अम्बान्नपूर्णास्तुतिपञ्चकम्
अम्बान्नपूर्णे जगदम्बिके शिवे
दुर्गेभवानी शिवप्राण वल्लभे ।
अनाथनाथेनिजभृत्यवत्सले
माम्पाहि नित्यं पतितं त्वदाश्रये ॥ १॥
हे दुर्गहन्त्रीजनदुःखनाशिनी
मामुद्धराशु चरणौ प्रदाय हि ।
भुक्तिञ्चमुक्तिञ्चददातुनः शिवे
पादाब्जरेणुं शिरसिनिधेहिवः ॥ २॥
शिवस्य वामाङ्गमलङ्कृताङ्गी
त्वमन्नपूर्णा शुभदायिनीञ्च ।
शम्भो सदा प्राणसमप्रियात्वं
मनन्यभावां प्रणमामि नित्यम् ॥ ३॥
मातान्नपूर्णे जनमन्नदात्रीं
सुरासुरैसर्वजनैः सुपूजिताम् ।
भिक्षान्नदत्त्वा त्रिजगत् सुपालिनीं
अम्बान्नपूर्णे प्रणमामिनित्यम् ॥ ४॥
शिवस्य त्वं नित्य सुसेविकाऽसि
सदाशिवः सर्वजनायमुक्तिः ।
ददाति शाश्वत् मरणेन काश्यां
जीवान्त्वमन्नं प्रददासिनित्यम् ॥ ५॥
अम्बान्नपूर्णे प्रणमामि नित्यम् ॥
इति श्री स्वामी उमेश्वरानन्दतीर्थविरचितं
अम्बान्नपूर्णास्तुतिपञ्चकं सम्पूर्णम् ।
Proofread by Paresh Panditrao