अनिमादि स्तुतिः
(अथ श्रीकालीविलासतन्त्रे चतुस्त्रिंशत्पटलः ।)
शिव उवाच ।
अकारादिक्षकारान्तं चन्द्रबिन्दुसमन्वितम् ।
प्रजपेदनुलोमेन विलोमेन मनुं ततः ॥ १॥
इष्टमन्त्रं ततो जप्त्वा अक्षरादीन् जपेत्ततः ।
तदा पूतो भवेन्मन्त्रः शापादिदोषसंयुतः ॥ २॥
अणि मे कामिनि मातः नमस्तुभ्यं नमोनमः ।
कोमुदित्वणिमे नित्यं ज्योत्स्ना रूपिणि ते नमः ॥ ३॥
शशिवक्त्रे नमस्तुभ्यं सुलोचनि नमोनमः ।
विरूपाक्षि नमस्तुभ्यं विशालाक्षि नमोनमः ॥ ४॥
अणि मे वैष्णवितुभ्यं मोनाक्षि चाणि मे नमः ।
नमस्ते नर्त्तकि देवि ! वित्यरूपे नमोनमः ॥ ५॥
अनिमे निर्मलेतुभ्यं सिञ्जिनिते नमोनमः ।
ज्योतिर्मयि नमस्तुभ्यं घोररूपिणि ते नमः ॥ ६॥
सद्योजातमुखादेषस्तवराजो विनिर्गतः ।
श्रीवामदेव उवाच ।
चन्द्रिके लधिमे तुभ्यं नमस्तुभ्यं नमोनमः ॥ ७॥
शङ्खहस्तेनमस्तुभ्यं चन्द्रास्येते नमोनमः ।
हरिणाक्षि नमस्तुभ्यं नमस्तुभ्यं नमोनमः ॥ ८॥
सुलोचने नमस्तुभ्यं शङ्खिनिते नमोनमः ।
शङ्खहस्ते प्राप्तिसिद्धे चक्रहस्ते नमोनमः ॥ ९॥
हे चक्रिणि नमस्तुभ्यं विद्यारूपिणि ते नमः ।
विद्योप प्राप्तिसिद्ध्यर्थं नमस्तुभ्यं नमोनमः ॥ १०॥
वामदेव मुखादेषस्तवराजो विनिर्गतः ।
श्रीअघोर उवाच ।
बाणि तेन नमस्तुभत्र काम्यसिद्धिस्वरूपिणि ॥ ११॥
प्रकाम्य विमले तुभ्यं पिशालाक्षे नमोनमः ।
हे विशाले नमस्तुभ्यं विषमे च नमोनमः ॥ १२॥
अघोरमुखसम्मुक्तः स्तवराजः प्रकीर्त्तितः ।
श्रीईशान उवाच ।
नमस्ते महिमे शोभे स्वरूपे ते नमोनमः ॥ १३॥
सुन्दरि महिमे तुभ्यं गन्धवाहे नमोनमः ।
गन्धिनि मर्हिमे तुभत्र नमस्तुभत्र नमोनमः ॥ १४॥
गगणेच नमस्तुभत्र गानरूपिनिते नमः ॥ १५॥
रुद्ररूपि नमस्तुभ्यं ईश्वरि त्वां नमाम्यहम् ।
श्रीतामस उवाच ।
पिनाकिनि नमस्तुभ्यं वशित्वा सिद्धिरूपिणि ॥ १६॥
शङ्कररूपिणि तुभ्यं हररूपिणि ते नमः ।
कल्याणि हे नमस्तुभ्यं हररूपिणि ते नमः ॥ १७॥
मङ्गले हे नमस्तुभ्यं नमस्ते सिद्धिरूपिणि ।
नमस्ते मङ्गले नित्ये कोणविंशतिसंयुते ॥ १८॥
कामावसायिते कीर्ते नमस्तुभ्य नमोनमः ।
मनोरूपि नमस्तुभ्यं नमस्तुभ्यं नमोनमः ॥ १८॥
बुद्ध मातर्नमस्तुभ्यं विलक्षणि नमोनमः ।
नानारूपमयितुभ्यं नमस्तुभ्यं नमोनमः ॥ २०॥
य इदं पठतिस्तोत्रं त्रिसन्ध्यं शिवसन्निधौ ।
सहसा मन्त्रसिद्धिः स्यात् लक्षावर्त्तनमात्रतः ॥ २१॥
एतत् स्तोत्रं महेशानि कलिकाले पठेत् सुधीः ।
एतत् स्तोत्रं विना देवि ! अन्यस्तोत्रं पठेत्तुयः ॥ २२॥
सर्वं तस्य भवेत् व्यर्थं क्षिप्तस्य वचनं यथा ।
एतत् स्तोत्र पठित्वादौ ततोऽन्यकवचं पठेत् ॥ २३॥
पठित्वा सिद्धिमाप्नोति न च मे वचनं मृषा ।
विनावोजपरिज्ञान कवचाध्ययनं वृथा ॥ २४॥
वर्णस्तवम विज्ञाय स्तवमन्यं वृथा भवेत् ।
वर्णतत्त्व मविज्ञाय पुराणं प्रपठेत्तु यः ॥ २५॥
सॠण सर्व देवानां भूत्वा याति परत्र च ।
ऋणी भूत्वा स पापिष्ठो भेक योनिषु जायते ॥ २६॥
ब्रह्मदिनमभिव्याप्य भेको भवति निश्चितम् ।
दिनान्ते तु महेशानि नाना योनी प्रजायते ॥ २७॥
सभ्रष्टः स च पापिष्ठो न पुनर्मानुषो भवेत् ।
श्रीगणेश उवाच ।
पार्वत्या निकटे स्थित्वा यत् श्रुतं शिव वक्तृतः ॥ २८॥
तदद्यकथितं सर्वं कालीविलाससम्मतम् ।
रहस्यं सर्ववीजानां वर्णानां मुनिपुङ्गव ॥ २८॥
दिवारात्रपरिज्ञान प्रथमं प्रहरं तथा ।
विना यत् क्रियते विप्र सर्वं विधिविरम्बनम् ॥ ३०॥
अष्टाङ्ग योगविज्ञानं भक्त्या ते परिकीर्त्तितम् ।
न योगेन विना मन्त्रो मन्त्रेण विफलो हि सः ॥ ३१॥
द्वयोरभ्यासमात्रेण मन्त्रसिद्धिः प्रजायते ।
विनात्वेकतराभ्यासं मन्त्रसिद्धिर्नजायते ॥ ३२॥
इति अनिमादि स्तुतिः समाप्ता ।
इति श्रीकालोविलामतन्त्रे चतुस्विंशत्तमः पटलः समाप्तः ।
Proofread by Rajesh Thyagarajan