श्रीबालामानसपूजा
उद्यद्भानुसहस्रकान्तिमरुणक्षौमाम्बरालङ्कृतां
गन्धालिप्तपयोधरां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्दधतीं त्रिणेत्रविलसद्वक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमकुटां वन्देऽरविन्दस्थिताम् ॥ १॥
एणधराश्मकृतोन्नतधिष्ण्यं हेमविनिर्मितपादमनोज्ञम् ।
शोणशिलाफलकं च विशालं देवि सुखासनमद्य ददामि ॥ २॥
ईशमनोहररूपविलासे शीतलचन्दनकुङ्कुममिश्रम् ।
हृद्यसुवर्णघटे परिपूर्णं पाद्यमिदं त्रिपुरेशि गृहाण ॥ ३॥
लब्धभवत्करुणोऽहमिदानीं रक्तसुमाक्षतयुक्तमनर्घम् ।
रुक्मविनिर्मितपात्रविशेषेष्वर्ध्यमिदं त्रिपुरेशि गृहाण ॥ ४॥
ह्रीमिति मन्त्रजपेन सुगम्ये हेमलतोज्ज्वलदिव्यशरीरे ।
योगिमनःसमशीतजलेन ह्याचमनं त्रिपुरेऽद्य विधेहि ॥ ५॥
हस्तलसत्कटकादि सुभूषाः आदरतोऽम्ब वरोप्य निधाय ।
चन्दनवासितमन्त्रिततोयैः स्नानमयि त्रिपुरेशि विधेहि ॥ ६॥
सञ्चितमम्ब मया ह्यतिमूल्यं कुङ्कुमशोणमतीव मृदु त्वम् ।
शङ्करतुङ्गतराङ्कनिवासे वस्त्रयुगं त्रिपुरे परिधेहि ॥ ७॥
कन्दलदंशुकिरीटमनर्घं कङ्कणकुण्डलनूपुरहारम् ।
अङ्गदमङ्गुलिभूषणमम्ब स्वीकुरु देवि पुराधिनिवासे ॥ ८॥
हस्तलसद्वरभीतिहमुद्रे शस्ततरं मृगनाभिसमेतम् ।
सद्धनसारसुकुङ्कुममिश्रं चन्दनपङ्कमिदं च गृहाण ॥ ९॥
लब्धविकासकदम्बकजाती चम्पकपङ्कजकेतकयुक्तैः ।
पुष्यचयैर्मनसामुचितैस्त्वां अम्ब पुरेशि भवानि भजामि ॥ १०॥
ह्रीम्पदशोभिमहामनुरूपे धूरसि मन्त्रवरेण मनोज्ञम् ।
अष्टसुगन्धरजःकृतमाद्ये धूपमिमं त्रिपुरेशि ददामि ॥ ११॥
सन्तमसापहमुज्ज्वलपात्रे गव्यघृतैः परिवर्धितदेहम् ।
चम्पककुड्मलवृन्तसमानं दीपगणं त्रिपुरेऽद्य गृहाण ॥ १२॥
कल्पितमद्य धियाऽमृतकल्पं दुग्धसितायुतमन्नविशेषम् ।
माषविनिर्मितपूपसहस्रं स्वीकुरु देवि निवेदनमाद्ये ॥ १३॥
लङ्घितकेतकवर्णविशेषैः शोधितकोमलनागदलैश्च ।
मौक्तिकचूर्णयुतैः क्रमुकाद्यैः पूर्णतराम्ब पुरस्तव पात्री ॥ १४॥
ह्रीन्त्रयपूरितमन्त्रविशेषं पञ्चदशीमपि षोडशरूपम् ।
सञ्चितपापहरं च जपित्वा मन्त्रसुमाञ्जलिमम्ब ददामि ॥ १५॥
श्रीं पदपूर्णमहामनुरूपे श्रीशिवकाममहेश्वरहृद्ये ।
श्रीगुहवन्दितपादपयोजे बालवपुर्धरदेवि नमस्ते ॥ १६॥
इति श्रीबालामानसपूजा (२) सम्पाता ।
Proofread by PSA Easwaran