बदरीदेवीस्तोत्रम्
बद्रीदेव्यै ध्वजं दद्यान्नारायण्यै नमोऽस्तु ते ।
श्रीमाणिक्यै नमस्तुभ्यं रमायै ते नमो नमः ॥ ६९॥
नमः श्रीपुरुषोत्तम्यै पद्मावत्यै नमो नमः ।
नमस्ते बालयोगिन्यै कार्ष्ण्यै देव्यै नमो नमः ॥ ७०॥
शूलांऽकुशधरायै ते हिमजायै नमोऽस्तु ते ।
त्वं लक्ष्मीस्त्वं सती श्रीश्च त्वं रमा राधिका प्रभौ ॥ ७१॥
त्वं पार्वती महालक्ष्मीस्तस्यै ब्राह्म्यै च ते नमः ।
नमस्ते बदरीश्वर्यै हरिण्यै ते नमो नमः ॥ ७२॥
तापसानां फलदात्र्यै सुधाधार्त्र्यै च ते नमः ।
त्रैलोक्यवन्दितायै ते मातर्बद्रि च ते नमः ॥ ७३॥
तव छायाऽनादिमायाछायानाशकरी मता ।
तव मूलं ब्रह्ममूलं मूलप्रकृतिवारकम् ॥ ७४॥
तव शाखा धामशाखा उल्लङ्घ्याऽक्षरधामदाः ।
तव पत्राणिच्छत्राणि ब्रह्मसाम्राज्यदानि वै ॥ ७५॥
तव फलानि भुक्तानि योगिनां फलदानि च ।
सर्वयोगफलदानि परब्रह्मप्रदानि च ॥ ७६॥
तव बीजानि लोकानां वासनाक्षयकाणि वै ।
तव वंश्या बदर्यश्च पापिनां पापनाशिकाः ॥ ७७॥
त्वत्फलानां भक्षणं च मोक्षफलादनप्रदम् ।
त्वत्पत्राणां स्पर्शनं च ब्रह्मानन्दगृहप्रदम् ॥ ७८॥
त्वन्मूलेषु नमनं च सर्वाऽसुरविनाशनम् ।
त्वन्मूर्तेर्दर्शनं बद्रि परब्रह्माऽवलोकनम् ॥ ७९॥
त्वत्फलाढ्यजलैः स्नानं ब्रह्मह्रदावगाहनम् ।
त्वदधःशयनं बद्रि सर्वतीर्थाधिवासनम् ॥ ५.८०॥
त्वन्मूले जलदानादि पितॄणां तृप्तिदायकम् ।
त्वत्फलार्पणमेवापि श्राद्धेऽयुताधितृप्तिदम् ॥ ८१॥
त्वत्फलानां प्रपक्वानां दानं ब्रह्मरसप्रदम् ।
सर्वरसप्रदं बद्रि सर्वसम्पत्प्रवर्धनम् ॥ ८२॥
बदरी यत्र वै स्थाल्यां तत्राऽक्षरं पदं मम ।
यत्र श्रीबदरीदेवी तत्र श्रीबद्रिकाश्रमः ॥ ८३॥
बद्रीवने गतप्राणो देही मोक्षाय कल्पते ।
बद्रीतले न वै याम्या दूता यान्ति कदाचन ॥ ८४॥
पापिनां पापनाशानि बदर्यधो भवन्ति वै ।
मरणे बदरीद्रष्टा स्वर्गं मोक्षं च विन्दति ॥ ८५॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः तिष्यसन्तानात्मकस्य
चतुर्थखण्डे पञ्चमाध्यायन्तर्गतम् बदरीदेवीस्तोत्रम् सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ४। अध्याय ५/६९-८५॥
lakShmInArAyaNIyasaMhitA . khaNDa 4. adhyAya 5/69-85..
Proofread by PSA Easwaran