अनुभूतसिद्धसारस्वतस्तवः

अनुभूतसिद्धसारस्वतस्तवः

कलमरालविहङ्गमवाहना सितदुकूलविभूषणलेपना । प्रणतभूमिरुहामृतसारिणी प्रवरदेहविभाभरधारिणी ॥ १॥ अमृतपूर्णकमण्डलुधारिणी त्रिदशदानवमानवसेविता । भगवती परमैव सरस्वती मम पुनातु सदा नयनाम्बुजम् ॥ २॥ जिनपतिप्रथिताखिलवाङ्मयी गणधराननमण्डपनर्तकी । गुरुमुखाम्बुजखेलनहंसिका विजयते जगति श्रुतदेवता ॥ ३॥ अमृतदीधितिबिम्बसमाननां त्रिजगतीजननिर्मितमाननाम् । नवरसामृतवीचिसरस्वतीं प्रमुदितः प्रणमामि सरस्वतीम् ॥ ४॥ विततकेतकपत्रविलोचने विहितसंसृतिदुःकृतमोचने । धवलपक्षविहङ्गमलाञ्छिते जय सरस्वति पूरितवाञ्छिते ॥ ५॥ भवदनुग्रहलेशतरङ्गितास्तदुचितं प्रवदन्ति विपश्चितः । नृपसभासु यतः कमलाबलाकुचकलाललनानि वितन्वते ॥ ६॥ गतधना अपि हि त्वदनुग्रहात् कलितकोमलवाक्यसुधोर्मयः । चकितबालकुरङ्गविलोचना जनमनांसि हरन्तितरां नराः ॥ ७॥ करसरोरुहखेलनचञ्चला तव विभाति वरा जपमालिका । श्रुतिपयोनिधिमध्यविकस्वरोज्ज्वलतरङ्गकलाग्रहसाग्रहा ॥ ८॥ द्विरदकेसरिमारिभुजङ्गमासहनतस्करराजिरुजां भयम् । तव गुणावलिगानतरङ्गिणां न भविनां भवति श्रुतदेवते ॥ ९॥ ॐ ह्रीं क्लीं ब्लीं(१) ततः श्रीं तदनु हसकल ह्रीमथो ऐं नमोऽन्ते लक्षं साक्षाज्जपन्(२) यः करसमविधिना सत्तपा ब्रह्मचारी । निर्यान्ती चन्द्रबिम्बात् कलयति मनसा त्वां जगच्चन्द्रिकाभां सोऽत्यर्थं वह्निकुण्डे विहितघृतहुतिः स्याद् दशांशेन(३) विद्वान् ॥ १०॥ रे रे लक्षणकाव्यनाटककथा(४) चम्पूसमालोकने- (५)क्वायासं वितनोषि(६) बालिश मुधा किं नम्रवक्त्राम्बुजः । भक्त्याराधय(७) मन्त्रराजसहसा येना(८)निशं भारतीं तेन(९) त्वं कवितावितानसविताद्वैतप्रबुद्धायसे ॥ ११॥ चञ्चच्चन्द्रमुखी प्रसिद्धमहिमा स्वाच्छन्द्य(१०)राज्यप्रदा- ऽनायासेन सुरासुरगणैरभ्यर्थिता(११) भक्तितः । देवी संस्तुतवैभवा मलयजालेपाङ्गरत्नद्युतिः सा मां पातु सरस्वती भगवती त्रैलोक्यसञ्जीविनी ॥ १२॥ स्तवनमेतदनेकगुणान्वितं पठति यो भाविकः प्रमनाः प्रगे । स सहसा मधुरैर्वचनामृतैर्नृपगणानपि रञ्जयति स्फुटम् ॥ १३॥ ॥ इत्यनुभूतसिद्धसारस्वतस्तवः परिपूर्णः ॥ Footnote १ ॐ ह्रीं श्रीं क्लीं ब्लूं इति पाठान्तरम् । २ ०जपेत् यः । ३ संसेवि विद्वान् । ४ तथा । ५ ०लोकनेष्वायासम् । ६ वितनोति । ७ ०राधन । ८ तेना०। ९ येन । १० स्यात् सद्यराज्य० । ११ ०रभ्यर्चिता । Proofread by Aruna Narayanan
% Text title            : anubhUtasiddhasArasvatastavaH
% File name             : anubhUtasiddhasArasvatastavaH.itx
% itxtitle              : anubhUtasiddhasArasvatastavaH
% engtitle              : Anubhuta Siddha Sarasvata Stavah
% Category              : devii, sarasvatI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Indexextra            : (Scan)
% Latest update         : July 5, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org