श्रीअन्नपूर्णाष्टोत्तरशतनामावली
॥ श्रीगणेशाय नमः ॥
ॐ अन्नपूर्णायै नमः ।
ॐ शिवायै नमः ।
ॐ देव्यै नमः ।
ॐ भीमायै नमः ।
ॐ पुष्ट्यै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ पार्वत्यै नमः ।
ॐ दुर्गायै नमः ।
ॐ शर्वाण्यै नमः ॥ १०॥
ॐ शिववल्लभायै नमः ।
ॐ वेदवेद्यायै नमः ।
ॐ महाविद्यायै नमः ।
ॐ विद्यादात्रै नमः ।
ॐ विशारदायै नमः ।
ॐ कुमार्यै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ बालायै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ श्रियै नमः ॥ २०॥
ॐ भयहारिणै नमः ।
ॐ भवान्यै नमः ।
ॐ विष्णुजनन्यै नमः ।
ॐ ब्रह्मादिजनन्यै नमः ।
ॐ गणेशजनन्यै नमः ।
ॐ शक्त्यै नमः ।
ॐ कुमारजनन्यै नमः ।
ॐ शुभायै नमः ।
ॐ भोगप्रदायै नमः ।
ॐ भगवत्यै नमः ॥ ३०॥
ॐ भक्ताभीष्टप्रदायिन्यै नमः ।
ॐ भवरोगहरायै नमः ।
ॐ भव्यायै नमः ।
ॐ शुभ्रायै नमः ।
ॐ परममङ्गलायै नमः ।
ॐ भवान्यै नमः ।
ॐ चञ्चलायै नमः ।
ॐ गौर्यै नमः ।
ॐ चारुचन्द्रकलाधरायै नमः ।
ॐ विशालाक्ष्यै नमः ॥ ४०॥
ॐ विश्वमात्रे नमः ।
ॐ विश्ववन्द्यायै नमः ।
ॐ विलासिन्यै नमः ।
ॐ आर्यायै नमः ।
ॐ कल्याणनिलायायै नमः ।
ॐ रुद्राण्यै नमः ।
ॐ कमलासनायै नमः ।
ॐ शुभप्रदायै नमः ।
ॐ शुभावर्तायै नमः ।
ॐ वृत्तपीनपयोधरायै नमः ॥ ५०॥
ॐ अम्बायै नमः ।
ॐ संहारमथन्यै नमः ।
ॐ मृडान्यै नमः ।
ॐ सर्वमङ्गलायै नमः ।
ॐ विष्णुसंसेवितायै नमः ।
ॐ सिद्धायै नमः ।
ॐ ब्रह्माण्यै नमः ।
ॐ सुरसेवितायै नमः ।
ॐ परमानन्ददायै नमः ।
ॐ शान्त्यै नमः ॥ ६०॥
ॐ परमानन्दरूपिण्यै नमः ।
ॐ परमानन्दजनन्यै नमः ।
ॐ परायै नमः ।
ॐ आनन्दप्रदायिन्यै नमः ।
ॐ परोपकारनिरतायै नमः ।
ॐ परमायै नमः ।
ॐ भक्तवत्सलायै नमः ।
ॐ पूर्णचन्द्राभवदनायै नमः ।
ॐ पूर्णचन्द्रनिभांशुकायै नमः ।
ॐ शुभलक्षणसम्पन्नायै नमः ॥ ७०॥
ॐ शुभानन्दगुणार्णवायै नमः ।
ॐ शुभसौभाग्यनिलयायै नमः ।
ॐ शुभदायै नमः ।
ॐ रतिप्रियायै नमः ।
ॐ चण्डिकायै नमः ।
ॐ चण्डमथन्यै नमः ।
ॐ चण्डदर्पनिवारिण्यै नमः ।
ॐ मार्ताण्डनयनायै नमः ।
ॐ साध्व्यै नमः ।
ॐ चन्द्राग्निनयनायै नमः ॥ ८०॥
ॐ सत्यै नमः ।
ॐ पुण्डरीकहरायै नमः ।
ॐ पूर्णायै नमः ।
ॐ पुण्यदायै नमः ।
ॐ पुण्यरूपिण्यै नमः ।
ॐ मायातीतायै नमः ।
ॐ श्रेष्ठमायायै नमः ।
ॐ श्रेष्ठधर्मायै नमः ।
ॐ आत्मवन्दितायै नमः ।
ॐ असृष्ट्यै नमः ॥ ९०॥
ॐ सङ्गरहितायै नमः ।
ॐ सृष्टिहेतवे नमः ।
ॐ कपर्दिन्यै नमः ।
ॐ वृषारूढायै नमः ।
ॐ शूलहस्तायै नमः ।
ॐ स्थितिसंहारकारिण्यै नमः ।
ॐ मन्दस्मितायै नमः ।
ॐ स्कन्दमात्रे नमः ।
ॐ शुद्धचित्तायै नमः ।
ॐ मुनिस्तुतायै नमः ॥ १००॥
ॐ महाभगवत्यै नमः ।
ॐ दक्षायै नमः ।
ॐ दक्षाध्वरविनाशिन्यै नमः ।
ॐ सर्वार्थदात्र्यै नमः ।
ॐ सावित्र्यै नमः ।
ॐ सदाशिवकुटुम्बिन्यै नमः ।
ॐ नित्यसुन्दरसर्वाङ्ग्यै नमः ।
ॐ सच्चिदानन्दलक्षणायै नमः ।
॥ इति श्री अन्नपूर्णाष्टोत्तरशतनामावलिः सम्पूर्णम् ॥
Proofread by Ravin Bhalekar ravibhalekar at hotmail.com