हनुमत्प्रोक्ता अम्बिकास्तुतिः
देवीस्तोत्रम्रात्रिसूक्तात्मकम् -
अथ कुम्भात् समुत्थाय हनुमान् मारुतात्मजः ।
आर्यां कात्यायनीं भक्त्या तुष्टावेष्टफलप्रदाम् ॥ १॥
नमामि खड्गहस्तां त्वां खेटहस्तां भयानकाम् ।
वरदाभयहस्तां च भृत्यलोकभयापहाम् ।
शूलहस्तां शङ्खचक्रगदाचापेषुधारिणीम् ॥ २॥
चतुर्भुजामष्टभुजां द्विभुजामरिमर्दिनीम् ।
अष्टादशभुजां नौमि दुर्गां दशभुजामपि ॥ ३॥
सहस्रबाहुचरणां सहस्रमुखलोचनम् ।
सहस्रमकुटाटोपां नौमि विश्वमुखीमुमाम् ॥ ४॥
पद्मयोनिमुखाब्जस्थां विष्णुवक्षःस्थलस्थिताम् ।
हरवामाङ्गनिलयां वन्दे मूर्तित्रयात्मिकाम् ॥ ५॥
इन्द्रादिसर्वदेवानां सूर्यादिज्योतिषामपि ।
या शक्तिर्दृश्यते चित्रा विष्णुमाया नमामि ताम् ॥ ६॥
आर्भट्या(? ) वीक्षणैश्चोग्रैः कुलानसुरविद्विषाम् ।
या निर्दहति रक्ताक्षी तां वन्दे सिंहवाहिनीम् ॥ ७॥
मधुहन्त्रीं कैटभघ्नीं महिषासुरमर्दिनीम् ।
नौमि दुर्गां भगवतीं हन्त्रीं शुम्भनिशुम्भयोः ॥ ८॥
इति देवीस्तोत्रम्रात्रिसूक्तात्मकं स्तोत्रम् ।
अथ अम्बिका स्तुतिः ।
अम्ब प्रसीद वरदे भवदुःखहन्त्रि
कामान् ममाशु परिपूरय कामधेनो ।
अद्यैव मे रिपुगणा विलयं प्रयान्तु
वीर्यं जयं च विपुलं च यशः प्रदेहि ॥ १॥
अम्ब प्रसीद महतीं श्रियमत्र लोके
सर्वातिगां वितरतादितरानपेक्षाम् ।
सम्पत्करीं सुखकरीं भवतीमुपास्ते
यस्तस्य दुर्लभमिह त्रिदिवेऽपि नास्ति ॥ २॥
अम्ब प्रसीद शतकोटिधरादिदेव-
सम्भाविताङ्घ्रियुगले सकलेष्टदात्रि ।
यस्मिन् प्रसीदति मनाग् भवती भवानि
धन्यः स एव जगतां च स एव सेव्यः ॥ ३॥
अम्ब प्रसीद सकृदम्बुजनाभवक्षः-
क्रीडागृहे कमलवासिनि हेमवर्णे ।
सम्पत्तिकल्पलतिके त्वदपाङ्गलेशान्
ब्रह्मादयोऽपि परिगृह्य भवन्ति धन्याः ॥ ४॥
अम्ब प्रसीद शशिखण्डविभूषणाङ्क-
भागस्थिते भवनिहन्त्रि मनोन्मनि त्वम् ।
या भासि विश्वविलयस्थितिसृष्टिकर्त्री
विश्वम्भरा त्रिमहदादिविचित्ररूपा ॥ ५॥
अम्ब प्रसीद चतुराननवक्त्रपद्म-
राजीविहारपरिशीलनराजहंसि ।
दृष्टस्त्वया सदयमत्र भवे स मर्त्यो
मूकोऽपि पण्डिततमः स जडोऽपि धीरः ॥ ६॥
अम्ब प्रसीद शतमन्युमुखामरात्म-
शक्ते त्वदङ्घ्रिचरणस्य गृहाङ्गणेषु ।
खेलन्ति सुन्दरदृशो विचरन्ति विप्राः
सीदन्ति भूमिपतयोऽवसरप्रतीक्षाः ॥ ७॥
अम्ब प्रसीद चतुरङ्गचलावलेप-
दूरीकृतारिनिवहो भवति प्रसादात् ।
दीनोऽप्यनन्यसुलभान् सकलांश्च कामान्
लब्ध्वा चिरं विजयते हि सपुत्रदारः ॥ ८॥
अम्ब प्रसीद सहसा मयि पक्षपातात्
कष्टां दशां मम निरीक्ष्य परानपोह्याम् ।
नो चेद् गतिर्जगति नास्ति निरस्तखेदैः
संसेव्यमानचरणाम्बुरुहे मुनीन्द्रैः ॥ ९॥
अम्ब प्रसीद झटिति त्वमुपेक्षसे किं
वत्सस्य वाग्विलसनश्रवणाकुला चेत् ।
उत्सङ्गसङ्गिनि शिशौ वचनप्रतीक्षा
स्तन्यं निपीय मुदिते हि सुखाय मातुः ॥ १०॥
अम्ब प्रसीद दयया त्वरितं भवानि
जानासि चेहृदयशल्यमिहाविषह्यन् ।
नो चेत् कथं नु भवती जगतां शरण्या
भूयाच्चिराय भवतापपरिश्रिता नाम् ॥ ११॥
अम्ब प्रसीद जय शत्रुगणानिमांस्त्व-
मद्यैव देवि परिवर्धय कौतुकं मे ।
कोऽयं विलम्ब इव सा क्व गता दया ते
दीनावनव्रतमिदं च नु किं समाप्तम् ॥ १२॥
अम्ब प्रसीद यदि भृत्यविधेयतायाः
साक्षाद्भवानि भवती भवतीह लक्ष्यम् ।
कारुण्यपात्रमिममाकलयत्वजस्रं
धन्यं विधातुमखिलस्य जनस्य मान्यम् ॥ १३॥
अम्ब प्रसीद नियतं क्रियतां भवत्या
देवारिवर्गवनपावकतां दधत्या ।
अस्य प्रसादविवशस्य मनःप्रसादः
सर्वात्मना यद्गतिर्यदनन्यनाथः ॥ १४॥
अम्ब प्रसीद तदनुग्रहसत्वरेण
चित्तेन विग्रहवतेव दयाभरेण ।
आलक्ष्य माममृतशीतलया च दृष्ट्या
क्षिप्रं विधेहि परिलम्बितभूरिभाग्यम् ॥ १५॥
अम्ब प्रसीद किमनेन विलम्बितेन
कार्या त्वरात्र निविलम्ब्यमुपेक्षसे हि (? ) ।
यद्भागधेयमिह मे सुरलोभनीयं
सर्वात्मना गिरिसुते त्वदघीनमेव ॥ १६॥
अम्ब प्रसीद परमेण समाधिना मा -
मेकान्तभक्तिमवधार्य च चण्डिके त्वम् ।
सौभाग्यसम्पदभिपूरमहालवाल-
मुद्वेलवेलपरमं कृधि भूरिभाग्यम् ॥ १७॥
इति स्तुवति मारुतौ निहतचण्डमुण्डासुरा
सुरासुरनरोरगाद्यखिललोकधात्री शिवा ।
महामहिषमर्दिनी समवलम्ब्य दिव्यं वपुः
पुरः समभवत् तदा पुरुषमात्रसाम्राज्यदा ॥ १॥
अथाह सुप्रसन्ना सा काली कालाम्बुदप्रभा ।
हनूमन्तमुदन्वन्तं तर्जयन्तीव गर्जितैः ॥ २॥
हनूमन् स्वागतं तेऽस्तु सुप्रसन्नास्मि साम्प्रतम् ।
तवाभ्यागमनं सौम्य चिरायाकाङ्क्षितं मया ॥ ३॥
तव स्तोत्रेण तुष्टास्मि विशेषादिष्टदायिना ।
स्तोत्रप्रिया स्तुतिमयी स्तुवतामिष्टसिद्धिदा ॥ ४॥
प्रीत्या त्वया कृतमिदं स्तोत्रं पठति यो नरः ।
सर्वार्थसम्पदस्तस्य सिध्यन्ति मदनुग्रहात् ॥ ५॥
स्तोत्रमेतत् पठेद्यस्तु तस्याहं नित्यदर्शनम् ।
करोमि सन्निधौ सत्यं तथाहं तव सुव्रत ॥ ६॥
यः पठेदर्थवदिदं तस्य श्रीरचला भवेत् ।
वंशेऽपि वरदाया मे प्रसादाद्यावदस्ति भूः ॥ ७॥
नित्यमावर्तयेद्यस्तु स्तुतिमेतां पुरो मम ।
बन्धुभिः सह सङ्गम्य राजते स भवानिव ॥ ८॥
पठन्नेतन्महास्तोत्रं भक्तिमान् मयि मानवः ।
सबन्धुः ससुहृल्लोके सर्वत्र विजयी भवेत् ॥ ९॥
यः स्तोत्रमेतत् प्रजपेत् सकृद्वासकृदेव वा ।
यं यं चिन्तयते कामं तं तं प्राप्नोत्यसंशयः ॥ १०॥
राघवस्य प्रसादेन सर्वसिद्धिमतस्तव ।
मया न देयं किमपि तथापीष्टं ददामि ते ॥ ११॥
इति श्रीहनुमद्विरचिता अम्बिकास्तुतिः समाप्ता ।
Proofread by Sivakumar Thyagarajan Iyer