अम्बानवरत्नमालिका २
श्रीमत्त्रिपुराम्बिकायै नमः ।
नित्यचिदानन्दमयीं निरुपमगुणकलितललितलावण्याम् ।
निखिलनिलिम्पवरेण्यां नित्यशरण्यां नमामि भुवनेशीम् ॥ १॥
पापविनाशननिरतां पावनचरितां परावरैर्विनुताम् ।
परमदयारसभरितां परशिवदयितां नमामि भुवनेशीम् ॥ २॥
अनुभूतिमात्रसारामखिलोदारामपारगम्भीराम् ।
अमृतपयोधिविहारामरुणाकारां नमामि भुवनेशीम् ॥ ३॥
पुण्यैकसमधिगम्यां पुरुतरनिजमहिमलब्धपारम्याम् ।
पूजकसन्ततिसौम्यां पुरहरसाम्यां नमामि भुवनेशीम् ॥ ४॥
बन्धूककुसुमरक्तां भक्तजनोद्धरणबहुविधासक्ताम् ।
भवहृदयसानुरक्तां बहुगुणयुक्तां नमामि भुवनेशीम् ॥ ५॥
निगमलसत्परमार्थां निजजनततिविहितपरमपुरुषार्थाम् ।
निःश्रेयसैकसार्थां निखिलसमर्थां नमामि भुवनेशीम् ॥ ६॥
अमरावनैकदीक्षामसुरविपक्षामसाधुकृतशिक्षाम् ।
अध्वरधिक्कृतदक्षामक्षालक्षां नमामि भुवनेशीम् ॥ ७॥
राजीवचपलनयनां मौक्तिकराजीव विशदशुभरदनाम् ।
राजीवविजयिवदनां राज्यनिधानां नमामि भुवनेशीम् ॥ ८॥
पीनोत्तुङ्गसुवृत्तस्तनयुगजितमदनकुम्भिकुम्भयुगाम् ।
शुम्भादिदम्भशमनीं शम्भुमनोज्ञां नमामि भुवनेशीम् ॥ ९॥
नवरत्नमालिकाख्यामेतामार्यामुदारसविशेषाम् ।
गुरुराजसुकृतिरचितां दयया साङ्गीकरोतु निजहृदये ॥ १०॥
इति अम्बानवरत्नमालिका (२) सम्पूर्णा ।
श्रीमद्भिरण्णयाचार्यैः विरचिता
Encoded and proofread by Sandhya Kunnatur