भारताम्बिकास्तुतिः
श्रीः ।
अङ्गवङ्गसिन्धुराष्ट्रकूटकोटिसंयुतां
देवसिन्धुनर्मदादिसिन्धुसङ्घशोभिताम् ।
शैलराजविन्ध्यसह्यशैलपङ्क्तिरक्षितां
पुण्यभूमिमादरान्नमामि भारताम्बिकाम् ॥ १॥
रामकृष्णरामदासबुद्धदेवमातरं
विक्रमार्कभोजराजराजराजपालिताम् ।
भासकालिदासभट्टिबाणभारविप्रसूं
पुण्यभूमिमादरान्नमामि भारताम्बिकाम् ॥ २॥
पश्चिमाब्धिदक्षिणाब्धिपूर्वसिन्धुसंवृतां
काशिकागयाप्रयागपत्तनाभिशोभिताम् ।
पम्पयाभिरञ्जितां च चम्पया मनोहरां
पुण्यभूमिमादरान्नमामि भारताम्बिकाम् ॥ ३॥
योगिवर्यशङ्करार्यधर्ममार्गदर्शिनीं
पूजनीयमालवीयगान्धिनेह्रुसेविताम् ।
श्रीरवीन्द्रदिव्यकाव्यलब्धकीर्तिसन्ततिं
पुण्यभूमिमादरान्नमामि भारताम्बिकाम् ॥ ४॥
सत्यसत्त्वशालिनीं सुधर्ममार्गदर्शिनीं
भुक्तिमुक्तिदायिनीं विरक्तिबुद्धिवर्धिनीम् ।
पापसङ्घनाशिनीं परात्परां पुरातनीं
पुण्यभूमिमादरान्नमामि भारताम्बिकाम् ॥ ५॥
देवमन्दिराभिरञ्जितात्मतीर्थराजितां
निर्जितामरावतीपुरीविराजितश्रियम् ।
सस्यवृद्धिकारिणीं प्रमोददुग्धवाहिनीं
पुण्यभूमिमादरान्नमामि भारताम्बिकाम् ॥ ६॥
कोटिविंशतिद्वयस्वलोकशोकमर्दिनीं
कोटिमर्त्यजातिधर्मकर्ममर्मनिर्मितां !
कालचक्रवर्तिनीं पुराणसंस्कृतिप्रभां
पुण्यभूमिमादरान्नमामि भारताम्बिकाम् ॥ ७॥
पारतन्त्र्यमोचनक्रियानिबद्धकङ्कणैः
स्वार्थहीनजीवितैः स्वजीविते गतस्पृहैः ॥
राजनीतिपण्डितैस्तनूभवैस्सदा स्तुतां
पुण्यभूमिमादरान्नमामि भारताम्बिकाम् ॥ ८॥
धैर्यशौर्यसाहसादिशीलपङ्क्तिभूषितै-
र्देशभक्तसैनिकैः स्वतन्त्रमन्त्रदीक्षितैः
राष्ट्रगीतगायने रतैस्सदा सुतैर्नुतां
पुण्यभूमिमादरान्नमामि भारताम्बिकाम् ॥ ९॥
सौख्यदानि मङ्गलानि सर्वजीवराशिषु
भारताम्बिका दयामयी सदा दिशत्वरम् ।
दास्यबन्धमोचिता सुभाग्यचक्रवर्तिनी
सत्वरं समेधतां प्रपञ्चराष्ट्रमण्डले ॥ १०॥
भक्तिभावपूरितः पुनः पुनश्च मातरं
वेदवृन्दकीर्तितां समुज्ज्वलां सदा नतः ।
सन्ततं हि मङ्गलार्थमुन्नताभिलाषिणीं
स्तौमि मञ्जुलैर्वचोभिरीडितां सुरैरपि ॥ ११॥
ये पठन्ति भारताम्बिकास्तुतिं सदा नरा
भक्तिनम्रमौलयो मनोज्ञया गिरा नवाम् ।
नव्यकीर्तिशोभितास्सुदिव्यकान्तिराजिता-
स्तं भवन्ति मातृभक्तिपूर्णमानसा ध्रुवम् ॥ १२॥
इति भारताम्बिकास्तुतिः सम्पूर्णा ।
॥ इति ॥
Encoded and proofread by Vishnuprasad Upadhyay