यवारान्निधे कालाम्भोधरकम्रकुण्डलधरे वन्देऽखिलाण्डेश्वरि ॥ १७॥ खर्वाटे खगकेतनानुजवरे खट्वाङ्गपाणिस्तुते खर्वाखर्वविवर्जिते खगमयूखाराधिते खड्गिनि । खद्योतेशवरप्रदे खगनुते खद्योतकोटिप्रभे खण्डेन्दूज्ज्वलशेखरे खगचरे वन्देऽखिलाण्डेश्वरि ॥ १८॥ गङ्गावर्तसमाननाभिकुहरे गण्डोज्ज्वलत्कुण्डले गन्धर्वासुरसिद्धकिन्नरनुते गन्धोत्तमालेपिते । गम्भीरामृतसिन्धुमध्यनिलये गाम्भीर्यधैर्याधिके गङ्गोत्तुङ्गतरङ्गशेखरयुते वन्देऽखिलाण्डेश्वरि ॥ १९॥ गीतानन्दमये गिरीशनमिते गीतप्रियाराधिते गीतोल्लासिनि गीयमानचरिते गीर्नाथसंसेविते । गीष्पद्मावरदे गिरीन्द्रनिलये गीर्वाणवृन्दाञ्चिते गीते गीतमनोहरे गिरिसुते वन्देऽखिलाण्डेश्वरि ॥ २०॥ गुप्ते गुप्ततरे गुहेशवरदे गुच्छोज्ज्वलन्मल्लिके गुह्याचारगते गुरुस्तनभरे गुच्छार्धहारोज्ज्वले । गुल्फस्थे गुणमन्दिरे गुरुवरे गुल्फोल्लसन्नूपुरे गूढार्थान्तगते गुरूत्तमनुते वन्देऽखिलाण्डेश्वरि । २१ घण्टाघोरनिनादघातितमहादैत्ये घनश्यामले घर्माघर्ममयूखवह्निनयने घर्मप्रशान्तिप्रदे । घोराघोरविघोषदानवगणप्रोद्घुष्टघोरारवे घोराघौघनिवारणे घननिभे वन्देऽखिलाण्डेश्वरि ॥ २२॥ चातुर्वर्ग्यफलप्रदे सुचरिते चामुण्डिरूपोत्तरे चक्राधिष्ठितपादपद्मचतुरे चन्द्रानने चण्डिके । चन्द्रोपेन्द्रचराचरात्मकजगद्रूपे चलत्कुण्डले चञ्चल्लोचनवञ्चितेश्वरशिवे वन्देऽखिलाण्डेश्वरि ॥ २३॥ छिद्रघ्नस्मितचन्द्रिकाधवलिते छायेश्वरद्योतिते छन्दान्दोलितभूषणाङ्कितगले छन्दश्रियालङ्कृते । छायाधीश धनञ्जयेन्दुनयने छन्नान्धकारारुणे छन्दोवृन्दमहस्सुकान्तिनिलये वन्देऽखिलाण्डेश्वरि ॥ २४॥ जम्बूमूलनिधे जनार्दननुते जम्भारिसम्भाविते जम्बूद्वीपमनोज्ञकल्पलतिके जह्न्वात्मजाशेखरे । जन्मव्याधिजरापहे जलमये जाम्बूनदालङ्कृते जम्बूनाथमनोहरे जननुते वन्देऽखिलाण्डेश्वरि ॥ २५॥ झञ्झावाततरङ्गितप्रविमल श्रीनिर्झराप्लाविते झङ्कारीकृतषट्पदालकभरे झाटित्यबुद्धिप्रदे । झर्झारारवभूषणे झलझलन्मञ्जीरपादाम्बुजे झल्लीमद्दलझर्झरस्वननुते वन्देऽखिलाण्डेश्वरि ॥ २६॥ ज्ञानानन्दमहासमुद्रतरणे ज्ञानात्मरूपापरे ज्ञानज्ञेयमये त्वदङ्घ्रिभजतां ज्ञानप्रदेऽज्ञानिनाम् । ज्ञानाज्ञानमयस्वरूपिणि शिवज्ञानप्रकाशप्रदे ज्ञातिक्षेत्रकलत्रधान्यधनदे वन्देऽखिलाण्डेश्वरि ॥ २७॥ टक्काद्यायुधभूषणोज्ज्वलकरे ठावेक्ष्यमानानने डिम्भाहुङ्कृतढङ्कृतासुरशरे डोलाडिढेशस्मिते । डिम्भाकारतया सुपालितजने ढक्कारवोद्घोषिते ढण्ढण्डेति झटिक्वणादिमहिते वन्देऽखिलाण्डेश्वरि ॥ २८॥ तत्त्वार्थप्रतिपाद्यमानचरणे तत्त्वत्रयोद्दीपिके तत्त्वातीतपदे तपोधननुते तारेशचूडामणे । तारुण्यामृतसिन्धुमध्यलतिके तार्क्ष्यध्वजाराधिते तापिच्छस्तबकद्युते तनुलते वन्देऽखिलाण्डेश्वरि ॥ २९॥ स्थाणुप्रेमनिधे स्थितीशमहिते स्थैर्यस्थिते स्थापिके स्थानास्थानकृतार्थदेहिनिवहस्थित्यन्तसर्गोद्यते । स्थानाधिक्यमनोहरे स्थिरतरस्थाण्वन्तरालाश्रये स्थूलागोचरदर्शने स्थितिमये वन्देऽखिलाण्डेश्वरि ॥ ३०॥ दाक्षाचारवरप्रदे दमयुते दक्षे दयाङ्कूरिते दान्ते द्रष्टृमनोहरद्विजवरे दन्तावलाराधिते । दानादानविदानचोदनपरे दातृस्वरूपापरे दैन्याध्यात्मिकतापहारिचरणे वन्देऽखिलाण्डेश्वरि ॥ ३१॥ दिव्यज्ञानमये दिवाकरनिभे दिव्याम्बरालङ्कृते दिव्यस्त्रीजनसेविते द्विजमये दीक्षाप्रदानोद्यते । दीप्ते दीप्तशशाङ्कवह्निनयने दीनादिमुक्तिप्रदे दिक्पालादिदिगम्बरार्चितपदे वन्देऽखिलाण्डेश्वरि ॥ ३२॥ दुर्भिक्षादिसमस्तदुःखहरणे दुःशीलतापापहे दुर्गाद्यावृतिदेवतार्चितपदे दूर्वाङ्कुरश्यामले । दुर्लक्ष्यागमचित्तदूरचरिते दुर्गादिवस्यापरे दुर्वासादिमुनीश्वरस्तुतिपदे वन्देऽखिलाण्डेश्वरि ॥ ३३॥ धर्मिष्ठे धरणीधरेन्द्रतनये धाराधरोद्यत्प्रभे धम्मिल्लाञ्चितमल्लिकादिकुसुमे धर्मादिसंसेविते । धर्माद्यर्थचतुष्टयस्थितिपदेधामत्रयाराधिते धन्ये धार्मिकचित्तनित्यनिलये वन्देऽखिलाण्डेश्वरि ॥ ३४॥ नानारत्नविभूषणे नवघनश्यामे नटेशप्रिये नक्षत्रेशधरे नगेन्द्रनिलये नागारिवाहानुजे । नानादेववृते नरोत्तमनुते नाथे नृमुक्तिप्रदे नाकौकोगणनम्यमानचरणे वन्देऽखिलाण्डेश्वरि ॥ ३५॥ नीहाराचलकन्यके निगमगे नित्यात्मिके निर्मले निःशेषाण्डसुमातृके निशिचराराध्ये निशीशाङ्कि(ञ्चि)ते । नीपारण्यनिवासनित्यरसिके निर्निद्रपद्मेक्षणे निःशोकाकृतिके निरञ्जनपदे वन्देऽखिलाण्डेश्वरि ॥ ३६॥ पद्मे पद्मनिभानने परतरे पद्मार्चिताङ्घ्रिद्वये पद्मस्ते परदानवारिविनुते पद्मासनाराधिते । पद्मास्ये परलोकसाधनपरे पञ्चाक्षरालङ्कृते पक्षापक्षविवर्जिते परशिवे वन्देऽखिलाण्डेश्वरि ॥ ३७॥ फुल्लाम्भोजदलेक्षणेन्दुविकृतालीकाभिरामानने फूत्काराहिफणाधरेन्द्ररमणीनृत्तान्तरालस्थिते । स्फायत्पण्डितसूक्तिमर्मविभवे स्फाटिक्यतेजोमय- स्फूर्जत्कान्तिमये फणीन्द्रवरदे वन्देऽखिलाण्डेश्वरि ॥ ३८॥ बालेऽबालपराक्रमे बहुविधे बालप्रवालाधरे बालादित्यसमप्रभे बहुनुते बालेन्दुभूषोज्ज्वले । बन्धुकारुणविग्रहे बहुविधब्रह्माण्डभाण्डोदरि ब्रह्मागस्त्यसुरेन्द्रवन्दितपदे वन्देऽखिलाण्डेश्वरि ॥ ३९॥ भावातीतपदप्रवर्तितगुणे भाषे भवाराधिते भावाद्ये भवरोगभञ्जनकरे भद्रे भयच्छेदिनि । भव्ये भाग्यवदुत्तमेड्यचरणे भागीरथीशान्विते भास्वच्चन्द्रविलोचनार्चितपदे वन्देऽखिलाण्डेश्वरि ॥ ४०॥ माये मन्मथसेविते मरकतश्यामे मनोज्ञामले मायामोहविवर्जिते मणिमयाकल्पे महामञ्जुले । मायातीतमहामुनीद्रवरदे माणिक्यकेयूरके मालालङ्करणे मतङ्गतनये वन्देऽखिलाण्डेश्वरि ॥ ४१॥ मित्राग्नीन्दुविलोचने मिहिरभे मीनोल्लसल्लोचने मिथ्याज्ञानमनोऽतिदूरचरणे मीनध्वजाराधिते । मीमांसादि समस्त शास्त्रमहिते मृष्टान्नदानोद्यमे मित्रोद्भासिनि मित्रवह्निविनुते वन्देऽखिलाण्डेश्वरि ॥ ४२॥ मुग्धे मुग्धशशाङ्कशेखरयुते मूलागमार्थोदये मुक्ते मूषिकवाहनार्चितपदे मूर्तित्रयाराधिते । मलाधारगते मुखाब्जविलसन्मुग्धस्मिते मुक्तिदे मुद्रामोदितमानसे मुनिनुते वन्देऽखिलाण्डेश्वरि ॥ ४३॥ यज्ञे यज्ञफलप्रदे यमनुते यक्षेश्वराराधिते यक्ष्मघ्ने यमसूदनप्रियतमे यज्ञेशसम्पूजिते । यन्त्रस्थे यतिपूजिते यतिकृतश्रीचक्रभूषोज्ज्वले यक्षिण्यादिसमस्तशक्तिविनुते वन्देऽखिलाण्डेश्वरि ॥ ४४॥ रामे रामवरप्रदे रसकले राजीवपत्रार्चिते राकाचन्द्रनिभे रमार्चितपदे राजाधिराजानते । रम्ये राजतशैलश‍ृङ्गनिलये रत्याप्तपत्या नुते रागद्वेषविहीनचित्तसुलभे वन्देऽखिलाण्डेश्वरि ॥ ४५॥ लावण्याम्बुनिधे ललाटनयने लम्बोदराराधिते लाक्षारञ्जितपादपद्मयुगले लम्बालकोद्भासिते । लङ्केशारिनुते लयोद्भवकरे लक्ष्मीपतीड्यप्रिये लक्ष्यालक्ष्यमनोज्ञमध्यलतिके वन्देऽखिलाण्डेश्वरि ॥ ४६॥ वाच्ये (वामे) वारिजलोचनार्चितपदे वाग्देवताऽऽराधिते वामाद्ये वरशैलराजतनये वामादिशक्त्यात्मिके । वश्याकर्षणसिद्धिमूलगुलिके वादित्रनादप्रिये वाणीवल्लभवज्रपाणिवरदे वन्देऽखिलाण्डेश्वरि ॥ ४७॥ शान्ते शङ्करवल्लभे शशियुते शातोदरि श्यामले शङ्काहीनविशोकदे शतमखाराध्ये शशाङ्कानने । शक्ते शक्तिधरार्चिते शमधनाधीशार्चिते शारदे शैवाद्यागमपारगे शमधने वन्देऽखिलाण्डेश्वरि ॥ ४८॥ षट्चक्रान्तगते षडक्षरमये षट्त्रिंशतत्त्वात्मिके षट्पद्मान्तपुरे षडानननुते षट्कोणसम्भाविते । षड्वक्त्रद्विपवक्त्ररामवरदे षड्ग्रन्थिवन्द्यात्मिके षट्शक्तिप्रभवात्मनः प्रियतमे वन्देऽखिलाण्डेश्वरि ॥ ४९॥ सर्वाभीष्टफलप्रदे सुमतिभिः संसेविते सात्त्विकैः सर्वालङ्करणे सदाशिवमये सम्पत्करे साक्षिणि । सादिस्थे सरसीरुहाक्षियुगले सङ्घट्टवक्षोरुहे साक्षात्कारिणि सर्वलोकवरदे वन्देऽखिलाण्डेश्वरि ॥ ५०॥ हाहाकाररवैस्त्रिभिः स्तुतपदे हाराभिरामेऽसमे हंसोल्लासितरम्यविश्वविभवे हम्बीजमूलाङ्कुरे । हस्थे हस्तिवनालये हरिहरब्रह्मेन्द्रवन्द्येश्वरि हंसातीतपदे हकारचरिते वन्देऽखिलाण्डेश्वरि ॥ ५१॥ ळम्बीजे लकुळे लतामृदुतनो ळङ्कारसम्पूजिते ळम्बीजेन सुलक्षितेड्यविभवे क्लीङ्काररूपान्विते । ळान्ते हन्त गरे जवात्समुदिते त्रस्तान्सुरान्वीक्ष्य तत् ळान्ते के विनियच्छदीशमहिळे वन्देऽखिलाण्डेश्वरि ॥ ५२॥ क्षोणीशाग्र्यपदैकलक्षणविधिक्षेपप्रमाणेक्षणे क्षिप्रादक्षिणकुक्षिशिक्षणमनःक्षेत्रज्ञसंरक्षिणि । त्र्यक्षालक्ष्यतितिक्षुदक्षदमनक्षान्तान्तसंवीक्षणे क्षन्तव्यं क्षितिभृत्सुते स्तुतिवचः क्षुद्रं मदीयं शिवे ॥ ५३॥ इति गिरिवरपुत्रीपादराजीवभूषा भुवनममलयन्ती सूक्तिसौरभ्यसारैः । शिवपदमकरन्दस्यन्दिनी मन्निदाना मदयतु कविभृङ्गान्मातृकापुष्पम् ॥ ५४॥ इति अखिलाण्डेश्वरीपुष्पमालास्तोत्रं सम्पूर्णम् । अक्षरमालिका Encoded and proofread by PSA Easwaran
% Text title            : Akhilandeshvari Pushpamala Stotram
% File name             : akhilANDeshvarIpuShpamAlA.itx
% itxtitle              : akhilANDeshvarI puShpamAlAstotram athavA akSharamAlikA
% engtitle              : akhilANDeshvarI puShpamAlA stotram akSharamAlikA
% Category              : devii
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Description/comments  : Matrika pushpam
% Indexextra            : (Meanings 1, 2, Videos)
% Latest update         : April 3, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org