आनन्दसागरस्तवः
विज्ञापनार्ह-विरलावसरानवाप्त्या
मन्दोद्यमे मयि दवीयसि विश्वमातुः ।
अव्याजभूत-करुणा-पवनापविद्धा-
न्यन्तः स्मराम्यहमपाङ्ग-तरङ्गितानि ॥ १॥
आवेद्यतामविदितं किमथाप्यनुक्तं
वक्तव्यमान्तर-रुजोपशमाय नालम् ।
इत्यर्थ्यसे किमपि तच्छ्रवणे निधातुं
मातः प्रसीद मलयध्वज-पाण्ड्यकन्ये ॥ २॥
आक्रन्दितं रुदितमाहतमानने वा
कस्यार्द्रमस्तु हृदयं किमतः फलं वा ।
यस्या मनो द्रवति या जगतां स्वतन्त्रा
तस्यास्तवाम्ब पुरतः कथयामि खेदम् ॥ ३॥
पर्याकुले मनसि वाचि परिस्खलन्त्या-
मावर्तगर्त इव चक्षुषि घूर्णमाने ।
कस्तेऽभिधास्यति शिवे मम तामवस्थां
काले दयस्व कथयामि तवाधुनैव ॥ ४॥
भक्तिं करोतु नितरां सुरजातिमात्रे
ग्रामीणजन्तुरिव पौरजनेषु लोकः ।
अन्यत्र देवि भवदीय-पदारविन्दा-
दाकृष्यमाणमपि मे हृदयं न याति ॥ ५॥
अङ्गीकुरु त्वमवधीरय वा वयं तु
दासास्तवेति वचसैव जयेम लोकान् ।
एतावतैव सुकरो ननु विश्वमात-
रुद्दण्डदण्डधर-किङ्करमौलिभङ्गः ॥ ६॥
वेदान्तवाक्य-जनितं विमलं विचारै-
रासाद्य बोधमनुचिन्तनतोऽपरोक्षम् ।
मुक्तिं व्रजन्ति मनुजा इति सूक्तिमाद्या-
मालम्ब्य कस्तरितुमर्हति शैलकन्ये ॥ ७॥
एकैक-वेदविषयाः कति नामशाखा-
स्तासां शिरांसि कति नाम पृथग्विधानि ।
अर्थावबोध-विधुरोऽक्षरलाभ एव
केषां नृणां कतिभिरस्तु शरीरबन्धैः ॥ ८॥
न्यायाः परस्पर-विभिन्नदिशः सहस्र-
मुच्चावचानि च भवन्त्युपबृंहणानि ।
एवं स्थिते गिरिसुते निगमोपलानां
तात्पर्य-सारमवधारयितुं क्षमः कः ॥ ९॥
अस्त्वक्षरग्रह-विधिर्जनुषां सहस्रै-
रापाततो भवतु नाम ततोऽर्थबोधः ।
दुर्वादिकल्पित-विकल्प-तरङ्गसान्द्रान्
दुष्पूर्वपक्ष-जलधीन् कथमुत्तरेयुः ॥ १०॥
ब्रह्मेति शक्तिरिति बन्धविमोचनीति
मायामयीति मदनान्तक-वल्लभेति ।
सप्ताष्टशब्द-परिवर्तनमात्र एव
सामर्थ्यमावहति शास्त्रपरिश्रमोऽयम् ॥ ११॥
तस्मै प्रसीदसि गिरीन्द्रसुते य इत्थं
सम्पादयेत शनकैरपरोक्षबोधम् ।
यस्मै प्रसीदसि स च क्षमतेऽवबोद्धु-
मित्थं परस्पर-समाश्रयमेतदास्ते ॥ १२॥
आकर्णय त्वमिममभ्युपगम्य वादं
जानातु कोऽपि यदि वा हृदयं श्रुतीनाम् ।
तस्याप्यसङ्ख्य-भवबन्धशतार्जितोऽयं
द्वैतभ्रमो गलतु जन्मशतैः कियद्भिः ॥ १३॥
काले महत्यनवधावपतन्कदापि
क्वाप्यन्तिमे जनुषि कोऽपि गतिं लभेत ।
इत्थं समर्थनविधिः परमागमानां
पर्यायसूक्तिविधया नयनं नञर्थे ॥ १४॥
एकापवर्गसमये जगतोऽपवर्गः
सर्वापवर्गसमये पुनरस्तशङ्कः ।
ईदृग्विधं कमपि पक्षमिहावलम्ब्य
स्थातुं सुखं क्षममनेन पथा प्रवृत्तैः ॥ १५॥
अभ्यस्य वेदमवधार्य च पूर्वतन्त्र-
मालक्ष्य शिष्टचरितानि पृथग्विधानि ।
अध्यापनादिभिरवाप्य धनं च भूरि
कर्माणि मातरलसाः कथमाचरेयुः ॥ १६॥
आयस्य तावदपि कर्म करोतु कश्चि-
त्तेनापि मातरधिकं किमिवानुभाव्यम् ।
आस्ते सुखं य इह भारतवर्षसीम-
न्यास्ते स किञ्चिदित उत्तरतोऽपसृत्य ॥ १७॥
कर्म त्यजेम यदि नूनमधः पतेम
यद्याचरेम न कदापि भवं तरेम ।
कर्म त्यजेदिति चरेदिति च प्रवृत्ताः
भावेन केन निगमा इति न प्रतीमः ॥ १८॥
कर्मण्यकर्म-विधिरेष यदाचरन्ति
कर्माणि तत्तदनुबन्ध-जिहासयेति ।
सत्यं तथाप्यभिनवो भविता न बन्धः
प्राचीनबन्धहरणे क इवाभ्युपायः ॥ १९॥
प्रारब्धकर्म कियदारभते कियद्वा
प्रारप्स्यते कियदिदं क इवावधत्ताम् ।
कालः कियानिव मया प्रतिपालनीयो
यस्य क्षणार्धमपि कल्पशतत्वमेति ॥ २०॥
पुंसः क्षणार्धमपि संसरणाक्षमस्य
साङ्ख्यादयः सरणयो न विशन्ति कर्णम् ।
सङ्ख्याय गाङ्गसिकताः सकलाश्च सूक्ष्मा
भुङ्क्ष्वेति वागिव महाक्षुधयार्दितस्य ॥ २१॥
भक्तिस्तु का यदि भवेद्रतिभावभेद-
स्तत्केवलान्वयितया विफलैव भक्तिः ।
प्रीतिस्त्वयि त्रिजगदात्मनि कस्य नास्ति
स्वात्मद्रुहो न खलु सन्ति जनास्त्रिलोक्याम् ॥ २२॥
आत्मा समस्तजगतां भवतीति सम्य-
ग्विज्ञाय यद्वितनुते त्वयि भावबन्धम् ।
सा भक्तिरित्यभिमतं यदि सिद्धमिष्टं
व्यर्थं विशेष्यमलमस्तु विशेषणं नः ॥ २३॥
स्वात्मेतरत्वमवधार्य परत्वबुद्ध्या
यत्प्रीयते गुरुजनेष्विव सैव भक्तिः ।
स्यादेतदेवमियमेव तु मे जिहास्या
द्वैतभ्रमात्किमधिकं भवबन्धमूलम् ॥ २४॥
सेवैव भक्तिरिति कर्मपथप्रवेशः
सेव्यप्रसादफलका किल कर्मसेवा ।
ध्यानप्रवाह इति चेच्छ्रवणात् तृतीयः
प्रागेव मातरयमाकलितोऽभ्युपायः ॥ २५॥
अत्रैव दास्यसि विमुक्तिमथापि याचे
मातः शरीरपतनं मणिकर्णिकायाम् ।
अस्तु स्वकृत्यमनुकम्पनमीश्वराणां
दासस्य कर्मकरतैव तथा स्वकृत्यम् ॥ २६॥
सद्यो भवेत्सुकृतिनामुपदेशलाभः
पापात्मनां बहुतिथे समये व्यतीते ।
इत्यादिभिः किल पुराणवचोभिरम्ब
वाराणसीमपि न याचितुमुत्सुकोऽस्मि ॥ २७॥
आक्रान्तमन्तररिभिः मदमत्सराद्यैः
गात्रं वलीपलित-रोगशतानुविद्धम् ।
दारैः सुतैश्च गृहमावृतमुत्तमर्णैः
मातः कथं भवतु मे मनसः प्रसादः ॥ २८॥
धन्याः कति त्रिभुवने परमोपभाग्यं
संसारमेव परमेश्वरि भावयन्तः ।
आभासरूपमवबोधमिमं समेत्य
क्लिश्ये कियत्कियदहं त्वमुना भवेन ॥ २९॥
का संस्कृतिः किमपचार-निबन्धनेयं
कीदृग्विधस्य तव किं क्षतमेतयेति ।
प्रश्ने तु नास्मि कुशलः प्रतिवक्तुमेव
खेदस्तु मे जननि कोऽप्ययमेवमास्ते ॥ ३०॥
एवं गतस्य मम साम्प्रतमेतदर्ह-
मत्रेदमौपयिकमित्थमिदं च साध्यम् ।
अस्मिन्प्रमाणमिदमित्यपि बोद्धुमम्ब
शक्तिर्न मे भुवनसाक्षिणि किं करोमि ॥ ३१॥
न ज्ञायते मम हितं नितरामुपायो
दीनोऽस्मि देवि समयाचरणाक्षमोऽस्मि ।
तत्त्वामनन्यशरणः शरणं प्रपद्ये
मीनाक्षि विश्वजननीं जननीं ममैव ॥ ३२॥
किञ्चिन्मया श्रुतिषु किञ्चिदिवागमेषु
शास्त्रेषु किञ्चिदुपदेशपथेषु किञ्चित् ।
आघ्रातमस्ति यदतो भवतीं वरीतुं
गोप्त्रीति काचिदुदपद्यत बुद्धिरेषा ॥ ३३॥
ब्रह्मैवमेवमहमेष तदाप्त्युपाय
इत्यागमार्थ-विधुराः प्रथमे दयार्हाः ।
त्वद्रक्षकत्व-गुणमात्रविदो द्वितीया
इत्यर्थये सदधिकार-निरूपणाय ॥ ३४॥
मातः करोषि ममतां मयि यावदीष-
त्तावद्यते मम ततः किमिवास्ति साध्यम् ।
मामित्थमित्थमुपयुङ्क्ष्व न विस्मरेति
किं स्वामिनं त्वरयते क्वचन स्वभृत्यः ॥ ३५॥
त्याज्यं त्यजानि विहितं च समाचराणि
नित्येषु शक्तिमनुरुध्य हु वर्तितव्यम् ।
तद्बुद्धिशक्तिमनुरुध्य न कार्यशक्ति-
मित्येतदेव तु शिवे विनिवेदयामि ॥ ३६॥
आत्मैव भार इति तं त्वयि यो निधत्ते
सोऽङ्गानि कानि कलयत्वलसः प्रपत्तेः ।
विश्वस्य साक्षिणि विलक्षणलक्षणा या
विस्रम्भसम्पदियमेव समस्तमङ्गम् ॥ ३७॥
त्वत्प्रेरणेन मिषतः श्वसतोऽपि मातः
प्रामादिकेऽपि सति कर्मणि मे न दोषः ।
मात्रैव दत्तमशनं ग्रसतः सुतस्य
को नाम वक्ष्यति शिशोरतिभुक्तिदोषम् ॥ ३८॥
मुक्तिं सिषाधयिषतां निजयैव बुद्ध्या
प्रारब्धकर्म भवतु प्रतिबन्धहेतुः ।
त्वामेव साधनतयापि समाश्रितानां
तुल्यं तदम्ब यदि कस्तव वीरवादः ॥ ३९॥
प्रारब्धकर्म गिरिजे भवदाश्रिताना-
मन्यत्र सङ्क्रमय नाशय वा समूलम् ।
मर्त्याश्च खल्वपि विषं वपुषि प्रसक्तं
सङ्क्रामयन्ति परतोऽपि च नाशयन्ति ॥ ४०॥
त्वद्दर्शनश्रवण-वन्दनचिन्तनादि-
ष्वक्षाणि देवि विनियुज्य यथाधिकारम् ।
रक्षेत्यसङ्ख्य-भवसम्भृतयैव मैत्र्या
रुन्ध्यां यदि स्थिरममून्यधुनैव न स्युः ॥ ४१॥
त्रातव्य एष इति चेत्करुणा मयि स्या-
त्त्रायस्व किं सुकृतदुष्कृतचिन्तया मे ।
कर्तुं जगत्तिरयितुं च विशृङ्खलायाः
कर्मानुरोध इति कं प्रति वञ्चनेयम् ॥ ४२॥
त्वय्यर्पितं प्रथममप्पय-यज्वनैव
स्वात्मार्पणं विदधता स्वकुलं समस्तम् ।
का त्वं महेशि कुलदासमुपेक्षितुं मां
को वानुपासितुमहं कुलदेवतां त्वाम् ॥ ४३॥
मौढ्यादहं शरणयामि सुरान्तरं चे-
त्किं तावता स्वमपि तस्य भवामि मातः ।
अज्ञानतः परगृहं प्रविशन्परस्य
स्वत्वं प्रयास्यति पशुः किमु राजकीयः ॥ ४४॥
आधाय मूर्धनि वृथैव भरं महान्तं
मूर्खा निमज्जथ कथं भवसागरेऽस्मिन् ।
विन्यस्य भारमखिलं पदयोर्जनन्या
विस्रब्धमुत्तरत पल्वलतुल्यमेनम् ॥ ४५॥
क्वेदं पतिष्यति वपुः क्व ततो नु गम्यं
को दण्डयिष्यति कियन्तमनेहसं वा ।
किं तस्य सन्तरण-साधनमित्यनन्ता
चिन्ता स्थिता त्वयि शनैरवतारिता सा ॥ ४६॥
ज्ञानं दिशेयमुत तेन विनोद्धरेयं
प्रारब्धमप्यपलपेयमुतानुरुन्ध्याम् ।
इत्थं सकृत्प्रपदनैक-वशंवदाया
मातुर्मयि प्रववृते महतीह चिन्ता ॥ ४७॥
एतज्जडाजड-विवेचनमेतदेव
क्षित्यादितत्व-परिशोधनकौशलं च ।
ज्ञानं च शैवमिदमागम-कोटिलभ्यं
मातुर्यदङ्घ्रियुगले निहितो मयात्मा ॥ ४८॥
षट्त्रिंशदावरण-मध्यजुषि त्वदङ्घ्रौ
हालास्यनाथदयिते निहितो मयात्मा ।
भूभूतलत्रिदिववर्तिषु कः क्षमेत
तच्चक्षुषापि निभृतेन निरीक्षितुं माम् ॥ ४९॥
बन्धं हरिष्यसि सुखं वितरिष्यसीति
निश्चप्रचं निखिलमम्ब तदास्त एव ।
सम्प्रत्यहं त्वयि निधाय भरं समस्तं
यन्निर्वृणोमि किमितोऽपि ममापवर्गे ॥ ५०॥
काश्यां निपातय वपुः श्वपचालये वा
स्वर्गं नय त्वमपवर्गमधोगतिं वा ।
अद्यैव वा कुरु दयां पुनरायतौ वा
कः सम्भ्रमो मम धने धनिनः प्रमाणम् ॥ ५१॥
नाहं सहे तव कथाश्रवणान्तरायं
नाहं सहे तव पदार्चनविच्युतिं वा ।
मोक्षं दिशैतदविरुद्धमिदं न चेत्स्या -
न्नैवास्तु मातरपवर्गमहोपसर्गः ॥ ५२॥
आचूडमाचरणमम्ब तवानुवार-
मन्तःस्मरन्भुवनमङ्गलमङ्गमङ्गम् ।
आनन्दसागर-तरङ्गपरम्पराभि-
रान्दोलितो न गणयामि गतान्यहानि ॥ ५३॥
पाषाणतोऽपि कठिने शिरसि श्रुतीनां
प्रायः परिक्रमवशादिव पाटलाभम् ।
अम्ब स्मरेयममृतार्णव-माथलब्ध-
हैयङ्गवीन-सुकुमारमिदं पदं ते ॥ ५४॥
ये नाम सन्ति कतिचिद्गुरवस्त्रिलोक्यां
तेषामपि स्वयमुपेतवता गुरुत्वम् ।
पादेन मूर्ध्नि विधृतेन वयं तवाम्ब
संसारसागरमिमं सुखमुत्तरामः ॥ ५५।
साधारणे स्मरजये निटिलाक्षिसाध्ये
भागी शिवो भजतु नाम यशः समग्रम् ।
वामाङ्घ्रि-मात्रकलिते जननि त्वदीये
का वा प्रसक्तिरपि कालजये पुरारेः ॥ ५६॥
स्यात्कोमलं यदि मनो मम विश्वमात-
स्तत्पादयोर्मृदुलयोस्तव पादुकाऽस्तु ।
स्यात्कर्कशं यदि करग्रहणे पुरारे-
रश्माधिरोहणविधौ भवतूपयोगः ॥ ५७॥
प्रस्निग्धमुग्ध-रुचिपादतले भवत्या
लग्नं दृढं यदिह मे हृदयारविन्दम् ।
एषैव साग्रभुवन-द्विशतीपतित्व-
साम्राज्य-सूचनकरी तव पद्मरेखा ॥ ५८॥
अप्राकृतीं मृदुलतामविचिन्त्य किञ्चि-
दालम्बितासि पदयोः सुदृढं मया यत् ।
तन्मे भवार्णव-निमज्जन-कातरस्य
मातः क्षमस्व मधुरेश्वरि बालकृत्यम् ॥ ५९॥
यत्रानमन्पशुपतिः प्रणयापराधे
मन्दं किल स्पृशति चन्द्रकलाञ्चलेन ।
पुष्पार्चनेऽपि मृदितं पदयोर्युगं त-
न्मातस्तुदन्ति न कथं परुषा गिरो मे ॥ ६०॥
अव्याज-सुन्दरमनुत्तरमप्रमेय-
मप्राकृतं परममङ्गलमङ्घ्रिपद्मम् ।
सन्दर्शयेदपि सकृद्भवती दयार्द्रा
द्रष्टास्मि केन तदहं तु विलोचनेन ॥ ६१॥
दिव्या दृशोऽपि दिविषद्ग्रहणोचितानि
वस्तूनि काममवधारयितुं क्षमन्ते ।
त्वन्मात्रवेद्यविभवे तव रूपधेये
त्वद्भाव एव शरणं परिशेषितो नः ॥ ६२॥
अस्मिन्महत्यनवधौ किल कालचक्रे
धन्यास्तु ये कतिपये शुकयोगिमुख्याः ।
लीनास्त्वदङ्घ्रियुगले परिशुद्धसत्वा-
स्तानात्मनस्तव नखानवधारयामः ॥ ६३॥
आ शैशवान्ममतया कलितस्त्वयासा-
वानृण्यमम्ब तव लब्धुमना मृगाङ्कः ।
स्वात्मानमेव नियतं बहुधा विभज्य
त्वत्पादयोर्विनिदधे नखरापदेशात् ॥ ६४॥
नान्तः प्रवेशमयते किमपि श्रुतं मे
नास्तिक्यवाद-शिलया प्रतिरुध्यमानम् ।
तत्पातयाम्यहमिमां महतीमधस्ता-
त्पादोदकेन कियता परदेवतायाः ॥ ६५॥
सन्नाहिभिः यमभटैः परिवार्यमाणे
मय्यर्भके करुणया स्वयमापतन्त्याः ।
आकर्णयेयमपि नाम विरामकाले
मातस्तवाङ्घ्रि-मणिनूपुरशिञ्जितानि ॥ ६६॥
ब्रह्मेशकेशव-मुखैर्बहुभिः कुमारैः
पर्यायतः परिगृहीत-विमुक्तदेशम् ।
उत्सङ्गमम्ब तव दास्यसि मे कदा त्वं
मातृप्रियं किल जडं सुतमामनन्ति ॥ ६७॥
ऊरौ शिरस्तव निवेश्य दयावितीर्ण-
संव्यानपल्लव-समीरविनीतखेदम् ।
अत्रैव जन्मनि विभोः परमोपदेश-
माकर्णयेयमपि किं मणिकर्णिकायाम् ॥ ६८॥
काञ्चीगुणग्रथित-काञ्चनचेलदृश्य-
चण्डातकांशुक-विभापरभागशोभि ।
पर्यङ्कमण्डल-परिष्करणं पुरारे-
र्ध्यायामि ते विपुलमम्ब नितम्बबिम्बम् ॥ ६९॥
गर्भे निवेश्य भुवनानि चतुर्दशापि
संरक्षितुं कलितनिश्चितया भवत्या ।
प्राकारमेव रचितं परितोऽपि नून-
मूहे सुवर्णमय-मेदुरपट्टबन्धम् ॥ ७०॥
मुक्ताश्च खल्वपि यदि त्रिपुरे भवत्याः
स्तन्याशया स्तनतटं न परित्यजन्ति ।
अस्माकमुद्भट-भवज्वरतापिताना-
मार्द्रीभवन् तु वदनानि कुतो न हेतोः ॥ ७१॥
नष्टोपलब्धमधिगत्य शिशुं चिरान्मां
वात्सल्यविद्रुतहृदः परदेवतायाः ।
क्लिद्यत्पयोधर-विनिःसृतदुग्धबिन्दु-
निष्यन्दपङ्क्तिरिव दीव्यति हारयष्टिः ॥ ७२॥
यत्तद्धनुर्जन-मनोमयमैक्षवं ते
तस्यास्तु देवि हृदयं मम मूलदेशः ।
चापाधिरोपणविधौ चरणाञ्चलेन
सम्भाव्यते किल समाक्रमणं कदाचित् ॥ ७३॥
आस्थाय दारुणतरं कमपि स्वभाव-
मत्यन्तदुष्कृत-कृतामपि शिक्षणाय ।
गृह्णासि सायकपदे कुसुमान्यमूनि
मातः सुतेषु महती किल रूक्षतेयम् ॥ ७४॥
पाशं सृणिं च करयोस्तव भावयन्तः
संस्तम्भयन्ति वशयन्ति च सर्वलोकान् ।
चापं शरं च सकृदम्ब तव स्मरन्तो
भूपालतां दधति भोगपथावतीर्णाः ॥ ७५॥
पाशाङ्कुशौ तव करे परिचिन्त्य राग-
द्वेषौ जयन्ति परमार्थविदस्तु धन्याः ।
एकत्र चापमितरत्र शरं च मत्वा
व्यावर्तयन्ति हृदयं विषयान्धकूपात् ॥ ७६॥
उत्क्रान्तमान्तरमिदं करणं जनाना-
मप्येति चन्द्रमिति हि श्रुतयो वदन्ति ।
आस्तामिदं मम तु देवि मनोऽधुनैव
लीनं दृढं वदनचन्द्रमसि त्वदीये ॥ ७७॥
विद्यात्मनो जननि तावकदन्तपङ्क्ते-
र्वैमल्यमीदृगिति वर्णयितुं क्षमः कः ।
तत्सम्भवा यदमला वचसां सवित्री
तन्मूलकं कवियशोऽपि ततस्तरां यत् ॥ ७८॥
स्वच्छापि ते वहति यत्किल दन्तपङ्क्तिः
स्वच्छन्द-निर्दलित-दाडिम-बीजशोभाम् ।
तन्मे रजोव्यतिकराधिक-पाटलिम्नि
चित्ते परं परिचयादिति चिन्तयामि ॥ ७९॥
अर्धं जितत्रिपुरमम्ब तव स्मितं चे-
दर्धान्तरेण च तथा भवितव्यमेव ।
तच्चिन्तये जननि कारणसूक्ष्मरूप-
स्थूलात्मक-त्रिपुरशान्तिकृते स्मितं ते ॥ ८०॥
मत्क्लेशदर्शन-परिद्रवदन्तरङ्ग-
हैयङ्गवीन-परिवाहनिभं जनन्याः ।
अन्तस्तमोपहमनुस्मरतां जनानां
मन्दस्मितं भुवनमङ्गलमस्तु भूत्यै ॥ ८१॥
सांसिद्धिकानन-सरोरुहदिव्यगन्ध-
सान्द्रीकृतेन्दु-शकलाकलिताधिवासम् ।
ताम्बूलसारमखिलागम-बोधसारं
मातर्विधेहि मम वक्त्र-कलाचिकायाम् ॥ ८२॥
नासामणिस्तव शिवे चिरसंस्तवेन
प्रत्याहृते मनसि भाति तपोधनानाम् ।
अज्ञानसन्तति-निशात्ययसूचनार्थं
आविर्भवन्त्यसुर-देशिकतारकेव ॥ ८३॥
ताम्बूलगर्भ-परिफुल्लकपोललक्ष्य-
ताटङ्कमौक्तिक-मणिप्रतिबिम्बदम्भात् ।
अस्तद्वय-व्यतिकरामल-सत्वमाद्यं
वर्णं बिभर्ति जठरे तव वक्त्रबिम्बम् ॥ ८४॥
दत्ते श्रियं बहुविधां कुशलानि दत्ते
दत्ते पदं सुरपतेरपि लीलयैव ।
ईदृग्विधाम्ब तव दृष्टिरितोऽधिका वा
नाद्यापि कर्णमतिवर्तितुमीश्वरीयम् ॥ ८५॥
पाषाणकूटकठिने जनदुर्विगाहे
व्यर्थं महत्युपनिषद्विपिने प्रवृत्ता ।
सेव्येत केन तव लोचनचन्द्रिकेय-
मेनां निपातय सकृन्मयि तप्यमाने ॥ ८६॥
कामं शिवेन शमितं पुनरुज्जगार
दृष्टिस्तवेति किमियं जननि स्तुतिस्ते ।
लीलाप्रसूत-पुरुषार्थ-चतुष्टयाया-
स्तस्याः परं तु स भवत्यवयुत्यवादः ॥ ८७॥
सोमो जगज्जनयितेति यदाह वेदो
नेदं लतापरमिति भ्रमितव्यमार्यैः ।
यः शैववामतनुवर्ति-भवद्दृगात्मा
चन्द्रो जगत्सृजति तत्पर एष वादः ॥ ८८॥
सूच्यग्रवद्वसुमतीमणुवच्च मेरुं
दृष्टिर्यदम्ब तव पश्यति दानशौण्डा ।
दृष्टास्त्वया वयमपीह ततः स्मरामो
वेशन्तमेव भवसागरमुत्तरङ्गम् ॥ ८९॥
वाणीनिकेतनतया घनसारगौराः
कल्हारकेसररुचः कमलानुषङ्गात् ।
मातर्जयन्ति शरणागतलोकचेतो-
मालिन्यमार्जन-वशादसिताः कटाक्षाः ॥ ९०॥
आकर्णमुल्लसति मातरपाङ्गदेशे
कालाञ्जनेन घटिता तव भाति रेखा ।
शैवाल-पङ्क्तिरिव सन्ततनिर्जिहान-
कारुण्यपूर-पदवीकलितानुबन्धा ॥ ९१॥
विश्वं सृजत्यवति हन्ति च यः कटाक्षो
विश्वस्यतां कथमसौ चपलस्वभावः ।
एषोऽपि यामनुसरँल्लभते यशांसि
तामेव विश्वसिमि देवि तवानुकम्पाम् ॥ ९२॥
अर्धं कलङ्करहिता करुणैव शम्भो-
रर्धं गुणास्तदितरे सकलाः समेताः ।
इत्यम्ब सम्प्रति किल स्फुरितं रहस्यं
सम्पश्यतो मम भवन्मयमैशमर्धम् ॥ ९३॥
अम्ब भ्रुवोस्तव विचेष्टितमप्रमत्तं
सम्पश्यतां निजनिजार्थ-निदेशहेतोः ।
तन्मूलदेशनिहिता निभृता सुराणां
दृष्टिः प्रयाति मृगनाभि-विशेषकत्वम् ॥ ९४॥
सारं कणं कणमघर्मरुचां सहस्रा-
त्सङ्गृह्य निर्मितमिदं तव वक्त्रबिम्बम् ।
तावत्सुधाकर-कलङ्ककुलानि पश्चा-
देकत्र देवि निहितानि कचापदेशात् ॥ ९५॥ (पश्चादन्यत्र)
विन्यस्तमिन्द्रमणि-कन्दलसुन्दरेषु
केशेषु ते स्फटिकनिर्मलमिन्दुखण्डम् ।
आधारसङ्गति-वशादसितायमान-
मिन्दीवरच्छद-वतंसदशां बिभर्ति ॥ ९६॥
चिन्तामणिस्त्रिभुवनेश्वरि कौस्तुभश्च
ख्यातौ मणी तव गृहाङ्गणकुट्टिमस्थौ ।
किं रत्नमन्यदुपलभ्य किरीटकोटिं
वाचस्पति-प्रभृतयस्तव वर्णयन्तु ॥ ९७॥
प्रादुर्भवत्तरणि-बिम्बशतारुणानि
पर्याप्त-शीतकिरणायुत-शीतलानि ।
शृङ्गारसार-परिवाहमयानि मात-
रङ्गानि केऽपि चरमे जनुषि स्मरन्ति ॥ ९८॥
प्रत्यग्रकुङ्कुम-रसाकलिताङ्गरागं
प्रत्यङ्गदत्तमणि-भूषणजालरम्यम् ।
ताम्बूलपूरितमुखं तरुणेन्दुचूडं
सर्वारुणं किमपि वस्तु ममाविरस्तु ॥ ९९॥
अर्धं स्त्रियस्त्रिभुवने सचराचरेऽस्मि-
न्नर्धं पुमांस इति दर्शयितुं भवत्या ।
स्त्रीपुंसलक्षणमिदं वपुरादृतं य-
त्तेनासि देवि विदिता त्रिजगच्छरीरा ॥ १००॥
निर्मासि संहरसि निर्वहसि त्रिलोकीं
वृत्तान्तमेतमपि वेत्ति न वा महेशः ।
तस्येश्वरस्य गिरिजे तव साहचर्या-
ज्जातः श्रुतिष्वपि जगज्जनकत्ववादः ॥ १०१॥
सत्तास्यखण्डसुख-संविदसि त्रिलोकी-
सर्गस्थिति-प्रतिहतिष्वपि निर्व्यपेक्षा ।
त्वामन्तरेण शिव इत्यवशिष्यते कि-
मर्धं शिवस्य भवतीत्यनभिज्ञवादः ॥ १०२॥
नास्मिन्-रविस्तपति नात्र विवाति वातो
नास्य प्रवृत्तिमपि वेद जगत्समस्तम् ।
अन्तःपुरं तदिदमीदृशमन्तकारे-
रस्मादृशास्तु सुखमत्र चरन्ति बालाः ॥ १०३॥
त्वत्सन्निधानरहितो मम मास्तु देश-
स्त्वत्तत्त्वबोधरहिता मम मास्तु विद्या ।
त्वत्पादभक्तिरहितो मम मास्तु वंश-
स्त्वच्चिन्तया विरहितं मम मास्तु चायुः ॥ १०४॥
त्वं देवि यादृगसि तादृगसि त्वमीदृ-
गेवेति वक्तुमपि बोद्धुमपि क्षमः कः ।
मामेव तावदविदन्नतिपामरोऽहं
मातः स्तुतिं त्वयि समर्पयितुं विलज्जे ॥ १०५॥
काचित्कृता कृतिरिति त्वयि साऽर्पितेति
कापि प्रमोदकणिका न ममान्तरङ्गे ।
मौढ्यं मदीयमिह यद्विदितं ममैव
किं त्वम्ब विश्वसिमि दीनशरण्यतां ते ॥ १०६॥
कालानपास्य विषुवायन-सङ्क्रमादी-
नस्तङ्गते हिमकरे च दिवाकरे च ।
अम्ब स्मरेयमपि ते चरणारविन्द-
मानन्द-लक्षणमपास्त-समस्तभेदम् ॥ १०७॥
चतुरध्यायीरूपं कलहंस-व्यञ्जनं जगन्मातुः ।
अपरब्रह्ममयं वपुरन्तः शशिखण्ड-मण्डनमुपासे ॥ १०८॥
॥ इति श्री नीलकण्ठदीक्षितविरचितः श्रीआनन्दसागरस्तवः सम्पूर्णः ॥
Encoded by Sunder Hattangadi
Proofread by Sunder Hattangadi and Rajani Arjun Shankar