श्रीबालापञ्चाङ्गम्
श्रीभैरव उवाच-
अधुना देवि वक्ष्यामि रहस्यं स्तोत्ररूपकम् ।
येन साधक ईशानि साक्षात् श्रीभैरवायते ॥ १॥
अङ्गं त्रिपुरसुन्दर्याः पञ्चमाख्यां महेश्वरि ।
पञ्चमीरूपमानन्दरूपमानन्दवर्धनम् ॥ २॥
तत्त्वं श्रीत्रिपुरादेव्याः श्यामायाश्च रहस्यकम् ।
स्तोत्रराजः परादेव्याः परमानन्दकारणम् ॥ ३॥
स्तोत्रस्यास्य महादेवि ऋषिः प्रोक्तः सदाशिवः ।
पङ्क्तिश्छन्दः समाख्यातं देवता त्रिपुरा स्मृता ॥ ४॥
धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ।
ध्यानम्-
सूर्यकोटिसमानाभां चतुर्बाहुं त्रिलोचनाम् ।
रक्तपद्मसमासीनां रक्तवस्त्राद्यलङ्कृताम् ॥
पुस्तकं चाक्षमालां च वरं चाभयमेवच ।
दधतीं च हृदम्भोजे श्रीबालात्रिपुरां भजे ॥
वाग्भवं भवमहार्णवप्रोक्तं यो जपेन्मनसि मानवतीनाम् ।
कामेकेलिषु भवेत्स साधकः कामदेव इव वैरिबाधकः ॥ १॥
मदनं मदनाक्षरं जपेद्यो वदनाच्छादनबद्धमौनमुद्रः ।
स भावेद्भवसागरैकपोतो भवरूपो भुवनत्रयेश्वरः स्यात् ॥ २॥
शक्तिबीजमनघं सुधाकरं साधको यदि जपेत् हृदि भक्त्या ।
तस्य देववनिता चरणाब्जौ रञ्जयन्ति मुकुटैर्मणियुक्तैः ॥ ३॥
बिन्दुत्रिकोणवसुनागदलाढ्य वेद
गेहान्विते परमयन्त्रवरे निषण्णाम् ।
ध्यायन्ति ये परिकरेण समन्वितां त्वां
संप्राप्नुवन्ति तव देवि परं पदं तत् ॥ ४॥
इतीदं परमं गुह्यमङ्गभूतं हि पञ्चमम् ।
देवि त्रिपुरसुन्दर्याः श्रीबालायाः स्तवोत्तमम् ॥ ५॥
रहस्यमेतदखिलं न कस्य कथितं मया ।
तव भक्त्या मया ख्यातं न प्रकाश्यं महेश्वरि ॥ ६॥
इदं पञ्चाङ्गमनिशं बालायाः सारमुत्तमम् ।
गोप्यं गुह्यतरं गुह्यं गोपनीयं प्रयत्नतः ॥ ७॥
इति श्रीरुद्रयामले श्रीबालापञ्चाङ्गं सम्पूर्णम् ।
Proofread by PSA Easwaran