श्रीअम्बिकाष्टकम्
व्यालोलालम्बमानप्रवणरणझत्किङ्किणीक्वाणरम्यं
ध्वस्तध्वान्तं समन्तान्मणिकिरणगणाडम्बरोल्लासितेन ।
देवी दिव्यांशुकानां ध्वजपटपटलैः शोभमानं विमानं
लीलारूढा भ्रमन्ती भुवनकृतनतिः पातु मामम्बिका सा ॥ १॥
या देवी दिव्यदामाञ्चितचिकुरभरामोदमुग्धालिमाला-
भास्वन्माणिक्यमालामिलदमलमहोमण्डलीमण्डिताङ्गा ।
सन्मुक्तातारहारैर्गगनतलगतास्तारकास्तर्जयन्ती
वज्रालङ्कारभासा हसितरविकरा पातु मामम्बिका सा ॥ २॥
या कौबेरं विहाय स्वपतिपरिभवात्साधुदानप्ररूढात्
स्थानं श्रान्तातिमार्गे श्रमशमनकृते संश्रिता चूतवृक्षम् ।
क्षुत्क्षामौ वीक्ष्य पुत्रौ कृतसुकृतवशात्प्रार्थयन्ती फलानि
क्षिप्रं संप्राप तानि स्वचरितमुदिता पातु मामम्बिका सा ॥ ३॥
देवी याऽत्रोपविष्टा सरणिगतपतिं वीक्ष्य कम्पं दधाना
स्मृत्वा श्री रैवताद्रिं व्यवसितमरणा साधधर्मं स्मरन्ती ।
आरुह्योत्तुङ्गशृङ्गं प्रपतनविधिना दिव्यदेवत्वमाप्ता
जैनेन्द्रे पादपीठे सततनतशिराः पातु मामम्बिका सा ॥ ४॥
या पश्चात्तापतप्तं गतमदमदनं दुष्कृतं स्वं स्मरन्ती
दंष्ट्रास्यं पिङ्गनेत्रं खरनखरकरं केसरालीकरालम् ।
पुच्छाच्छोटप्रकम्पावनिवलयतलं दिव्यसिंह स्वकान्तं
संरूढा याति नित्यं जिनपतिनिलये पातु मामम्बिका सा ॥ ५॥
सान्द्राम्नालुम्बिहस्ता तरलहरिगता बालकाभ्यामुपेता
ध्याता या सिद्धकामैर्विघटितडमरा साधकेर्भक्तियुक्तः ।
रक्ता रागानुरक्तैः स्फटिकमणिनिभा क्लेशविध्वंसधीभिः
पीता वश्यानुभावैविंहितजनहिता पातु मामम्बिका सा ॥ ६॥
देवी विधाधरेन्द्रासुरसुरमनुजैर्वन्द्यपादारविन्दा
प्रत्यूहान्निक्षिपन्ती क्षपितकलिमला विभ्रती विश्वरक्षाम् ।
जैनेन्द्रं शासनं या प्रकटयति महोत्साहशक्त्या स्वभक्त्या
नित्यं नाम्ना नराणां विशदशिवफला पातु मामम्बिका सा ॥ ७॥
एवं वृत्ताष्टकेन स्तुतिमुखरमुखः संस्तुतिं यः करोति
ध्यानाधीनान्तरात्मा प्रशममुपगतो नित्यमेकाग्रचित्तः ।
प्रातर्मध्ये निशायां शयनतलगतो यत्र कुत्रापि संस्थो
देवी तस्य प्रकामं प्रकटयति पटु प्रौढमम्बा प्रसादम् ॥ ८॥
इति श्रीअम्बिकाष्टकं सम्पूर्णम् ।
Proofread by DPD