श्री भद्रकाली मन्त्रनामसहस्रनामस्तोत्रम्

श्री भद्रकाली मन्त्रनामसहस्रनामस्तोत्रम्

श्रीगणेशाय नमः । श्रीदेव्युवाच । श्रीशम्भो करुणासान्द्र जगज्जीवनकारण । मन्त्रगर्भंपुरानाम्नां सहस्रं कथितं त्वया । भद्रकाल्या महेशान तन्मे व्याख्यातुमर्हसि ॥ श्रीभैरवोवाच । श‍ृणु देवि प्रवक्ष्यामि मन्त्रनामसहस्रकम् । भद्रकाल्या कलौ गोप्यं जीवन्मुक्तैकसाधनम् ॥ अस्य नाम्नां सहस्रस्य ऋषिर्बटुकभैरवः । छन्दोनुष्टुप् समाख्यातो देवता भद्रकालिका ॥ क्रीं बीजं हूं शक्तिस्यात्स्वाहा कीलकमुच्यते । धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ॥ अस्य श्री भद्रकाली मन्त्रनामसहस्रस्य बटुकभैरवऋषिः अनुष्टुप् छन्दः भैंभद्रकाली देवता क्रीं बीजं हूं शक्तिः स्वाहा कीलकं धर्मार्थकाममोक्षार्थे सहस्रनाम पाठे विनियोगः ॥ अथ ध्यानम् । क्रीङ्कारोद्भासितास्या मुदित शशिकला शेखरां प्रेतवाहाम् । हूङ्कारोद्भासिताक्षीं शिवप्रभृतिसुरैः सेवितां मद्यमत्ताम् ॥ ह्रीं ह्रीं भैं लालयन्तीं प्रहसित वदनां सीधुपात्रं वहन्तीम् । भैं ह्रीं हूं वह्निकान्ताक्षर सहितरसां भद्रकालीं स्मरामि ॥ ॐ क्रीं काली क्रीं ह्सौः स्वाहा क्रीं कुब्जा क्रीं कनीयसीम् । क्रीं हूं ह्रीं कोटराक्षी च क्रीं क्रीं क्रीं कुलदेवता ॥ १॥ ऐं क्लीं सौः कौलिनी स्वाहा ऐं सौः क्लीं कुलशेखरा । ॐ ह्रीं श्रीं कोमलाङ्गी च ऐं क्रीं हूं कोमलालका ॥ २॥ क्रीं हूं ह्रीं कोशदा स्वाहा ऐं क्रीं भैं कुलकौलिनी । ॐ ह्रीं क्रूं क्रूरभाषा च ॐ ह्रीं क्रीं ऐं कपालिनी ॥ ३॥ ॐ क्रीं श्रीं हूं ह्सौः काम्या क्रीं क्रीं क्रीं कामचारिणी । ॐ ह्रां ऐं सौः कुरूपाक्षी ॐ क्रीं कालक्षयङ्करी ॥ ४॥ हूं ह्रीं कमलपत्राक्षी ॐ क्रीं श्रीं कमलप्रिया । क्रीं भैं कादम्बरी स्वाहा क्रीं श्रीं कामविवर्धिनी ॥ ५॥ ऐं क्रीं हूं कुरुकुल्ला च क्रीं हूं ह्रीं कान्तरूपिणी । ॐ श्रीं कनकवर्णाभा ऐं क्लीं सौः काञ्चनाङ्गदा ॥ ६॥ क्रीं हूं क्रीं कामिनी स्वाहा क्रीं क्रैं कामक्षयङ्करी । ॐ ह्रीं श्रीं क्रीं क्ष्म्यूं स्वाहाकारा बन्धनमोक्षदा ॥ ७॥ क्रों श्रीं कोशवती स्वाहा ऐं क्लीं कमलवासिनी । क्रीं क्रीं कामुकसेव्या च क्रीं काशीजनवन्दिता ॥ ८॥ क्रीं हूं कुङ्कुमलिप्ताङ्गी क्रीं श्रीं क्रोधितमानसा । ॐ क्रों श्रीं हूं च कोशस्था क्रीं क्रैं क्रूं क्रौं कलावती ॥ ९॥ ॐ श्रीं ह्रीं श्रीं क्रीं कठोराङ्गी ॐ क्रीं क्रव्यादघातिनी । ॐ क्रीं कामारिगात्रस्था क्रीं कामारिक्षयङ्करी ॥ १०॥ ऐं क्लीं कृष्णाम्बरा स्वाहा हूं क्रीं ह्रीं कृष्णसेविता । ॐ क्रीं कात्यायनी स्वाहा ॐ क्रीं ह्रीं कलिनाशिनी ॥ ११॥ ॐ क्रीं हूं भैं कलाधारा हूं कलानिधिशेखरा । ऐं क्लीं सौः कामदास्वाहा ॐ क्रीं कुट्मलकेलिता ॥ १२॥ ॐ क्रीं कुमुदपत्राक्षी क्रीं हूं कुमुदसेविता । क्रीं श्रीं कुमारजननी ॐ क्लीं कारुण्यरूपिणी ॥ १३॥ ॐ श्रीं ह्रीं क्रीं च कामेशी ॐ ह्रीं श्रीं केशवार्चिता । ॐ क्रीं कलङ्करहिता क्रीं कुन्तीं क्रीं कुलोद्गता ॥ १४॥ क्रीं श्रीं कृत्यम्बरा स्वाहा क्रीं हूं केसरिवाहना । ॐ ह्रीं श्रीं क्रीं ह्सौः हूं ह्रीं काञ्चीयुक्तनितम्बिनी ॥ १५॥ क्रीं हूं ह्रीं कीर्तिदा स्वाहा क्रीं श्रीं केयुरभास्वरा । ॐ क्रीं हूं ह्रीं च कौशाम्बी क्रीं श्रीं ऐं क्लीं च कौमुदी ॥ १६॥ ॐ क्रीं हूं कामना स्वाहा क्रों कृतान्तनिषेविता । क्रीं श्रीं ऐं कोशनम्राङ्गी क्रीं हूं ह्रीं क्रौञ्चवाहना ॥ १७॥ ॐ श्रीं केनाशभयदा क्रां कपर्दि भयापहा । क्रीं श्रीं ऐं सौः क्लूं हूं भैं कमलासनसेविता ॥ १८॥ ककारभूषिततनुः ॐ क्रीं हूं ह्रीं क्लूं पयः । ॐ श्रीं ऐं खड्गिनी स्वाहा ॐ श्रीं ख्रीं खगगामिनी ॥ १९॥ ॐ श्रीं ख्रीं खलहन्त्री च ख्रीं श्रीं ह्रीं खगलोचना । ॐ ह्रीं म्लूं खेचरी स्वाहा ॐ श्रीं खद्योतरूपिणी ॥ २०॥ ॐ ऐं सौः सर्वदा स्वाहा ॐ श्रीं सकलदायिनी । ऐं क्लीं सर्पार्चिता स्वाहा सौः क्लीं सर्पोपवीतिनी ॥ २१॥ श्रीं क्लीं ऐं वेदविद्या च ऐं सौः क्लीं वरवर्णिनी । ॐ श्रीं ह्रीं वर्तदा स्वाहा ॐ ह्रीं सर्वसमाश्रया ॥ २२॥ ऐं क्लीं सत्यवती स्वाहा सौः क्लीं श्रीं सरसा पयः । ॐ ऐं सौः सत्यभामा च ॐ जुं सः सनातनी ॥ २३॥ ॐ श्रीं सौः सत्यसङ्घा च ॐ श्रीं सीतापतिप्रिया । ॐ ऐं सौः सुन्दरी स्वाहा ऐं सौः सुन्दरवल्लभा ॥ २४॥ ॐ श्रीं सरोजपत्रस्था ॐ ऐं सौः क्लीं सर्वसुरप्रिया । ह्सौः सत्यगमा ह्रीं श्रीं क्रीं हूं क्रौं ह्रीं मदालसा ॥ २५॥ ॐ क्रीं ऐं सौः ब्लूं साध्वी ॐ ह्रीं क्रीं साधुजनप्रिया । ॐ श्रीं मनोरमाङ्गी च ऐं सौः क्लीं सुन्दराङ्गदा ॥ २६॥ ॐ श्रीं ऐं सौः सती स्वाहा ॐ श्रीं शङ्करवल्लभा । ॐ ह्रीं क्लीं सनया स्वाहा ऐं सौः स्वेदोन्मुखी पयः ॥ २७॥ ॐ श्रीं सूर्यसहस्राभा ऐं सौः क्लीं सत्यवादिनी । ॐ श्रीं सत्यात्मिका स्वाहा ऐं सौः सर्वजनप्रिया ॥ २८॥ ॐ श्रीं ऐं सौः स्मितास्या च ॐ श्रीं ऐं सौः सिताम्बरा । ॐ श्रीं ऐं सर्वकर्त्री च ऐं सौः शुम्भनिसूदिनी ॥ २९॥ ॐ श्रीं साडम्बरा स्वाहा ॐ सौः सत्यपरायणा । ॐ श्रीं सर्वप्रदा स्वाहा श्रीं ह्रीं श्रीं सत्यसङ्गरा ॥ ३०॥ ॐ श्रीं ऐं सर्वहर्त्री च ॐ ऐं सौः सर्वमङ्गला । ॐ श्रीं श्वेतप्रिया स्वाहा ऐं सौः शार्दूलगामिनी ॥ ३१॥ ॐ ह्रीं श्रीं शान्तिदा श्रीं क्लीं हूं हूं शम्भुनिषेविता । ॐ ह्रीं ऐं शिवदा स्वाहा श्रीं ह्रीं श्रीं शारिका पयः ॥ ३२॥ ॐ श्रीं ऐं क्लीं च शर्वाणी ॐ श्रीं शाखा ह्सौः शिखा । ॐ श्रीं श्रूं शिखिशिखानेत्रा ॐ ह्रीं ऐं शिखिविष्टरा ॥ ३३॥ ॐ श्रीं श्रैं श्लिष्टविद्या च ॐ श्रीं ऐं शिशुपालिनी । ॐ श्रीं ऐं शूर्परी ऐं सौः शूर्पकर्णसमर्चिता ॥ ३४॥ ॐ श्रीं शिवा ह्सौः क्लीं क्लीं शिववामाङ्गवासिनी । ॐ श्रीं श्रूं सीधुमत्ता च श्रीं क्लीं सः सीधुपायिनी ॥ ३५॥ ॐ जुं सः शीतलाङ्गी च श्रीं हूं क्रीं शीघ्रगामिनी । श्रीं श्रीं श्यामाम्बरा स्वाहा श्रीं श्यामा श्रीं शवासना ॥ ३६॥ ॐ क्रीं गीं गोपवत्सा च ॐ क्लीं कौशिकसेविता । ॐ क्लीं कान्तिश्च क्रीं कुल्ला क्रौं कान्तारभुजप्रिया ॥ ३७॥ ॐ श्रीं शङ्का ह्सौः शिष्टा ॐ श्रीं शर्मप्रदायिनी । ॐ क्लीं श्रीं शङ्खहस्ता च ॐ श्रीं वं वेणूवादिनी ॥ ३८॥ श्रीं श्रीं ऐं ऐं ह्सौः क्लीं सः शम्बरारिमदातुरा । ॐ ऐं सौः सुरसेव्या च ऐं क्लीं सीरध्वजाश्रिता ॥ ३९॥ ॐ श्रीं ऐं क्लीं ह्सौः क्रीं हूं सुरापानपरायणा । ॐ श्रीं सर्वसहा स्वाहा ॐ श्रीं सारोत्तमोत्तमा ॥ ४०॥ ॐ श्रीं ॐ उत्तमा ॐ ॐ ओङ्कारप्रणवात्मिका । ॐ प्रीं प्रत्यङ्गिरा स्वाहा ॐ श्रीं पर्वतनन्दिनी ॥ ४१॥ ॐ प्रीं पर्वतपक्षघ्नी ॐ प्रीं पीताम्बरप्रिया । ॐ श्रीं प्रीं पाशहस्ता च ॐ प्रीं पट्टिसधारिणी ॥ ४२॥ ॐ श्रीं पूतासुगन्धाढ्या ॐ प्रीं पद्मावती पयः । ॐ प्रीं पतिव्रता स्वाहा प्रीं श्रीं पानपरायणा ॥ ४३॥ ॐ श्रीं ह्रीं पांसुला ॐ श्रीं ह्रीं प्रीं पवनगामिनी । पवनात्मजसेव्या ॐ क्लीं श्रीं बीजमयी पयः ॥ ४४॥ ॐ ऐं एकाक्षरी स्वाहा ॐ ह्रीं श्रीं क्लीं च पार्वती । ह्रां हूं शम्भुजटाभारा ॐ शरश्चन्द्रलेपिता ॥ ४५॥ ॐ श्रीं ऐं सौः रसानन्दा सुनन्दा श्रीं ह्सौः सुयता । ॐ ह्रीं श्रीं क्लीं ह्सौः राज्ञी ॐ श्रीं राज्यप्रदायिनी ॥ ४६॥ ॐ ह्रीं श्रीं रमणी ॐ श्रीं रेवाश्रीमदनातुरा । ऐं सौः रम्भोपमोरु च ऐं सौः क्लीं रामवल्लभा ॥ ४७॥ ऐं सौः श्रीं रेवती स्वाहा ऐं क्लीं आरामवासिनी । ॐ श्रीं राज्यप्रदा स्वाहा ॐ श्रीं रावणघातिनी ॥ ४८॥ ॐ रां राघवसेव्या च ॐ ह्रीं श्रीं रोहिणी पयः । ॐ श्रीं ऐं सौः ह्सौः क्लीं श्रीं रेवतीरमणप्रिया ॥ ४९॥ ॐ श्रीं इं रां च इन्द्रा ॐ इं इन्द्रसमाश्रिता । ॐ ह्रीं श्रीं ऐं च इन्द्राक्षी ऐं श्रीं वृत्रनिसूदिनी ॥ ५०॥ ॐ श्रीं वृत्रारि रोघग्नी ॐ वृत्रासूरपूजिता । ॐ श्रीं वृत्तिप्रदा स्वाहा व्रों क्लीं वृत्तस्तनी पयः ॥ ५१॥ ॐ ह्रीं श्रीं क्रीं ह्सौः ब्राह्मी ब्रों ब्राह्मणवरप्रदा । श्रीं क्लीं हत्यापहा स्वाहा ह्रीं श्रीं क्लीं हरिसेविता ॥ ५२॥ ॐ श्रीं हरार्चिता स्वाहा जुं हौं सः जृम्भिनी पयः । ॐ जां जालन्धरी स्वाहा ॐ श्रीं ह्रीं ह्सौः हरिवाहना ॥ ५३॥ ॐ क्लीं ह्रीं हरिदश्वाक्षी ॐ ह्रीं हरिहरार्चिता । ॐ श्रीं क्लीं हैहयेष्टा च ॐ ह्रीं श्रीं हयगामिनी ॥ ५४॥ अं श्रीं अम्भोदनीलाङ्गी अं क्रीं अश्वसुखप्रिया । अं ऐं अम्भोजहस्ता च अं क्लीं अम्भोजनी पयः ॥ ५५॥ ॐ श्रीं क्लीं श्रौं शतानन्दा श्रौं शतानन्दघातिनी । ॐ श्रीं गीतप्रिया स्वाहा ॐ गीं गीतज्ञा च ग्लौं गतिः ॥ ५६॥ ॐ श्रीं गीं गुणिवत्सा च ॐ गीं श्रीं गुणिरागिणी । ॐ गीं श्रीं गारुडीविद्याङ्गी श्रीं गीं गोमती पयः ॥ ५७॥ ॐ गीं गाथा ह्सौः स्वाहा ॐ गीं गन्धर्वसेविता । ॐ गीं गणेशसेव्या च ऐं सौः गीं गणवल्लभा ॥ ५८॥ ऐं क्लीं गीं गजराजेष्टा गीं श्रीं गौरी ह्सौः गतिः । क्रीं गीं गलद्रसा ॐ गीं गजाननसमर्चिता ॥ ५९॥ ॐ प्रीं श्रीं पद्मभूः स्वाहा ॐ सौः जुं आत्मभू पयः । ॐ श्रीं मधुमक्षिका ॐ ऐं सौः म्रीं मदालसा ॥ ६०॥ ॐ श्रीं म्रीं माधवेष्टा च श्रीं मा ह्रीं श्रीं रसा पयः । ॐ ह्रीं श्रीं इन्दिरा श्रीं क्लीं श्रीदा ऐं सौः च श्रीमती ॥ ६१॥ ॐ श्रीं क्लीं ललिता स्वाहा ॐ श्रीं गीं गरुडाश्रिता । ऐं क्लीं निशुम्भहन्त्री च श्रीं ह्रीं महिषगामिनी ॥ ६२॥ ॐ ऐं सौः पद्मजा ह्रीं श्रीं महिषासुरघातिनी । मधुकैटभहन्त्री ॐ ह्रीं श्रीं म्रीं मधुराक्षरा ॥ ६३॥ ॐ ऐं भगोदरा स्वाहा श्रीं क्लीं म्रीं मन्मथातुरा । ॐ ह्रीं श्रीं मतिदा श्रीं म्रीं क्रीं हूं मातङ्गिनी पयः ॥ ६४॥ ॐ श्रीं ऐं खेटहस्ता च क्ष्म्यूं क्षीराम्बुधिसम्भवा । ॐ क्ष्मीं क्षुरितकेशा च ऐं सौः क्लीं श्रीं क्षमावती ॥ ६५॥ ॐ श्रीं ऐं सौः क्षमा ॐ श्रीं क्ष्मा ॐ ऐं सौः क्षमाधरा । ॐ श्रीं क्रीं क्ष्म्यूं च क्षणदा ॐ श्रीं क्ष्म्यां क्षालिताम्बरा ॥ ६६॥ ॐ श्रीं ऐं सौः जनावासा ॐ जुं सः हूं जरातुरा । ॐ श्रीं ऐं क्लीं ह्सौः श्रद्धा ॐ प्रीं श्री पुरातना ॥ ६७॥ ॐ प्रीं पुराणप्रकृतिः ॐ ऐं क्लीं सौः सरस्वती । ॐ क्रीं हूं ह्रीं च वाराही ॐ श्रीं वैकुण्ठसूदिनी ॥ ६८॥ ॐ श्रीं वेत्रवती स्वाहा ॐ ऐं विद्यामयी पयः । ॐ श्रीं ऐं क्लीं वितस्ता च ॐ श्रीं विमुखघातिनी ॥ ६९॥ ॐ श्रीं गङ्गा ह्सौः स्वाहा ॐ क्रीं यं यमुना तथा । ॐ श्रीं सौः शरयू स्वाहा ॐ श्रीं योगिसमर्चिता ॥ ७०॥ ॐ श्रीं यमस्वसा स्वाहा ॐ ह्रीं श्रीं यममर्दिनी । ॐ श्रीं यमप्रदा क्लीं सौः ॐ श्रीं यादस्पतिप्रिया ॥ ७१॥ ॐ ह्रीं श्रीं क्लीं ह्सौः यात्रा ॐ श्रीं ऐं यक्षिणी पयः । ॐ श्रीं ऐं सौः च यक्षेशी ॐ यां यक्षेश्वरार्चिता ॥ ७२॥ ऐं सौः युयुत्सवा स्वाहा ॐ यां श्रीं क्लीं च यामिनी । ॐ जुं यां श्रीं यज्ञेशी ॐ यां क्लीं यज्ञदक्षिणा ॥ ७३॥ ॐ श्रीं ऐं सौः च यज्ञाङ्गी ॐ श्रीं ऐं सौः यशोवती । ॐ श्रीं यशःप्रदा स्वाहा ॐ क्लीं यां याज्ञिकप्रिया ॥ ७४॥ ॐ क्लीं यां यजमानस्त्री ॐ श्रीं याज्ञिकवल्लभा । ॐ ह्रीं श्रीं क्लीं ह्सौः ऐं सौः यजमानवरप्रदा ॥ ७५॥ ॐ श्रीं क्लीं यां युधिस्थायी ॐ यां यज्ञभुजाम्प्रिया । ॐ श्रीं यां यज्ञभक्षा च ॐ यां श्रीं यज्ञलालसाः ॥ ७६॥ ॐ श्रीं ऐं ईश्वरी स्वाहा इं ईं आं यां यमस्तुता । ॐ श्रीं इं ऐकिकी स्वाहा ॐ श्रीं आयुष्मती तथा ॥ ७७॥ ॐ श्रीं आदित्यवरदा आं क्लीं आदित्यलोचना । ॐ श्रीं ऐं अदितिः स्वाहा अं अनन्तफलप्रदा ॥ ७८॥ ॐ श्रीं अनन्तशीर्षस्था ॐ श्रीं अनन्तशायिनी । ॐ श्रीं क्लीं रतिज्ञा स्वाहा ॐ ह्रीं श्रीं क्लीं दितिस्तथा ॥ ७९॥ ॐ श्रीं अदितिपुत्रेष्टा ॐ श्रीं दितिजघातिनी । ॐ ऐं क्लीं अम्बिका स्वाहा ॐ ऐं रतिपतिप्रिया ॥ ८०॥ ॐ श्रीं क्लीं जगदीशानी ॐ जुं सः जयवर्धिनी । ॐ श्रीं ज्योतिष्मती स्वाहा ॐ क्लीं श्रीं म्लेच्छघातिनी ॥ ८१॥ ॐ श्रीं रजस्वला स्वाहा ॐ रां रं रजकी तथा । ॐ श्रीं क्लीं बहुपुत्रा च ॐ श्रीं क्लीं हीरनन्दना ॥ ८२॥ ऐं क्लीं सौः हरिणी स्वाहा ॐ श्रीं हरिहरेश्वरी । ॐ श्रीं ह्रीं अबला स्वाहा ॐ आं आकाशगामिनी ॥ ८३॥ आं श्रीं अरण्यवासा च ॐ श्रीं आत्मभुवार्चिता । आं श्रीं भूषणभूषाढ्या ॐ श्रीं भीतिमती तथा ॥ ८४॥ ॐ श्रीं अं लोकमाता च ॐ श्रीं लं लक्षमातृका । ॐ श्रीं रां गीं ह्सौः लभ्या श्रीं अलभ्या ह्सौः लता ॥ ८५॥ ॐ श्रीं लोकेशवरदा ॐ श्रीं लां लास्यतत्परा । ॐ श्रीं लोहितनेत्रा च ॐ श्रीं लवाङ्कृतिस्तथा ॥ ८६॥ ऐं सौः ललितजिह्वा च ॐ श्रीं लोकारिसेविता । ॐ श्रीं त्रिलोकजननी ॐ जुं सः लोकघातिनी ॥ ८७॥ ॐ श्रीं दीर्घजटाजूटा ॐ श्रीं जृम्भारिसेविता । ॐ क्रीं जुं मेदिनी स्वाहा ॐ क्रीं जुं सः मृतिञ्जया ॥ ८८॥ ॐ श्रीं जुं जयदा स्वाहा ॐ श्रीं जनकनन्दिनी । ॐ जुं लां जटिनी स्वाहा ॐ जुं जगत्समाश्रया ॥ ८९॥ ॐ श्रीं मौनव्रता स्वाहा ॐ श्रीं मोदकभक्षिणी । ॐ श्रीं ह्रीं क्लीं ग्लौं ग्लुं लां मोदकाहारतोषिता ॥ ९०॥ ॐ ह्रीं मुद्गरहस्ता च ॐ ह्रीं मातामही तथा । ॐ प्रीं पितामही स्वाहा ॐ प्रीं पितृपितामही ॥ ९१॥ ॐ क्लीं पाषाणरूपा च ॐ प्रीं पाषाण्डभक्षिणी । ॐ ऐं श्रीं सर्वतोग्रस्था ॐ प्रीं पलितकेशिनी ॥ ९२॥ ॐ श्रीं क्लीं हरपत्नी च ॐ कालपत्नी ह्सौः कुटी । ॐ ह्रीं श्रीं विष्णुपत्नी च ॐ ह्रीं श्रीं क्लीं च वैष्णवी ॥ ९३॥ ॐ ह्रीं श्रीं क्लीं ह्सौः रौद्री ॐ रां क्लीं रुद्रसेविता । ॐ श्रीं क्लीं सः च ब्रह्माणी ॐ श्रीं ब्रह्मेन्द्रसेविता ॥ ९४॥ ॐ श्रीं क्लीं व्रतिनी स्वाहा ॐ क्लीं द्रीं दक्षनन्दिनी । ॐ श्रीं क्लीं ऐं म्लौं क्रीं हूं दक्षक्रतुविनाशिनी ॥ ९५॥ ॐ श्रीं क्लीं विघ्नहन्त्री च ॐ श्रीं विघ्नेश्वरेश्वरी । ॐ श्रीं श्यामा च ऐं बाला ॐ ह्रीं बालकतोषिता ॥ ९६॥ ॐ श्रीं चं चर्चितपदा च ॐ श्रीं चं चारुहासिनी । ॐ क्लीं चतुर्भुजा स्वाहा ॐ श्रीं चन्दनभास्वरा ॥ ९७॥ ॐ ऐं सौः अच्युतेष्टा च ॐ श्रीं क्लीं सः च्युतालका । ॐ श्रीं ऐं चर्मवस्त्रा च ॐ श्रीं चण्यकराजिता ॥ ९८॥ ॐ श्रीं चर्वणभक्ष्या च ॐ श्रीं चं चारुलोचना । ऐं क्लीं सौः क्रीं ह्सौः ह्रीं भैं अष्टादशदलस्थिता ॥ ९९॥ ॐ श्रीं ऐं सौः च चार्वाङ्गी ॐ श्रीं चन्द्रकलाश्रया । ॐ श्रीं चन्द्रकलिप्ताङ्गी ॐ क्रीं पूतासुगन्धिनी ॥ १००॥ ॐ श्रीं कस्तूरिभूषाढ्या ॐ गीं सिन्दूरभूषिता । ॐ श्रीं क्लीं छिन्नमस्ता च ॐ श्रीं क्लीं छिन्नजङ्घका ॥ १०१॥ ॐ श्रीं ह्रीं स्त्रीं ह्सौः तारा ॐ ऐं नीलसरस्वती । ॐ ऐं एकजटा स्वाहा ॐ श्रीं क्लीं तारिणी तथा ॥ १०२॥ ॐ श्रीं स्त्रीं उग्रतारा च ॐ श्रीं स्त्रीं तोतला तथा । ॐ श्रीं क्रीं सौः ह्सौः स्तुत्या ॐ स्त्रीं त्रैलोक्यवन्दिता ॥ १०३॥ ॐ श्रीं क्रीं ऐं ह्सौः ॐ स्त्रीं त्रयीतनुविलोचना । ॐ वां वेदत्रयी स्वाहा ॐ श्रीं अग्नित्रयीं तथा ॥ १०४॥ ॐ प्रीं पुरत्रयी स्वाहा ॐ वां वर्गत्रयी तथा । ॐ सौः विद्यात्रयी श्रीं क्लीं देवी त्रितयरूपिणी ॥ १०५॥ ॐ द्रीं देवप्रसू स्वाहा ॐ द्रीं ऐं सौः दयावती । ॐ क्लीं ऐं सौः च धर्मज्ञा ॐ श्रीं धर्मनिधिस्तथा ॥ १०६॥ ॐ श्रीं द्रीं धनदा स्वाहा ऐं सौः क्लीं धनदार्चिता । ॐ श्रीं हूं धार्मिकेष्टा च ॐ श्रीं धर्मिजनप्रिया ॥ १०७॥ ऐं सौः द्युतिमती श्रीं ह्रीं सर्वदाभूतभूषिता । ॐ क्लीं दीप्ति ह्सौः धात्री ॐ श्रीं धूर्ता ह्सौः धृतिः ॥ १०८॥ ॐ श्रीं दम्भविहीना च ॐ श्रीं दाम्भिकरूपिणी । ॐ श्रीं म्रीं मोदिनी स्वाहा ॐ क्लीं ऐं मोहिनी तथा ॥ १०९॥ ॐ श्रीं स्त्रीं स्तम्भिनी स्वाहा ॐ ऐं क्लीं स्तम्भनरूपिणी । ॐ श्रीं स्तुतिमयी स्वाहा ॐ अध्येयपराक्रमा ॥ ११०॥ ॐ श्रीं ध्येया ह्सौः धूतिः ॐ श्रीं धूम्रमुखी तथा । ॐ श्रीं क्लीं कालरात्रीश्च ॐ श्रीं सः नलकूबरी ॥ १११॥ ॐ वां वटेश्वरी स्वाहा महामाया म्लौं तथा । ॐ श्रीं चण्डशरा स्वाहा ॐ श्रीं चण्डमदापहा ॥ ११२॥ ॐ ऐं क्लीं सौः च चामुण्डा ॐ श्रीं चण्डेश्वरी तथा । ॐ श्रीं प्रीं स्त्रीं प्रचण्डा च श्रीं ऐं चण्डमातृका ॥ ११३॥ ॐ श्रीं क्लीं सौः शताक्षी च ॐ श्रीं ह्रीं श्रीधराश्रया । ॐ श्रीं वां विश्वनिष्ठा च ॐ क्लीं विश्वम्भरार्चिता ॥ ११४॥ ॐ श्रीं क्लीं विश्वधात्री च ॐ वां नृत्यविलासिनी । ॐ श्रीं हौं सः निराकारा ॐ श्रीं शाकम्भरी तथा ॥ ११५॥ ॐ श्रीं रां रक्तजिह्वा च ॐ श्रीं रां रक्तलोचना । ॐ रां रक्ताम्बरा स्वाहा ॐ श्रीं पिङ्गलकेशिनी ॥ ११६॥ ॐ श्रीं स्त्रीं सौः तपस्या सौः तपोनिष्ठा ह्सौः स्तुतिः । ॐ श्रीं क्लीं तौलिनी ऐं सौः तारकेशी ह्सौः तुला ॥ ११७॥ ॐ श्रीं ह्रीं ह्सौः सुतार्त्तीया श्रीं श्रीं ऐं मुक्तिदा तथा । ॐ ऐं क्लीं सौः च कामाक्षी ॐ श्रीं स्त्रीं पिङ्गलालका ॥ ११८॥ ॐ श्रीं ऐं सौः च कुलजा ॐ श्रीं क्रीं कुन्तलेश्वरी । ॐ श्री ऐं क्लीं अपर्णा च ॐ श्रीं पर्णाशना तथा ॥ ११९॥ ऐं सौः पद्मा ह्सौः पुण्या ॐ श्रीं प्रीं पुण्यदा तथा । ॐ ऐं पुण्यनिधि श्रीं क्लीं ऐं सौः पुण्यजनार्चिता ॥ १२०॥ ॐ श्रीं अश्वस्तुतिः स्वाहा ॐ अं अश्वमुखेश्वरी । अं आं अश्वमुखी स्वाहा ॐ श्रीं अश्वसमद्युति ॥ १२१॥ ॐ ऐं सौः अश्वगा स्वाहा ॐ श्रीं क्लीं अश्वगायुधा । ॐ ऐं क्लीं कुलवागेशी ॐ श्रीं क्लीं कुलकौलिनी ॥ १२२॥ ॐ श्रीं ऐं सौः कुलोद्भासा ॐ क्रीं क्रीडाशया तथा । ॐ श्रीं क्लीं निरहङ्कारा ॐ सौः सिद्धा ह्सौः श्रुतिः ॥ १२३॥ ॐ श्रीं श्रुतिधरा ऐं क्लीं ज्येष्ठा ऐं सौः अजा तथा । ॐ श्रीं ज्योतिः क्ष्मीं क्षामा ॐ क्ष्मीं क्षोडा ह्सौः क्षुधा ॥ १२४॥ ॐ क्लीं सः क्रोडिनी स्वाहा ॐ क्रों कम्बलघातिनी । ॐ क्रीं कम्बलवस्त्रा च ॐ क्रीं कोटिन्दुसन्निभा ॥ १२५॥ ॐ श्रीं क्लीं ऐं च कल्याणी ॐ श्रीं क्लीं गोमुखी तथा । ॐ जुं सः स्कन्दजननी ॐ श्रीं भैं भैरवार्चिता ॥ १२६॥ ॐ श्रीं भूधरपुत्री च ॐ ऐं सः ब्रह्मचारिणी । ॐ क्लीं सः ब्रह्मविद्या च ॐ ऐं क्लीं ब्रह्मरूपिणी ॥ १२७॥ ऐं क्लीं सौः त्रिपुरा स्वाहा ॐ श्रीं त्रिपुरभैरवी । ॐ श्रीं त्र्यक्षी ह्सौः स्त्रीं स्त्रीं ॐ श्रीं त्रिभुवनार्चिता ॥ १२८॥ ॐ क्लीं त्रेता ह्सौः अम्बा ॐ श्रीं त्रिपुरघातिनी । ॐ श्रीं ह्रीं क्रीं त्रिरूपा च ॐ ऐं सौः वह्निवल्लभा ॥ १२९॥ ॐ स्त्रीं तारुण्यशोभाढ्या ॐ स्त्रीं तन्वी ह्सौः तनुः । ॐ स्त्रीं तालानुगा ऐं सौः तुरी श्रीं स्त्रीं सुरेश्वरी ॥ १३०॥ ॐ श्रीं ताम्रधरा ॐ स्त्रीं तरणिः ऐं रणाश्रिता । ॐ श्रीं तरणिदीप्ता च ऐं सौः नौः क्लीं च नाविका ॥ १३१॥ ॐ श्रीं नम्रा ह्सौः नीतिः ॐ क्लीं सौः नम्रकन्धरा । ॐ ऐं सौः नारसिंही च ॐ श्रीं नारायणी तथा ॥ १३२॥ ॐ क्लीं नन्दनकुञ्जस्था ॐ श्रीं बन्दिस्तुता तथा । ॐ आनन्दमयी क्लीं सौः ॐ श्रीं आत्मगति तथा ॥ १३३॥ ॐ क्लीं आर्ता ह्सौः आद्या ॐ श्रीं ईज्या क्ष्मीं स्त्रुतिः । ॐ श्रीं सामगता ऐं सौः साम्या क्लीं सामगायिनी ॥ १३४॥ ॐ श्रीं सनकसेव्या च श्रीं ह्रीं श्रीं सभया तथा । ॐ ऐं सौः स्वगतिः स्वाहा ॐ श्रीं सागरसम्भवा ॥ १३५॥ ॐ स्त्रीं श्रीं द्रुतगा स्वाहा ॐ वां वेदश्रुतिस्तथा । ॐ ऐं सौः वारुणी स्वाहा श्रीं ह्रीं श्रीं वरुणार्चिता ॥ १३६॥ ऐं श्रीं क्लीं विभवा स्वाहा श्रीं क्लीं विश्वप्रकाशिनी । ॐ सौः क्लीं वीरमाता च ऐं सौः श्रीं वीरनन्दिनी ॥ १३७॥ श्रीं क्लीं वाराङ्गना स्वाहा ॐ ह्रीं श्रीं जन्मवल्लभा । ऐं सौः क्लीं नीलग्रीवा च ऐं सौः दुर्गा ह्सौः दरी ॥ १३८॥ ॐ नीला ह्सौः नन्दा क्लीं नुतिः श्रीं नगात्मजा । ॐ ऐं सौः नीलवस्त्रा च ॐ श्रीं क्लीं नीललोचना ॥ १३९॥ ॐ द्रीं द्रुहिणसेव्या च ॐ श्रीं द्रीं क्लीं धराधरा । ॐ देवेशी ह्सौः देवी ॐ श्रीं द्रीं दुल्लिलोचना ॥ १४०॥ ॐ स्त्रीं तोमरहस्ता च ॐ श्रीं क्लीं मुण्डमालिनी । ॐ जुं जिह्वाधरा स्वाहा ॐ श्रीं जाम्बवदाश्रया ॥ १४१॥ ॐ जुं ऐं सौः ह्सौः क्लीं श्रीं जम्बूद्वीपनिवासिनी । ॐ जुं सः क्लीं ह्सौः ऐं सौः जरामरणवर्जिता ॥ १४२॥ ऐं महादुर्गतिहरी ॐ सौः माहिष्मती तथा । क्रीं काश्मीरी ह्सौः रेवा ॐ श्रीं काशी ह्सौः कुणी ॥ १४३॥ ॐ अयोध्या ह्सौः माया ॐ श्रीं म्रीं मथुरापुरी । ॐ ह्रीं हिमाचलस्था च ॐ श्रीं ह्रीं विन्ध्यवासिनी ॥ १४४॥ ॐ क्लीं म्रीं मेरुसंस्था च ॐ श्रीं क्लीं अमरावती । ॐ जुं मन्त्रात्मिका स्वाहा ॐ श्रीं मारमदाङ्किता ॥ १४५॥ ॐ श्रीं शेषा ह्सौः साक्षी ॐ श्रीं शेषगता तथा । ॐ अशेषा ह्सौः श्वेता ॐ शीती ॐ सुशीतला ॥ १४६॥ ॐ गीति ह्सौः कारा ॐ सौः कारविभूषिता । ॐ श्रीं म्रीं मलयस्था च ॐ म्रीं मलयचर्चिता ॥ १४७॥ ॐ क्लीं चलाचला ऐं सौः क्लीं चराचरसेविता । ॐ श्रीं क्लीं काव्यशक्ति च ॐ क्रीं कविसमर्चिता ॥ १४८॥ ॐ श्रीं ग्रहेश्वरी स्वाहा ॐ गीं ग्रहनिषेविता । ॐ श्रीं स्त्रीं अक्षरी स्वाहा ॐ श्रीं स्त्रीं सत्वरूपिणी ॥ १४९॥ ॐ श्रीं ह्रीं क्लीं ह्सौः ऐं सौः महात्रिपुरसुन्दरी । ॐ श्रीं ह्रीं अन्नपूर्णा च ॐ ह्रीं श्रीं वज्रयोगिनी ॥ १५०॥ ॐ ह्रीं ज्वालामुखी चैव ॐ क्लीं सः शारदा तथा । ॐ ह्रीं श्रीं सिद्धलक्ष्मी च महालक्ष्मी ह्सौः तथा ॥ १५१॥ ॐ प्रीं पयोधराभा च ॐ श्रीं पयोधराङ्किता । ॐ प्रीं प्रजा ह्सौः प्रान्ता प्रीं प्रभा श्रीं प्रभावदा ॥ १५२॥ ॐ प्रीं पञ्चमगा स्वाहा ॐ ऐं नक्षत्रमालिनी । स्त्रीं तिथिः श्रीं अतुल्या च श्रीं त्र्यर्णा क्लीं त्रपावती ॥ १५३॥ ॐ श्रीं तोमा ह्सौः त्रेता ॐ जुं त्रिभुवनेश्वरी । ॐ श्रीं अजा ह्सौः अन्त्या क्लीं अम्बा श्रीं क्रमेश्वरी ॥ १५४॥ क्रीं हूं कोटिरसा ह्सौः क्रूरा ॐ श्रीं कौटिल्यसेविता । ॐ श्रीं कान्ती ह्सौः मल्ली ॐ ह्रीं श्रीं मालती तथा ॥ १५५॥ ॐ म्रीं श्रीं मल्लिका क्रीं हूं मार्जारी म्रीं मनोरमा । ॐ श्रीं मति ह्सौः मान्या ॐ म्रीं क्लीं मानदा तथा ॥ १५६॥ ॐ जुं श्रीं मालिनी ॐ क्रीं मत्ता ह्रीं मानसाश्रया । ॐ स्त्रीं तापी ह्सौः सिन्धुः चन्द्रभागा ह्सौः तथा ॥ १५७॥ ॐ श्रीं मुनिःसुता श्रीं सः तपोधनसमर्चिता । ॐ क्लीं स्त्रीं तापसी स्वाहा ॐ श्रीं स्त्रीं ऐं त्रिलोचना ॥ १५८॥ ॐ श्रीं ह्रीं वैद्यविद्या च ॐ क्लीं वैद्यप्रसू तथा । ॐ श्रीं ह्रीं नवोढा च ॐ स्त्रीं नेबीं ह्सौः मुनिः ॥ १५९॥ ॐ श्रीं नागात्मजा स्वाहा ॐ ऐं सौः नागिनी तथा । ॐ श्रीं नवाम्बरधरा ॐ ऐं सौः नवनी तथा ॥ १६०॥ ॐ श्रीं ऐं श्रीं नवनीताङ्गी ॐ श्रीं अम्बसुनन्दिनी । ॐ श्रीं प्रीता ह्सौः पामा ॐ श्रीं क्लीं पीवरस्तनी ॥ १६१॥ ॐ श्रीं ह्रीं प्रीं च पीनाङ्गी ॐ क्लीं ऐं पर्वतात्मजा । ॐ श्रीं शोभावती स्वाहा ॐ क्लीं शान्ता ह्सौः शिवा ॥ १६२॥ ॐ ऐं सौः स्पन्दिनी स्वाहा ॐ श्रीं ह्रीं स्पन्दनस्थिता । ॐ श्रीं रसात्मिका स्वाहा ॐ ह्रां मन्दोदरी तथा ॥ १६३॥ ॐ श्रीं मन्दगतिः स्वाहा ॐ श्रीं मन्दानना तथा । ॐ श्रीं मन्दप्रसू स्वाहा ॐ श्रीं मन्दक्षयङ्करी ॥ १६४॥ ॐ श्रीं क्लीं बल्लवी स्वाहा श्रीं बल्ली ह्रीं प्रबलिका । ॐ श्रीं ह्रीं वणिजा स्वाहा ॐ प्रीं पुण्याङ्गना तथा ॥ १६५॥ ॐ क्रीं हूं कामधेनुश्च ॐ श्रीं अं अन्नदायिनी । ॐ प्रीं श्रीं क्लीं महामारी ऐं श्रीं मृत्युहरा तथा ॥ १६६॥ ॐ श्रीं ह्रीं म्रीं ह्सौः माध्वी म्रीं माध्वीरसघूर्णिता । ॐ श्रीं क्लीं ऐं सौः ह्सौः माता ऐं क्लीं सौः मानसी तथा ॥ १६७॥ ॐ महाभाषिणी क्रीं हूं क्रीडा क्रीं क्रीं कषा तथा । ॐ ह्रीं श्रीं क्रोडहन्त्री च क्रीं क्रीं क्रीं कामरोचना ॥ १६८॥ ॐ श्रीं कामवती स्वाहा ॐ ऐं भाग्या ह्सौः भगा । ॐ श्रीं गन्धर्वकन्या च ॐ गीं गजनिभाकृतिः ॥ १६९॥ ॐ श्रीं गोप्त्री ह्सौः गुह्या ॐ श्रीं गजाजिनाम्बरा । ॐ श्रीं पिङ्गा ह्सौः सङ्ख्या ॐ श्रीं सौख्यकरी तथा ॥ १७०॥ ॐ श्रीं सुखात्मिका स्वाहा ॐ श्रीं साहसकारिणी । ॐ श्रीं क्लीं सजया स्वाहा ॐ श्रीं गीं जनवल्लभा ॥ १७१॥ ऐं सौः क्लीं द्रीं द्विजा ऐं सौः दान्ता क्लीं दानतत्परा । ॐ क्रीं कलशहस्ता च क्रीं हूं कुञ्जरगामिनी ॥ १७२॥ ॐ क्रीं कौलगतिः श्रीं ह्रीं कुमतिः क्रीं च चापिनी । ॐ क्रीं कपिवरेशानी क्लीं कपिन्द्रवरप्रदा ॥ १७३॥ ॐ क्रीं श्रीं विनता ह्रीं श्रीं वैनतेयसमर्चिता । ॐ क्लीं श्रीं विरतिः स्वाहा ॐ क्लीं वानरसेविता ॥ १७४॥ ॐ क्रीं हूं ह्रीं कलङ्केशी क्रीं लङ्केशनिषेविता । ॐ क्रां लाटा ह्सौः लूता ॐ क्रीं श्रीं ललिताम्बरा ॥ १७५॥ क्रीं हूं ह्रीं क्लेशहर्त्री च ॐ क्लीं लीलावती तथा । ॐ श्रीं लोला ऐं क्लीं लता ऐं क्लीं मुसलायुधा तथा ॥ १७६॥ ॐ ऐं श्रीं आदिदेवी च ॐ श्रीं शून्यगता तथा । ॐ क्लीं श्रीं शङ्करी स्वाहा सर्वस्म्मोहनी ह्सौः ॥ १७७॥ ॐ श्रीं शुभङ्करी स्वाहा ह्रीं क्ष्मां क्षेमङ्करी तथा । ॐ श्रीं अशोकपत्राभा ॐ अशोका ह्सौः तमा ॥ १७८॥ ॐ श्रीं गीं गदिनी स्वाहा गीं गदाधरसेविता । श्रीं लं लोलरसा स्वाहा क्रीं कृपाणकरा तथा ॥ १७९॥ ॐ श्रीं ह्सौः क्लीं ह्रीं विद्युत् ॐ श्रीं जीमूतवल्लभा । ऐं सौः क्लीं श्रीं जराध्यक्षा ॐ स्त्रीं तरुसमाश्रिता ॥ १८०॥ ॐ क्लीं ह्रीं होटिका स्वाहा श्रीं ह्रीं क्लीं हरवल्लभा । ऐं सौः ऐं वाग्भवी स्वाहा ॐ वां वीरुत्समर्चिता ॥ १८१॥ ॐ श्रीं विद्यामयी ह्रीं क्लीं ॐ जुं जनितवैभवा । ॐ श्रीं वीरार्चिता ऐं सौः वधूः ह्रां क्लीं वरेश्वरा ॥ १८२॥ ॐ क्लीं ह्रीं वरहस्ता च ॐ वां वरप्रदायिनी । ॐ श्रीं क्लीं सः च वाचाला ऐं सौः वाचालपूजिता ॥ १८३॥ ॐ श्रीं विनाशदा ॐ ह्रीं विरूपा ऐं वरूथिनी । ॐ रं वैश्वानराक्षी च ॐ श्रीं सौः वायुनन्दिनी ॥ १८४॥ ॐ क्लीं वायुतनुः ऐं सौः वालीशा ॐ वरीतनुः । ॐ क्रीं वामा ह्सौः वीरा ॐ श्रीं वैश्वानरार्चिता ॥ १८५॥ ॐ ऐं वाल्मीकिपूज्या च ॐ वाल्मीकधरा ह्सौः । ॐ श्रीं सीता ह्सौः ऐं क्लीं धराधरसुता तथा ॥ १८६॥ ॐ श्रीं धरा ह्सौः धात्री ॐ देवेश्वरपूजिता । ॐ श्रीं रुक्माङ्गदेष्टा च ऐं सौः क्लीं रुक्मभास्वरा ॥ १८७॥ ॐ रां रुक्माङ्गदा श्रीं क्लीं रुक्मिणी ॐ ह्सौः रमा । ॐ श्रीं रं अरुणेशानी ॐ श्रीं अर्वाचिनी ह्सौः ॥ १८८॥ ॐ भैं अष्टारपद्मस्था ॐ ह्रीं श्रीं अष्टमी तथा । ॐ श्रीं क्रीं हूं अमावस्या ॐ तिथि ऐं त्रयोदशी ॥ १८९॥ ॐ ऐं एकादशी श्रीं ह्रीं द्वादशी श्रीं चतुर्दशी । ॐ ऐं सौः क्लीं सप्तमी श्रीं श्रीं दशमी ऐं सुपूर्णिमा ॥ १९०॥ ॐ श्रीं शुद्धात्मिका ऐं सौः शुद्धा श्रीं शुद्धरूपिणी । ॐ क्रीं हूं शुक्रसेव्या च क्रीं शुक्रेशी ह्सौः शुचिः ॥ १९१॥ क्रीं हूं श्रीं सप्ततिः ॐ श्रीं सर्वाङ्गी ऐं शिवेश्वरी । ॐ ऐं शुद्धेश्वरी ऐं क्लीं श्रीमती श्रीं श्रविश्रवा ॥ १९२॥ ॐ ऐं श्रेयस्करी ॐ श्रीं श्रीदा ॐ श्रीं धरेश्वरी । ॐ ऐं श्रीं शक्तिरूपा च ऐं श्रीं शब्दादिवल्लभा ॥ १९३॥ ॐ श्रीं क्लीं श्रुत्पतिः श्रीं क्लीं क्लेबेशी क्रीं कुरूपिणी । ॐ श्रीं मुविष्टरा श्रीं क्लीं श्रेष्ठा ऐं शाम्भवी ह्सौः ॥ १९४॥ ॐ श्रीं क्लीं नित्यक्लिन्ना श्रीं नरनारायणेश्वरी । ॐ नराधिपसेव्या च श्रीं नारायणवल्लभा ॥ १९५॥ ॐ क्लीं श्रीं पद्मपत्राक्षी ॐ ऐं पूर्वाधिकेश्वरी । ॐ क्लीं प्रीं श्रीं अपूर्वा च ॐ श्रीं क्लीं प्रीं परात्परा ॥ १९६॥ ॐ अपारभवा ऐं क्लीं पारावारसमाश्रिता । ॐ श्रीं पल्लवहस्ता च ॐ श्रीं प्रीं पल्लवाधरा ॥ १९७॥ ॐ स्त्रीं पयोधसदृशी ॐ पयोधरभारिणी । ॐ प्रीं पराङ्गमा स्वाहा ॐ प्रीं पाशविमोचिनी ॥ १९८॥ प्रीं क्लीं पश्चिमदिग्रूपा ॐ प्रीं पाषाणमण्डिता । ॐ श्रीं पीताम्बरेशानी ॐ क्रीं केवलरूपिणी ॥ १९९॥ ॐ श्रीं महादशाष्टेशी ॐ क्रीं मकुरगामिनी । ॐ क्रीं मन्त्रितगात्रा च ॐ गीं गुरुप्रभावदा ॥ २००॥ ॐ गीं गुर्वी ह्सौः गोष्ठी गीं गुञ्जावलिभूषिता । ॐ गीं गोदावरी क्लीं गीं गोष्ठिकानन्ददायिनी ॥ २०१॥ ॐ गीं गोष्ठात्मिका ऐं सौः गौराङ्गी गीं गुरुत्तमा । ॐ गीं श्रीं गम्यरूपा गीं अगम्या ह्सौः गुटी ॥ २०२॥ ॐ गीं गीतप्रिया ॐ गीं गजराजनिषेविता । ॐ श्रीं रां रक्तदन्ता ॐ रक्तबीजनिसूदिनी ॥ २०३॥ ॐ क्लीं श्रीं ह्रीं मधुमती ॐ ऐं सौः स्वप्ननायिका । ॐ श्रीं क्लीं स्वप्नमाया च ऐं सौः स्वप्नावती तथा ॥ २०४॥ श्रीं स्वादुमयी ऐं सौः सारात्मा ऐं समर्चिका । ऐं सौः सत्या ह्सौः सार्त्री ॐ श्रीं मन्त्रफलप्रदा ॥ २०५॥ ॐ सद्रूपा ह्सौः सज्जा ऐं मज्जा सौः धनुर्लता । ॐ श्रीं धनुर्धरेशानी द्रीं श्रीं धूमरकेशिनी ॥ २०६॥ ॐ श्रीं मायावती स्वाहा ॐ श्रीं क्लीं कुब्जचारिणी । ऐं क्लीं कठोरपुलका क्रीं कार्मुकफलप्रदा ॥ २०७॥ क्रीं क्रीं क्रीं कर्मदा हूं हूं कर्मलेषा ह्सौः कटिः । क्रीं कर्मेष्ठा ह्सौः कुः ऐं कर्मस्था क्रीं च कर्मिणी ॥ २०८॥ ॐ क्रीं कार्मुकहस्ता च क्रीं कार्मुकरवाकुला । क्रीं कपोलसद्दीप्तिः क्रीं क्रीं कमलजार्चिता ॥ २०९॥ क्रीं लेखकप्रिया क्रीं हूं लेख्या क्रीं लेखचारिका । क्रीं मषीरूपिणी ऐं क्लीं मुष्टि ऐं मुष्टिवर्धिनी ॥ २१०॥ क्रीं म्रों मोहप्रदा स्रीं स्रूं मन्त्रविद्या ह्सौः मघा । ॐ श्रीं सुन्दरी श्रीं श्रीं सारदर्पसमुज्ज्वला ॥ २११॥ ऐं श्रीं मज्जा ह्सौः श्रीं म्रीं ऐं सौः मूत्रपुरीषिका । ऐं सौः क्लीं श्रीं सुनन्दा च ऐं सौः क्लीं सद्गतिः तथा ॥ २१२॥ ॐ श्रीं सन्तानवल्ली च ॐ सन्तानफलप्रदा । ॐ श्रीं महोदरी ऐं सौः सः प्रजा ऐं प्रजावती ॥ २१३॥ ॐ भ्रातृवल्लभा भैं क्रीं भीतिहा भैं भटार्चिता । ॐ भटेशी ह्सौः कद्रूः ॐ क्रीं हूं कनकेश्वरी ॥ २१४॥ क्रीं स्कन्दजननी ऐं सौः द्रीं दाडिमफलानना । श्रीं दीर्घास्या ह्सौः धीः श्रीं द्युमणीन्दुविलोचना ॥ २१५॥ ॐ द्रीं दम्भेशलोभाढ्या ॐ श्रीं धीः सचिवाश्रया । अं श्रीं अमात्यवर्गेष्टा ॐ अमात्यप्रियङ्करी ॥ २१६॥ ॐ श्रीं असिलता क्रीं हूं अनेकाक्षरभूषणा । ॐ क्रीं अल्परसा ह्सौः श्रीं अल्पहासा ह्सौः अणुः ॥ २१७॥ ॐ श्रीं अत्रिभरा ऐं सौः हावभावसमन्विता । ऐं सौः सीत्कारिणी स्वाहा ऐं सौः सुरसमण्डना ॥ २१८॥ ऐं सुरा श्रीं सुरादेवी ऐं सुरासुरसेविता । ऐं श्रीं सत्कारगा स्वाहा ॐ श्रीं सत्कारपूजिता ॥ २१९॥ ॐ सौः साधकसेव्या च ऐं सौः साधकवल्लभा । ॐ ह्रीं श्रीं भैं च भीरुण्डा ॐ क्रीं भैं भगमालिनी ॥ २२०॥ ॐ भैं भगोदरा ह्रीं भैं भीमा हूं भैं भगात्मिका । ॐ भैं भर्गशिखा हूं भैं भास्वती भैं ह्सौः भगा ॥ २२१॥ ॐ भैं भगेश्वरी स्वाहा ॐ भैं भर्गाङ्गवासिनी । ॐ श्रीं भैं भानुमध्यथा क्रीं ह्रीं भैं बैन्दवेश्वरी ॥ २२२॥ ॐ भैं बन्धुररूपा च ॐ भैं भास्वररूपिणी । ॐ भैं बलिभुजाकान्ता ॐ भैं बलिनिषेविता ॥ २२३॥ ॐ भैं बलिबलघ्नी ॐ भैं बल्या भैं बलात्मिका । ॐ भैं श्रीं भूचरी ॐ श्रीं भूचराणामतिप्रिया ॥ २२४॥ ॐ भैं क्रीं भगिनी हूं भैं भवेशी भैं भगोत्सुका । भैं श्रीं भगैकलिङ्गा भैं भगलिङ्गसुखावहा ॥ २२५॥ ॐ भैं भगैकशुक्रा भैं क्रीं भैं भुवनपालिनी । क्रीं हूं ह्रीं ह्रीं ह्सौः काली क्रीं ह्रीं दक्षिणकालिका ॥ २२६॥ क्रीं क्रीं क्रीं ह्रीं ह्रीं स्वाहा देवी श्मशानकालिका । क्रीं क्रीं क्रीं हूं हूं ह्रीं ह्रीं भैं भैं स्वाहा भद्रकालिका ॥ २२७॥ इति भैं भद्रकाल्याश्च मन्त्रनाम सहस्रकम् । भद्रकाल्याश्च सर्वस्वं रहस्यातिरहस्यकम् ॥ २२८॥ भैं बीजरूपतत्वैकं मन्त्रगर्भं परं महत् । सर्वागमैकसारन्तु सारात्सारोत्तमोत्तमम् ॥ २२९॥ सर्वमन्त्रमयं दिव्यं सिद्धविद्या विनायकम् । सर्वपाप प्रशमनं रहस्यं त्रिदिवौकसाम् ॥ २३०॥ गोप्यं गोप्यतमं गोप्यं गुप्तागुप्ततमं कलौ । भोगदं मोक्षदं स्तुत्यं सर्ववर्ग फलप्रदम् ॥ २३१॥ मन्त्रात्मिकं मनुमयं त्रैलोक्योद्धारणक्षमम् । जगत्सारं स्थितो ब्रह्मा ततः सारं शिवः स्मृतः ॥ २३२॥ ततः शक्तिः स्मृताः सारं ततः ततः त्रिपुरसुन्दरी । ततः श्री दक्षिणाकाली ततो भैं भद्रकालिका ॥ २३३॥ द्वाविंशत्यक्षरी देवी सर्वामृतमयी शिवा । सिद्धिदा बुद्धिदा लोके सर्वमन्त्रमयी तथा ॥ २३४॥ शुद्धचैतन्यरूपेयं विद्या भुवन दुर्लभा । द्वाविंशत्यक्षरी विद्या प्रतिलोम स्वरूपिणी ॥ २३५॥ गोपिता गोपनीया च सारात्सारोत्तमोत्तमा । अस्या सारमिदं नाम्नां सहस्रं मन्त्रगर्भकम् ॥ २३६॥ नात्र शुद्धेरपेक्षास्ति न वा मित्रादि दूषणम् । न मोहेन च दौर्बल्यं न शोको नियमो न वा ॥ २३७॥ सर्वथामृतरूपा च विद्येयं शुद्धरूपिणी । तत् ब्रह्ममयी विद्या तत् बीजमयी तथा ॥ २३८॥ न दारिद्र्यभयं देवि न च दुर्भिक्षपीडनम् । न च मारीभयं तत्र यत्र नाम्नासहस्रकम् ॥ २३९॥ अर्धरात्रे पठेन्नाम्नां सहस्रं मन्त्रगर्भकम् । स्त्रिया सहचरेद्भोगं देवी दर्शनमाप्नुयात् ॥ २४०॥ विनार्धरात्र समये पठनं न फलप्रदम् । ब्रह्महत्या गुरोर्हत्या ब्रह्महत्या प्रिया वधम् ॥ २४१॥ तत्क्षालयति विद्येयं द्वाविंशत्यक्षरापरा । त्रयस्त्रिंशतकोटिनां देवतानां महेश्वरि ॥ २४२॥ तेजोरूपमिदं नाम्नां सहस्रं मन्त्ररूपकम् । रहस्यं पुत्रपौत्रादि गो गजाश्वरथ प्रदम् ॥ २४३॥ अमावस्यां रवेर्वारे मध्यान्हे कूप सन्निधौ । पठेन्मन्त्री त्रिवारं यः स भवेत् भक्त विशेषतः ॥ २४४॥ भौमेष्टम्यां च सायं यः पठेद्दीपागतोरहः । तस्य सर्वार्थ सिद्धिः स्यानातिदूरा महेश्वरिः ॥ २४५॥ शुक्लेचैकादशी रात्रौ लिखेनाम्नासहस्रकम् । कर्पूर कुङ्कुमारक्त कस्तूरी मलयैः शनैः ॥ २४६॥ तविभूर्जस्य देवेशि धूपदीपादि पूर्वकम् । नीलवस्त्रेण संवेष्ट्यं लाक्षया परिवेष्टयेत् ॥ २४७॥ सुवर्णेनापिसंवेष्टय पञ्चगव्येन शोधयेत् । रवौ कन्या नवप्रीता सम्पूज्य विधिवत् शिवे ॥ २४८॥ भोजयित्ताततोदेवि गुटिकेयं फलप्रदा । वन्ध्यालभेत्सुतात् शीघ्रं निर्धनो धनमाप्नुयात् ॥ २४९॥ सर्वथा सर्वदा लोके गुटिकेयं भविष्यति । यो स्त्री वामकरे व धारये पुरुषे दक्षिणे भुजे ॥ २५०॥ तत्रत्फलमवाप्नोति यत्रन्मनसि वर्तते । प्रभाते पर्वते नाम्नां सहस्रं मन्त्रगर्भकम् ॥ २५१॥ स्तम्भयेदपि ब्रह्माणं मोहयेदपि केशवम् । मारयेदपि कीनाशं वशयेदपि शङ्करम् ॥ २५२॥ उच्चाटयति स्वान्शत्रूनाकर्षयति योषितः । स्तम्भयेद्वायु सूर्या च शमयेदपि पावकम् ॥ २५३॥ इदं नाम्नां सहस्रन्तु भद्रकाल्याश्च पाठनम् । रणे राजकुले द्यूते विवादे शत्रू संसदिम् ॥ २५४॥ साधको जयमाप्नोति स्मरणात्साधकेश्वरि । राज्यं देयं शिरो देयं देया सन्ततिरर्थिने ॥ २५५॥ भद्रकाल्या इदं नाम्नां सहस्रं मन्मुखोदितम् । नो देयं साधकैः देवि विनाशिष्याय सिद्धये ॥ २५६॥ दुर्जनाय अकुलीनाय भ्रष्टाय अमितभाषिणे । न दातव्यं न दातव्यं साधकै सर्व सिद्धये ॥ २५७॥ स्वशिष्याय कुलीनाय भक्ताय मितभाषिणे । दातव्यं साधकैर्देवि शुभदं स्वसिद्धये ॥ २५८॥ यः पठेत्पाठयेद्वापि श‍ृणोति श्रावयेदपि । भद्रकाल्या इदं देवि मन्त्रनामसहस्रकम् ॥ २५९॥ इहलोके सुखान्भुक्त्वा राजार्हा राजपूजिते । त्रैलोक्ये विचरेन्मन्त्री परत्र गणनाथवत् ॥ २६०॥ इदं रहस्यं परमं भक्त्यात्तव मयोदितम् । गोप्यं गुह्यं सदा गोप्यं गोप्तव्यं पशु सङ्कटे ॥ २६१॥ गुह्यातिगुह्यं देवेशि पुण्यं नाम्नां सहस्रकम् । भद्रकाल्याश्च सर्वस्वं गोपनीयं स्वयोनिवत् ॥ २६२॥ ॥ इति श्रीरुद्रसर्वस्वे सकलागम सागरे भैरवे तन्त्रे भद्रकालीसहस्रनामकं सम्पूर्णम् ॥ Encoded and proofread by Ravin Bhalekar ravibhalekar at hotmail.com
% Text title            : bhadrakAlIsahasranAmastotram
% File name             : bhadrakAlIsahasranAmastotram.itx
% itxtitle              : bhadrakAlI mantranAmasahasranAmastotram (bhairavatantrAntargatam)
% engtitle              : bhadrakAlIsahasranAmastotra
% Category              : sahasranAma, devii, dashamahAvidyA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ravin Bhalekar ravibhalekar at hotmail.com
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : rudrasarvasve sakalAgama sAgare bhairave tantre
% Indexextra            : (Manuscripts 1, 2)
% Latest update         : September 1, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org