श्रीबालाध्यानम्
रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिनेत्राम् ।
विद्याक्षमालाभयदानहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥
पाशाङ्कुशौ पुस्तकमक्षसूत्रं करैर्दधाना सकलामरार्च्या ।
रक्ता त्रिनेत्रा शशिशेखरेयं ध्येयाऽखिलर्द्ध्यै त्रिपुराऽत्र बाला ॥
मातुलिङ्गपयोजन्महस्तां कनकसन्निभाम् ।
पद्मासनगतां बालां लक्ष्मीप्राप्त्यै विचिन्तये ॥
वरपीयूषकलशपुस्तकाभीतिधारिणीम् ।
सुधां स्रवन्तीं ज्ञानाप्त्यै ब्रह्मरन्ध्रे विचिन्तये ॥
शुक्लाम्बरां शशाङ्काभां रोगनाशे भजे शिवाम् ।
सृणिपाशधरां देवीं रत्नालङ्कारभूषिताम् ।
प्रसन्नामरुणां वन्दे वशीकरणसिद्धिदाम् ॥
वाग्बीजमूर्तिध्यानम् -
विद्याक्षमालाशुकपालमुद्राराजत्करां कुन्दसमानकान्तिम् ।
मुक्ताफलालङ्कृतिशोभिताङ्गीं बालां भजे वाङ्मयसिद्धिहेतोः ॥
कामबीजमूर्तिध्यानम् -
भजे कल्पवृक्षाध उद्दीप्तरत्नासने सन्निषण्णां मदाघूर्णिताक्षीम् ।
करैर्बीजपूरं कपालेषुचापं सपाशाङ्कुशं रक्तवर्णां दधानाम् ॥
शक्तिबीजमूर्तिध्यानम् -
व्याख्यानमुद्रामृतकुम्भविद्यामक्षस्रजं सन्दधतीं कराग्रैः ।
चिद्रूपिणीं शारदचन्द्रकान्तिं बालां भजे मौक्तिकभूषिताङ्गीम् ॥
इति श्रीबालाध्यानम् ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com