बगलामुखी (पीताम्बरी) ध्यानम्
मध्ये सुधाब्धिमणिमण्डपरत्नवेदी-
सिंहासनोपरि गतां परिवीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गीं
देवीं नमामि धृतमुद्गरवैरिजिह्वाम् ॥ १॥
जिह्वाग्रमादाय करेण देवीं वामेन शत्रून्परिपीडयन्तीम् ।
गदाभिघातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥ २॥
सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोल्लासिनीं
हेमाभाङ्गरुचिं शशाङ्कमुकुटां सच्चम्पकस्रग्युताम् ।
हस्तैर्मुद्गरपाशवज्ररशनाः सम्बिभ्रतीं भूषणैः
व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तये ॥ ३॥
इति बगलामुखी अथवा पीताम्बरी ध्यानम् ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com