अम्बानवरत्नमालिका १
श्रीमत्त्रिपुराम्बिकायै नमः ।
श्रितजनशिशिरापाङ्गी शिववामाङ्गी शिरीषमृदुलाङ्गी ।
सङ्गीतसरसभङ्गी मुदितकुरङ्गी करोतु मयि करुणाम् ॥ १॥
बालां सुरुचिरफालां मुकुरकपोलां विचित्रतरचैलाम् ।
लीलाहताघजालां सुललितमालां नमामि शिवलोलाम् ॥ २॥
अम्बा सुगुणकदम्बा पुलिननितम्बा शिरोजलोलम्बा ।
बिम्बाधरा मृगाक्षी हिमरुचिबिम्बानना हि मामवतात् ॥ ३॥
कालीमसुरकरालीं करधृतखड्गाशुलूनरिपुमौलिम् ।
धूलीकृतदितिजालीं दुरितोद्धूलीकृते श्रितोऽस्म्यनिशम् ॥ ४॥
भद्रां सुजनसुभद्राममृतसमुद्रान्तरीपकृतभद्राम् ।
मुद्रां नताभयकरीं दधतीं रुद्राङ्गनामहं वन्दे ॥ ५॥
ललिता श्रितजनफलितामरतरुतुलिता भजत्कृपाकलिता ।
वलितापाङ्गनिपातैः कलयतु कल्याणसन्ततिं मयि ताम् ॥ ६॥
विद्या तटिदिव हृद्या नखरुचिविद्योतितात्मजनवेद्या ।
वेद्यागमैश्चिदाद्या सुभृशमविद्यां लुनातु ममसद्यः ॥ ७॥
वाणीं किसलयपाणीं पृथुलश्रोणीं नतामरश्रेणीम् ।
वाणीजितकलवाणीं भुजगसुवेणीं नमामि शुकपाणीम् ॥ ८॥
मायां सुरुचिरकायां सुगुणनिकायां सुरासुरोद्गेयाम् ।
ध्येयां योगिभिरनिशं जगदभिधेयां नमामि शिवजायाम् ॥ ९॥
नवरत्नमालिकाख्यामेतामार्यामुदारसविशेषाम् ।
गुरुराजसुकृतिरचितां दयया साङ्गीकरोतु निजहृदये ॥ १०॥
इति अम्बानवरत्नमालिका (१) सम्पूर्णा ।
श्रीमद्भिरण्णयाचार्यैः विरचिता
Encoded and proofread by Sandhya Kunnatur