बगलामुखीवर्णकवच
श्रीगणेशाय नमः ।
अस्यश्रीबगलामुखीवर्णकवचस्य श्रीपरमेश्वरऋषिः ,
अनुष्टुप् छन्दः , श्रीबगलामुखीदेवता ,
ॐ बीजं , ह्लीं शक्तिः , स्वाहा कीलकं ,
बगलाप्रसादसिद्ध्यर्थे जपे विनियोगः ।
अथ ध्यानम् ।
जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम् ।
गदाभि घातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥
ॐ प्रणवो मे शिरः पातु ललाटे ह्लीं सदाऽवतु ।
बकारो भ्रूयुगं पातु गकारः पातु लोचने ॥ १॥
लकारः पातु मे जिह्वां मुकारं पातु मे श्रुतिम् ।
खीकारं पातु मे तालु सकारं चिबुकं तथा ॥ २॥
वकारः पातु मे कण्ठं स्कन्धौ पातु दकारकः ।
बाहू ष्टकारकः पातु करौ पातु नकारकः ॥ ३॥
स्तनौ वकारकः पातु चकारो हृदयं मम ।
मकारः पातु मे नाभौ खकारो जठरं मम ॥ ४॥
कुक्षिं पकारकः पातु दकारः पातु मे कटिम् ।
स्तकारो जघनं पातु भकारः पातु मे गुदम् ॥ ५॥
गुह्यं यकारकः पातु जकारोऽवतु जानुनी ।
उरू ह्वकारकः पातु गुल्फौ पातु ककारकः ॥ ६॥
पादौ लकारकः पातु यकारो स्छिति सर्वदा ।
बुकारः पातु रोमाणि धिकाररस्तु त्वचं तथा ॥ ७॥
विकारः पातु सर्वाङ्गे नकारः पातु सर्वदा ।
प्राच्यां शकारकः पातु दक्षिणाशां यकारकः ॥ ८॥
वारुणीं ह्लीं सदा पातु कौबेर्यां प्रणवेन तु ।
भूमौ स्वकारकः पातु हकारोर्ध्वं सदाऽवतु ॥ ९॥
ब्रह्मास्त्रदेवता पातु सर्वाङ्गे सर्वसन्धिषु ।
इतिते कथितं देवि दिव्यमङ्घपञ्जरम् ॥ १०॥
आयुरारोग्य सिद्ध्यर्थं महदैश्वर्यदायकम् ।
लिखित्वा ताडपत्रे तु कण्ठे बाहौ च धारयेत् ॥ ११॥
देवासुरपिशाचेभ्यो भयं तस्य नहि क्वचित् ।
कर्मणेन सन्द्दर्शो त्रिषुलोकेशु सिद्ध्यते ॥ १२॥
महाभये राजे तु शतवारं पठेद्यहम् ।
गृहे रणे विवादे च सर्वापत्ति विमुच्यते ॥ १३॥
एतत्कवचमज्ञात्वा यो ब्रह्मास्त्रमुपासते ।
न तस्य सिध्यते मन्त्रः कल्पकोटिशतैरपि ॥ १४॥
॥ इति श्री ईश्वरपार्वतिसंवादे बगलावर्णकवचं सम्पूर्णम् ॥
Encoded and Proofread by Ravin Bhalekar ravibhalekar at hotmail.com