अम्बास्तोत्रम्
ॐ श्रीगणेशाय नमः ।
अम्ब प्रसीद वरदा भवदुःखहन्त्री
कामान्ममाशु परिपूरय कामधेनो ।
अद्यैव मे रिपुगणा विलयं प्रयान्तु
वीर्यं जयं च विपुलं च यशः प्रदेहि ॥ १॥
अम्ब प्रसीद महतीं श्रियमत्र लोके
सर्वातिगां वितरतादितरानपेक्षम् ।
सम्पत्करीं सुखकरीं भवतीमुपास्ते
यस्तस्य दुर्लभमिह त्रिदिवेऽपि नास्ति ॥ २॥
अम्ब प्रसीद शतकोटिधरादिदेव-
सम्भाविताङ्घ्रियुगळे सकलेष्टदात्रि ।
यस्मिन्प्रसीदति नाग्भवती भवानी
धन्यः स एव जगतां च स एव सेव्यः ॥ ३॥
अम्ब प्रसीद सकृदम्बुजनाभवक्षः-
क्रीडागृहे कमलवासिसमाप्तम्नि हेमवर्णे ।
सम्पत्तिकल्पलतिके त्वदपाङ्गरेखां
ब्रह्मादयोऽपि परिगृह्य भवन्ति धन्याः ॥ ४॥
इति अम्बास्तोत्रं सम्पूर्णम् ।
Entered by Sivakumar Thyagarajan
Proofread by Sivakumar Thyagarajan, PSA Easwaran