श्रीभवानीसहस्रनामस्तोत्रम्
श्रीगणेशाय नमः ।
कैलास शिखरे रम्ये देवदेवं महेश्वरम् ।
ध्यानोपरतमासीनं प्रसन्नमुखपङ्कजम् ॥ १॥
सुरासुरशिरोरत्नरञ्जिताङ्घ्रियुगं प्रभुम् ।
प्रणम्य शिरसा नन्दी बद्धाञ्जलिरभाषत ॥ २॥
श्रीनन्दिकेश्वर उवाच ।
देवदेव जगन्नाथ संशयोऽस्ति महान्मम ।
रहस्यमेकमिच्छामि प्रष्टुं त्वां भक्तवत्सल ॥ ३॥
देवतायास्त्वया कस्याः स्तोत्रमेतद्दिवानिशम् ।
पठ्यते निरतं नाथ त्वत्तः किमपरं महत् ॥ ४॥
इति पृष्टस्तदा देवो नन्दिकेन जगद्गुरुः ।
प्रोवाच भगवानीशो विकसन्नेत्रपङ्कजः ॥ ५॥
ईश्वर उवाच ।
साधु साधु गुणश्रेष्ठ पृष्टवानसि मां च यत् ।
स्कन्दस्यापि च यद्गोप्यं रहस्यं कथयामि तत् ॥ ६॥
पुरा कल्पक्षये लोकान्सिसृक्षुर्मूढचेतनः ।
गुणत्रयमयी शक्तिर्मूलप्रकृतिसंज्ञिता ॥ ७॥
तस्यामहं समुत्पन्नस्तत्वैस्तैर्महदादिभिः ।
चेतनेति ततः शक्तिर्मां काप्यालिङ्ग्य तस्थुषी ॥ ८॥
हेतुस्सङ्कल्पजालस्य मनोधिष्ठायिनी शुभा ।
इच्छेति परमा शक्तिरुन्मिलति ततः परम् ॥ ९॥
ततो वागिति विख्याता शक्तिः शब्दमयी पुरा ।
प्रादुरासीज्जगन्माता वेदमाता सरस्वती ॥ १०॥
ब्राह्मी च वैष्णवी सैन्द्री कौमारी पार्वती शिवा ।
सिद्धिदा बुद्धिदा शान्ता सर्वमङ्गलदायिनी ॥ ११॥
तयैतत्सृज्यते विश्वमनाधारं च धार्यते ।
तयैतत्पाल्यते सर्वं तस्यामेव प्रलीयते ॥ १२॥
अर्चिता प्रणता ध्याता सर्वभावविनिश्चतैः ।
आराधिता स्तुता सैव सर्वसिद्धिप्रदायिनी ॥ १३॥
तस्याश्चानुग्रहादेव तामेव स्तुतवानहम् ।
सहस्रैर्नामर्भिर्दिव्यैस्त्रैलोक्य प्रणिपूजितैः ॥ १४॥
स्तवेनानेन सन्तुष्टा मामेव प्रतिवेश सा ।
तदारभ्य मया प्राप्तमैश्वर्यं पदमुत्तमम् ॥ १५॥
तत्प्रभावान्मया सृष्टं जगदेतच्चराचरम् ।
ससुरासुरगन्धर्वयक्षराक्षसमानवम् ॥ १६॥
सपन्नगं साच्छिकं च सशैलवनकाननम् ।
सराशिग्रहनक्षत्रं पञ्चभूतगुणान्वितम् ॥ १७॥
नन्दिन्नाम सहस्रेण स्तवेनानेन सर्वदा ।
स्तौम्यहं परापराशक्तिं ममानुग्रहकारिणीम् ॥ १८॥
इत्युक्त्वोपरतं देवं चराचरगुरुं विभुम् ।
प्रणम्य शिरसा नन्दी प्रोवाच परमेश्वरम् ॥ १९॥
श्रीनन्दिकेश्वर उवाच ।
भगवन्देवदेवेश लोकनाथ जगत्पते ।
भक्तोऽस्मि तव दासोऽस्मि प्रसादः क्रियतां मयि ॥ २०॥
देव्याः स्तवमिदं पुण्यं दुर्लभं यत्सुरैरपि ।
श्रोतुमिच्छाम्यहं देव प्रभावमपि चास्य तु ॥ २१॥
शृणु नन्दिन्महाभाग स्तवराजमिमं शुभम् ।
सहस्रैर्नामर्भिर्दिव्यैः सिद्धिदं सुखमोक्षदम् ॥ २२॥
शुचिभिः प्रातरुत्थाय पठितव्यं समाहितैः ।
त्रिकालं श्रद्धया युक्तैर्नातः परतरः स्तव; ॥ २३॥
ॐ अस्यश्रीभवानीनामसहस्रस्तवराजस्य,
श्रीभगवान्महादेव ऋषिः ,अनुष्टुप्छन्दः,
आद्या शक्तिः श्रीभगवती भवानी देवता,
ह्रीं बीजं, श्रीं शक्तिः, क्लीं कीलकं,
श्रीभगवतीभवानीप्रीत्यर्थे जपे विनियोगः ।
अथ ध्यानम्
अर्धेन्दुमौलिममलाममराभिवन्द्यामम्भोजपाशसृणिरक्तकपालहस्ताम् ।
रक्ताङ्गरागरसनाभरणान्त्रिनेत्रान्ध्यायेच्छिवस्यवनितां विह्वलाङ्गीम् ॥ १॥
ॐ बालार्कमण्डलाभासां चतुर्वाहुं त्रिलोचनाम् ।
पाशाङ्कुशशरं चापं धारयन्तीं शिवां भजे ॥ २॥
ॐ महाविद्या जगन्माता महालक्ष्मीः शिवप्रिया ।
विष्णुमाया शुभा शान्ता सिद्धासिद्धसरस्वती ॥ १॥
क्षमा कान्तिः प्रभा ज्योत्स्ना पार्वती सर्वमङ्गला ।
हिङ्गुला चण्डिका दान्ता पद्मा लक्ष्मीर्हरिप्रिया ॥ २॥
त्रिपुरा नन्दिनी नन्दा सुनन्दा सुरवन्दिता ।
यज्ञविद्या महामाया वेदमाता सुधाधृतिः ॥ ३॥
प्रीतिप्रदा प्रसिद्धा च मृडानी विन्ध्यवासिनी ।
सिद्धविद्या महाशक्तिः पृथिवी नारदसेविता ॥ ४॥
पुरुहूतप्रिया कान्ता कामिनी पद्मलोचना ।
प्रह्लादिनी महामाता दुर्गा दुर्गतिनाशिनी ॥ ५॥
ज्वालामुखी सुगोत्रा च ज्योतिः कुमुदवासिनी ।
दुर्गमा दुर्लभा विद्या स्वर्गतिः पुरवासिनी ॥ ६॥
अपर्णा शाम्बरी माया मदिरामृदुहासिनी ।
कुलवागीश्वरी नित्या नित्यक्लिन्ना कृशोदरी ॥ ७॥
कामेश्वरी च नीला च भिरुण्डा वह्रिवासिनी ।
लम्बोदरी महाकाली विद्याविद्येश्वरी तथा ॥ ८॥
नरेश्वरी च सत्या च सर्वसौभाग्यवर्धिनी ।
सङ्कर्षिणी नारसिंही वैष्णवी च महोदरी ॥ ९॥
कात्यायनी च चम्पा च सर्वसम्पत्तिकारिणी ।
नारायणी महानिद्रा योगनिद्रा प्रभावती ॥ १०॥
प्रज्ञा पारमिताप्राज्ञा तारा मधुमती मधुः ।
क्षीरार्णवसुधाहारा कालिका सिंहवाहना ॥ ११॥
ॐकारा च सुधाकारा चेतना कोपनाकृतिः ।
अर्धबिन्दुधराधारा विश्वमाता कलावती ॥ १२॥
पद्मावती सुवस्त्रा च प्रबुद्धा च सरस्वती ।
कुण्डासना जगद्वात्री बुद्धमाता जिनेश्वरी ॥ १३॥
जिनमाता जिनेन्द्रा च शारदा हंसवाहना ।
राजलक्ष्मीर्वषट्कारा सुधाकारा सुधोत्सुका ॥ १४॥
राजनीतिस्त्रयी वार्ता दण्डनीतिः क्रियावती ।
सद्भूतिस्तारिणी श्रद्धा सद्गतिः सत्यपरायणा ॥ १५॥
सिन्धुर्मन्दाकिनी गङ्गा यमुना च सरस्वती ।
गोदावरी विपाशा च कावेरी च शतह्रदा ॥ १६॥
सरयूश्चन्द्रभागा च कौशिकी गण्डकी शुचिः ।
नर्मदा कर्मनाशा च चर्मण्वती च वेदिका ॥ १७॥
वेत्रवती वितस्ता च वरदा नरवाहना ।
सती पतिव्रता साध्वी सुचक्षुः कुण्डवासिनी ॥ १८॥
एकचक्षुः सहस्राक्षी सुश्रोणिर्भगमालिनी ।
सेनाश्रोणिः पताका च सुव्यूहा युद्धकांक्षिणी ॥ १९॥
पताकिनी दयारम्भा विपञ्ची पञ्चमप्रिया ।
परा परकलाकान्ता त्रिशक्तिर्मोक्षदायिनी ॥ २०॥
ऐन्द्री माहेश्वरी ब्राह्मी कौमारी कमलासना ।
इच्छा भगवती शक्तिः कामधेनुः कृपावती ॥ २१॥
वज्रायुधा वज्रहस्ता चण्डी चण्डपराक्रमा ।
गौरी सुवर्णवर्णा च स्थितिसंहारकारिणी ॥ २२॥
एकानेका महेज्या च शत बाहुर्महाभुजा ।
भुजङ्गभूषणा भूषा षट्चक्राक्रमवासिनी ॥ २३॥
षट्चक्रभेदिनी श्यामा कायस्था कायवर्जिता ।
सुस्मिता सुमुखी क्षामा मूलप्रकृतिरीश्वरी ॥ २४॥
अजा च बहुवर्णा च पुरुषार्थप्रर्वतिनी ।
रक्ता नीला सिता श्यामा कृष्णा पीता च कर्बुरा ॥ २५॥
क्षुधा तृष्णा जरा वृद्धा तरुणी करुणालया ।
कला काष्ठा मुहूर्ता च निमिषा कालरूपिणी ॥ २६॥
सुवर्णरसना नासाचक्षुः स्पर्शवती रसा ।
गन्धप्रिया सुगन्धा च सुस्पर्शा च मनोगतिः ॥ २७॥
मृगनाभिर्मृगाक्षी च कर्पूरामोदधारिणी ।
पद्मयोनिः सुकेशी च सुलिङ्गा भगरूपिणी ॥ २८॥
योनिमुद्रा महामुद्रा खेचरी खगगामिनी ।
मधुश्रीर्माधवी वल्ली मधुमत्ता मदोद्धता ॥ २९॥
मातङ्गी शुकहस्ता च पुष्पबाणेक्षुचापिनी ।
रक्ताम्बरधराक्षीबा रक्तपुष्पावतंसिनी ॥ ३०॥
शुभ्राम्बरधरा धीरा महाश्वेता वसुप्रिया ।
सुवेणी पद्महस्ता च मुक्ताहारविभूषणा ॥ ३१॥
कर्पूरामोदनिःश्वासा पद्मिनी पद्ममन्दिरा ।
खड्गिनी चक्रहस्ता च भुशुण्डी परिघायुधा ॥ ३२॥
चापिनी पाशहस्ता च त्रिशूलवरधारिणी ।
सुबाणा शक्तिहस्ता च मयूरवरवाहना ॥ ३३॥
वरायुधधरा वीरा वीरपानमदोत्कटा ।
वसुधा वसुधारा च जया शाकम्भरी शिवा ॥ ३४॥
विजया च जयन्ती च सुस्तनी शत्रुनाशिनी ।
अन्तर्वती वेदशक्तिर्वरदा वरधारिणी ॥ ३५॥
शीतला च सुशीला च बालग्रहविनाशिनी ।
कौमारी च सुपर्णा च कामाख्या कामवन्दिता ॥ ३६॥
जालन्धरधरानन्ता कामरूपनिवासिनी ।
कामबीजवती सत्या सत्यमार्गपरायणा ॥ ३७॥
स्थूलमार्गस्थिता सूक्ष्मा सूक्ष्मबुद्धिप्रबोधिनी ।
षट्कोणा च त्रिकोणा च त्रिनेत्रा त्रिपुरसुन्दरी ॥ ३८॥
वृषप्रिया वृषारूढा महिषासुरघातिनी ।
शुम्भदर्पहरा दीप्ता दीप्तपावकसन्निभा ॥ ३९॥
कपालभूषणा काली कपालामाल्यधारिणी ।
कपालकुण्डला दीर्घा शिवदूती घनध्वनिः ॥ ४०॥
सिद्धिदा बुद्धिदा नित्या सत्यमार्गप्रबोधिनी ।
कम्बुग्रीवावसुमती छत्रच्छाया कृतालया ॥ ४१॥
जगद्गर्भा कुण्डलिनी भुजगाकारशायिनी ।
प्रोल्लसत्सप्तपद्मा च नाभिनालमृणालिनी ॥ ४२॥
मूलाधारा निराकारा वह्रिकुण्डकृतालया ।
वायुकुण्डसुखासीना निराधारा निराश्रया ॥ ४३॥
श्वासोच्छवासगतिर्जीवा ग्राहिणी वह्निसंश्रया ।
वल्लीतन्तुसमुत्थाना षड्रसा स्वादलोलुपा ॥ ४४॥
तपस्विनी तपःसिद्धि तपसः सिद्धिदायिनी ।
तपोनिष्ठा तपोयुक्ताः तापसी च तपःप्रिया ॥ ४५॥
सप्तधातुर्मयीर्मूतिः सप्तधात्वन्तराश्रया ।
देहपुष्टिर्मनःपुष्टिरन्नपुष्टिर्बलोद्धता ॥ ४६॥
औषधी वैद्यमाता च द्रव्यशक्तिप्रभाविनी ।
वैद्या वैद्यचिकित्सा च सुपथ्या रोगनाशिनी ॥ ४७॥
मृगया मृगमांसादा मृगत्वङ् मृगलोचना ।
वागुराबन्धरूपा च बन्धरूपावधोद्धता ॥ ४८॥
बन्दी बन्दिस्तुता कारागारबन्धविमोचिनी ।
शृङ्खला कलहा बद्धा दृढबन्धविमोक्षिणी ॥ ४९॥
अम्बिकाम्बालिका चाम्बा स्वच्छा साधुजर्नाचिता ।
कौलिकी कुलविद्या च सुकुला कुलपूजिता ॥ ५०॥
कालचक्रभ्रमा भ्रान्ता विभ्रमाभ्रमनाशिनी ।
वात्याली मेघमाला च सुवृष्टिः सस्यर्वधिनी ॥ ५१॥
अकारा च इकारा च उकारौकाररूपिणी ।
ह्रीङ्कार बीजरूपा च क्लीङ्काराम्बरवासिनी ॥ ५२॥
सर्वाक्षरमयीशक्तिरक्षरा वर्णमालिनी ।
सिन्दूरारुणवर्णा च सिन्दूरतिलकप्रिया ॥ ५३॥
वश्या च वश्यबीजा च लोकवश्यविभाविनी ।
नृपवश्या नृपैः सेव्या नृपवश्यकरप्रिया ॥ ५४॥
महिषा नृपमान्या च नृपान्या नृपनन्दिनी ।
नृपधर्ममयी धन्या धनधान्यविवर्धिनी ॥ ५५॥
चतुर्वर्णमयीमूर्तिश्चतुर्वणैंश्च पूजिता ।
सर्वधर्ममयीसिद्धि श्चतुराश्रमवासिनी ॥ ५६॥
ब्राह्मणी क्षत्रिया वैश्या शूद्रा चावरवर्णजा ।
वेदमार्गरता यज्ञा वेदिर्विश्वविभाविनी ॥ ५७॥
अनुशस्त्रमयी विद्या वरशस्त्रास्त्रधारिणी ।
सुमेधा सत्यमेधा च भद्रकाल्यपराजिता ॥ ५८॥
गायत्री सत्कृतिः सन्ध्या सावित्री त्रिपदाश्रया ।
त्रिसन्ध्या त्रिपदी धात्री सुपर्वा सामगायिनी ॥ ५९॥
पाञ्चाली बालिका बाला बालक्रीडा सनातनी ।
गर्भाधारधराशून्या गर्भाशयनिवासिनी ॥ ६०॥
सुरारिघातिनी कृत्या पूतना च तिलोत्तमा ।
लज्जा रसवती नन्दा भवानी पापनाशिनी ॥ ६१॥
पट्टाम्बरधरा गीतिः सुगीतिर्ज्ञानगोचरा ।
सप्तस्वरमयी तन्त्री षड्जमध्यमधैवता ॥ ६२॥
मूर्छना ग्रामसंस्थाना मूर्छा सुस्थानवासिनी ।
अट्टाट्टहासिनी प्रेता प्रेतासननिवासिनी ॥ ६३॥
गीतनृत्यप्रिया कामा तुष्टिदा पुष्टिदा क्षमा ।
निष्ठा सत्यप्रिया प्राज्ञा लोलाक्षी च सुरोत्तमा ॥ ६४॥
सविषा ज्वालिनी ज्वाला विश्वमोहार्तिनाशिनी ।
शतमारी महादेवी वैष्णवी शतपत्रिका ॥ ६५॥
विषारिर्नागदमनी कुरुकुल्ल्याऽमृतोद्भवा ।
भूतभीतिहरारक्षा भूतावेशविनाशिनी ॥ ६६॥
रक्षोघ्नी राक्षसी रात्रिर्दीर्घनिद्रा निवारिणी ।
चन्द्रिका चन्द्रकान्तिश्च सूर्यकान्तिर्निशाचरी ॥ ६७॥
डाकिनी शाकिनी शिष्या हाकिनी चक्रवाकिनी ।
शीता शीतप्रिया स्वङ्गा सकला वनदेवता ॥ ६८॥
गुरुरूपधरा गुर्वी मृत्युर्मारी विशारदा ।
महामारी विनिद्रा च तन्द्रा मृत्युविनाशिनी ॥ ६९॥
चन्द्रमण्डलसङ्काशा चन्द्रमण्डलवासिनी ।
अणिमादिगुणोपेता सुस्पृअहा कामरूपिणी ॥ ७०॥
अष्टसिद्धिप्रदा प्रौढा दुष्टदानवघातिनी ।
अनादिनिधना पुष्टिश्चतुर्बाहुश्चतुर्मुखी ॥ ७१॥
चतुस्समुद्रशयना चतुर्वर्गफलप्रदा ।
काशपुष्पप्रतीकाशा शरत्कुमुदलोचना ॥ ७२॥
सोमसूर्याग्निनयना ब्रह्मविष्णुशिर्वार्चिता ।
कल्याणीकमला कन्या शुभा मङ्गलचण्डिका ॥ ७३॥
भूता भव्या भविष्या च शैलजा शैलवासिनी ।
वाममार्गरता वामा शिववामाङ्गवासिनी ॥ ७४॥
वामाचारप्रिया तुष्टिर्लोंपामुद्रा प्रबोधिनी ।
भूतात्मा परमात्मा भूतभावविभाविनी ॥ ७५॥
मङ्गला च सुशीला च परमार्थप्रबोधिनी ।
दक्षिईणा दक्षिणामूर्तिः सुदीक्षा च हरिप्रसूः ॥ ७६॥
योगिनी योगयुक्ता च योगाङ्ग ध्यानशालिनी ।
योगपट्टधरा मुक्ता मुक्तानां परमा गतिः ॥ ७७॥
नारस्ंइही सुजन्मा च त्रिवर्गफलदायिनी ।
धर्मदा धनदा चैव कामदा मोक्षदाद्युतिः ॥ ७८॥
साक्षिणी क्षणदा कांक्षा दक्षजा कूटरूपिणी ।
ऋअतुः कात्यायनी स्वच्छा सुच्छन्दा कविप्रिया ॥ ७९॥
सत्यागमा बहिःस्था च काव्यशक्तिः कवित्वदा ।
मीनपुत्री सती साध्वी मैनाकभगिनी तडित् ॥ ८०॥
सौदामिनी सुदामा च सुधामा धामशालिनी ।
सौभाग्यदायिनी द्यौश्च सुभगा द्युतिवर्धिनी ॥ ८१॥
श्रीकृत्तिवसना चैव कङ्काली कलिनाशिनी ।
रक्तबीजवधोद्युक्ता सुतन्तुर्बीजसन्ततिः ॥ ८२॥
जगज्जीवा जगद्बीजा जगत्रयहितैषिणी ।
चामीकररुचिश्चन्द्री साक्षाद्या षोडशी कला ॥ ८३॥
यत्तत्पदानुबन्धा च यक्षिणी धनदार्चिता ।
चित्रिणी चित्रमाया च विचित्रा भुवनेश्वरी ॥ ८४॥
चामुण्डा मुण्डहस्ता च चण्डमुण्डवधोद्यता ।
अष्टम्येकादशी पूर्णा नवमी च चतुर्दशी ॥ ८५॥
उमा कलशहस्ता च पूर्णकुम्भपयोधरा ।
अभीरूर्भैरवी भीरू भीमा त्रिपुरभैरवी ॥ ८६॥
महाचण्डी च रौद्री च महाभैरवपूजिता ।
निर्मुण्डा हस्तिनीचण्डा करालदशनानना ॥ ८७॥
कराला विकराला च घोरा घुर्घुरनादिनी ।
रक्तदन्तोर्ध्वकेशी च बन्धूककुसुमारुणा ॥ ८८॥
कादम्बिनी विपाशा च काश्मीरी कुङ्कुमप्रिया ।
क्षान्तिर्बहुसुवर्णा च रतिर्बहुसुवर्णदा ॥ ८९॥
मातङ्गिनी वरारोहा मत्तमातङ्गगामिनी ।
हंसा हंसगतिर्हंसी हंसोज्वलशिरोरुहा ॥ ९०॥
पूर्णचन्द्रमुखी श्यामा स्मितास्या च सुकुण्डला ।
महिषी च लेखनी लेखा सुलेखा लेखकप्रिया ॥ ९१॥
शङ्खिनी शङ्खहस्ता च जलस्था जलदेवता ।
कुरुक्षेत्राऽवनिः काशी मथुरा काञ्च्यवन्तिका ॥ ९२॥
अयोध्या द्वारिका माया तीर्था तीर्थकरप्रिया ।
त्रिपुष्कराऽप्रमेया च कोशस्था कोशवासिनी ॥ ९३॥
कौशिकी च कुशावर्ता कौशाम्बी कोशवर्धिनी ।
कोशदा पद्मकोशाक्षी कौसुम्भकुसुमप्रिया ॥ ९४॥
तोतला च तुलाकोटिः कूटस्था कोटराश्रया ।
स्वयम्भूश्च सुरूपा च स्वरूपा पुण्यवर्धिनी ॥ ९५॥
तेजस्विनी सुभिक्षा च बलदा बलदायिनी ।
महाकोशी महावार्ता बुद्धिः सदसदात्मिका ॥ ९६॥
महाग्रहहरा सौम्या विशोका शोकनाशिनी ।
सात्विकी सत्वसंस्था च राजसी च रजोवृता ॥ ९७॥
तामसी च तमोयुक्ता गुणत्रयविभाविनी ।
अव्यक्ता व्यक्तरूपा च वेदविद्या च शाम्भवी ॥ ९८॥
शङ्करा कल्पिनी कल्पा मनस्सङ्कल्पसन्ततिः ।
सर्वलोकमयी शक्तिः सर्वश्रवणगोचरा ॥ ९९॥
सर्वज्ञानवती वाञ्छा सर्वतत्त्वावबोधिका ।
जाग्रतिश्च सुषुप्तिश्च स्वप्नावस्था तुरीयका ॥ १००॥
सत्वरा मन्दरा गतिर्मन्दा मन्दिरा मोददायिनी ।
मानभूमिः पानपात्रा पानदानकरोद्यता ॥ १०१॥
आधूर्णारूणनेत्रा च किञ्चिदव्यक्तभाषिणी ।
आशापुरा च दीक्षा च दक्षा दीक्षितपूजिता ॥ १०२॥
नागवल्ली नागकन्या भोगिनी भोगवल्लभा ।
सर्वशास्त्रमयी विद्या सुस्मृतिर्धर्मवादिनी ॥ १०३॥
श्रुतिस्मृतिधरा ज्येष्ठा श्रेष्ठा पातालवासिनी ।
मीमांसा तर्कविद्या च सुभक्तिर्भक्तवत्सला ॥ १०४॥
सुनाभिर्यातनाजातिर्गम्भीरा भाववर्जिता ।
नागपाशधरामूर्तिरगाधा नागकुण्डला ॥ १०५॥
सुचक्रा चक्रमध्यस्था चक्रकोणनिवासिनी ।
सर्वमन्त्रमयी विद्या सर्वमन्त्राक्षरावलिः ॥ १०६॥
मधुस्त्रवास्त्रवन्ती च भ्रामरी भ्रमरालिका ।
मातृमण्डलमध्यस्था मातृमण्डलवासिनी ॥ १०७॥
कुमार जननी क्रूरा सुमुखी ज्वरनाशिनी ।
निधाना पञ्चभूतानां भवसागरतारिणी ॥ १०८॥
अक्रूरा च ग्रहावती विग्रहा ग्रहवर्जिता ।
रोहिणी भूमिगर्मा च कालभूः कालवर्तिनी ॥ १०९॥
कलङ्करहिता नारी चतुःषष्ठ्यभिधावती ।
अतीता विद्यमाना च भाविनी प्रीतिमञ्जरी ॥ ११०॥
सर्वसौख्यवतीयुक्तिराहारपरिणामिनी ।
जीर्णा च जीर्णवस्रा च नूतना नववल्लभा ॥ १११॥
अजरा च रजःप्रीता रतिरागविवर्धिनी ।
पञ्चवातगतिर्भिन्ना पञ्चश्लेष्माशयाधरा ॥ ११२॥
पञ्चपित्तवतीशक्तिः पञ्चस्थानविभाविनी ।
उदक्या च वृषस्यन्ती बहिः प्रस्रविणी त्र्यहा ॥ ११३॥
रजःशुक्रधरा शक्तिर्जरायुर्गर्भधारिणी ।
त्रिकालज्ञा त्रिलिङ्गा च त्रिमूर्तिस्त्रिपुरवासिनी ॥ ११४॥
अरागा शिवतत्त्वा च कामतत्वानुरागिणी ।
प्राच्यवाची प्रतीची च दिगुदीची च दिग्विदिग्दिशा ॥ ११५॥
अहङ्कृतिरहङ्कारा बाला माया बलिप्रिया ।
शुक्रश्रवा सामिधेनी सुश्रद्धा श्राद्धदेवता ॥ ११६॥
माता मातामही तृप्तिः पितुमाता पितामही ।
स्नुषा दौहित्रिणी पुत्री पौत्री नप्त्री शिशुप्रिया ॥ ११७॥
स्तनदा स्तनधारा च विश्वयोनिः स्तनन्धयी ।
शिशूत्सङ्गधरा दोला लोला क्रीडाभिनन्दिनी ॥ ११८॥
उर्वशी कदली केका विशिखा शिखिवर्तिनी ।
खट्वाङ्गधारिणी खट्व बाणपुङ्खानुवर्तिनी ॥ ११९॥
लक्ष्यप्राप्तिकरा लक्ष्यालध्या च शुभलक्षणा ।
वर्तिनी सुपथाचारा परिखा च खनिर्वुतिः ॥ १२०॥
प्राकारवलया वेला मर्यादा च महोदधिः ।
पोषिणी शोषिणी शक्तिर्दीर्घकेशी सुलोमशा ॥ १२१॥
ललिता मांसला तन्वी वेदवेदाङ्गधारिणी ।
नरासृक्पानमत्ता च नरमुण्डास्थिभूषणा ॥ १२२॥
अक्षक्रीडारतिः शारि शारिकाशुकभाषिणी ।
शाम्भरी गारुडीविद्या वारुणी वरुणार्चिता ॥ १२३॥
वाराही तुण्डहस्ता च दंष्ट्रोद्धृतवसुन्धरा ।
मीनमूर्तिर्धरामूर्तिः वदान्याऽप्रतिमाश्रया ॥ १२४॥
अमूर्ता निधिरूपा च शालिग्रामशिलाशुचिः ।
स्मृतिसंस्काररूपा च सुसंस्कारा च संस्कृतिः ॥ १२५॥
प्राकृता देशभाषा च गाथा गीतिः प्रहेलिका ।
इडा च पिङ्गला पिङ्गा सुषुम्ना सूर्यवाहिनी ॥ १२६॥
शशिस्रवा च तालुस्था काकिन्यमृतजीविनी ।
अणुरूपा बृहद्रूपा लघुरूपा गुरुस्थिता ॥ १२७॥
स्थावरा जङ्गमाचैव कृतकर्मफलप्रदा ।
विषयाक्रान्तदेहा च निर्विशेषा जितेन्द्रिया ॥ १२८॥
चित्स्वरूपा चिदानन्दा परब्रह्मप्रबोधिनी ।
निर्विकारा च निर्वैरा विरतिः सत्यवर्द्धिनी ॥ १२९॥
पुरुषाज्ञा चा भिन्ना च क्षान्तिः कैवल्यदायिनी ।
विविक्तसेविनी प्रज्ञा जनयित्री च बहुश्रुतिः ॥ १३०॥
निरीहा च समस्तैका सर्वलोकैकसेविता ।
शिवा शिवप्रिया सेव्या सेवाफलविवर्द्धिनी ॥ १३१॥
कलौ कल्किप्रिया काली दुष्टम्लेच्छविनाशिनी ।
प्रत्यञ्चा च धुनर्यष्टिः खड्गधारा दुरानतिः ॥ १३२॥
अश्वप्लुतिश्च वल्गा च सृणिः स्यन्मृत्युवारिणी ।
वीरभूर्वीरमाता च वीरसूर्वीरनन्दिनी ॥ १३३॥
जयश्रीर्जयदीक्षा च जयदा जयवर्द्धिनी ।
सौभाग्यसुभगाकारा सर्वसौभाग्यवर्द्धिनी ॥ १३४॥
क्षेमङ्करी क्षेमरूपा सर्त्कीत्तिः पथिदेवता ।
सर्वतीर्थमयीमूर्तिः सर्वदेवमयीप्रभा ॥ १३५॥
सर्वसिद्धिप्रदा शक्तिः सर्वमङ्गलमङ्गला ।
पुण्यं सहस्रनामेदं शिवायाः शिवभाषितम् ॥ १३६॥
यः पठेत्प्रातरुत्थाय शुचिर्भूत्वा समाहितः ।
यश्चापिशृणुयान्नित्यं नरो निश्चलमानसः ॥ १३७॥
एककालं द्विकालं वा त्रिकालं श्रद्धयान्वितः ।
सर्वदुःखविनिर्मुक्तो धनधान्यसमन्वितः ॥ १३८॥
तेजस्वी बलवाञ्छूरः शोकरोगविवर्जितः ।
यशस्वी कीर्तिमान्धन्यः सुभगो लोकपूजितः ॥ १३९॥
रूपवान्गुणसम्पन्नः प्रभावीर्यसमन्वितः ।
श्रेयांसि लभतेनित्यं निश्चलां च शुभां श्रियम् ॥ १४०॥
सर्वपापविनिर्मुक्तो लोभक्रोध विवर्जितः ।
नित्यं बन्धुसुतैर् दारैः पुत्रपौत्रैर्महोत्सवैः ॥ १४१॥
नन्दितः सेवितो भृत्यैर्बहुभिः शुद्धमानसैः ।
विद्यानां पारगो विप्रः क्षत्रियो विजयी रणे । ॥ १४२॥
वैश्यस्तुधनलाभाढ्यः शूद्रश्चसुखमेधते ।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥ १४३॥
इच्छाकामं तु कामार्थी धर्मार्थी धर्ममक्षयम् ।
कन्यार्थी लभते कन्यां रूपशीलगुणन्विताम् ॥ १४४॥
क्षेत्रं च बहुशस्यं स्याद्गावस्तु बहुदुग्धदाः ।
नाशुभं नापदस्तस्य न भयं नृपशत्रुभिः ॥ १४५॥
जायते ना शुभाबुद्धिर्लभते कुलधुर्यताम् ।
न बाधन्ते ग्रहास्तस्य न रक्षांसि न पन्नगाः ॥ १४६॥
न पिशाचो न डाकिन्यो भूतव्यन्तरजृम्भिकाः ।
बालग्रहाभिभूतानां बालानां शान्तिकारकम् ॥ १४७॥
द्वन्द्वानां प्रीतिभेदे च मैत्रीकरणमुत्तमम् ।
लोहपाशैर्दृढैर्बद्धो बद्धो वेश्मनि दुर्गमे ॥ १४८॥
तिष्ठन् शृण्वन्पठेन्मर्त्यो मुच्यते नात्र संशयः ।
न दाराणां न पुत्राणां न बन्धूनां न मित्रजम् ॥ १४९॥
पश्यन्ति नहि ते शोकं हि वियोगं चिरजीविताम् ।
अन्धस्तु लभते दृष्टिं चक्षुरोगैर्नबाध्यते ॥ १५०॥
बधिरः श्रुतिमाप्नोति मूको वाचं शुभान्नरः ।
एतद्गर्भा च या नारी स्थिरगर्भा प्रजायते ॥ १५१॥
स्रावणी बद्धगर्भा च सुखमेवप्रसूयते ।
कुष्ठिनः शीर्णदेहा ये गतकेशनखत्वचः ॥ १५२॥
पठनाच्छ्रवणा द्वापि दिव्यकाया भवन्ति ते ।
ये पठन्ति शतावर्तं शुचिष्मन्तो जितेन्द्रियाः ॥ १५३॥
अपुत्राः प्राप्नुयुः पुत्रान् शृण्वन्तोऽपि न संशयः ।
महाव्याधि परिग्रस्तास्तप्ता ये विविधैर्ज्वरैः ॥ १५४॥
भूताभिषङ्ग सङ्घातैश्चार्तुथिक तृतीयकैः ।
अन्यैश्च दारुणैरोगैः पीड्यमानाश्च मानवाः ॥ १५५॥
गतबाधाः प्रजायन्ते मुक्तास्तेतैर्नसंशयः ।
श्रुतिग्रन्थधरोबालो दिव्यवादी कवीश्वरः ॥ १५६॥
पठनाच्छ्रवणाद्वापि भवत्येव न संशयः ।
अष्टम्यां वा चतुर्दश्यां नवम्यां चैकचेतसः ॥ १५७॥
ये पठन्ति सदाभक्त्या न ते वै दुःखभागिनः ।
नवरात्रं जिताहारो दृढभक्तिर्जिन्तेन्द्रियः ॥ १५८॥
चण्डिकायतने विद्वान्च्छुचिष्मान् मूर्तिसन्निधौ ।
एकाकी च शतावर्तं पठन्धीरश्च निर्भयः ॥ १५९॥
साक्षाद्भगवती तस्मै प्रयच्छेदीप्सितं फलम् ।
सिद्धपीठे गिरौ रम्ये सिद्धक्षेत्रे सुरालये ॥ १६०॥
पठनात्साधकस्याशु सिद्धिर्भवति वाञ्छिता ।
दशावर्तं पठेन्नित्यं भूमिशायी नरः शुचिः ॥ १६१॥
स्वप्ने मूर्तिमयीं देवीं वरदां सोऽपि पश्यति ।
आवर्तन सहस्रैर्ये पठन्ति पुरुषोत्तमाः ॥ १६२॥
ते सिद्धाः सिद्धिदा लोके शापानुग्रहणे क्षमाः ।
कवित्वं संस्कृतेतेषां शास्राणां व्याकृतौ ततः ॥ १६३॥
शक्तिः प्रोन्मील्यते शास्त्रेष्वनधीतेषु भारती ।
नखरागशिरोरत्नद्विगुणीकृतरोचिषः ॥ १६४॥
प्रयच्छन्तश्च सर्वस्वं सेवन्ते तान्महीश्वराः ।
रोचनालिखितं भूर्जें कुङ्कुमेन शुभे दिने ॥ १६५॥
धारयेद्यन्त्रितं देहे पूजयित्वा कुमारिकाम् ।
विप्राञ्श्च वरनारीश्च धूपैः कुसुमचन्दनैः ॥ १६६॥
क्षीरखण्डाज्य भोज्यैश्च पूजयित्वा सुभूषिताः ।
विधाय मातृका न्यासं अङ्गन्यास पुरस्सरम् ॥ १६७॥
भूतशुद्धि समोपैतं शृङ्खला न्यासमाचरेत् ।
यथावदाशासम्बद्धः साधकः प्रीति संयुतः ॥ १६८॥
मूलमन्त्रं जपेद्वीमान् परया संयुतोधिया ।
प्रणवं पूर्वमुद्धृत्य रमाबीजमनुस्मरन् ॥ १६९॥
माया कामौ समुच्चार्य पुनर्जायां विभावसोः ।
बध्नन्तिये महारक्षां बालानां च विशेषतः ॥ १७०॥
भवन्ति नृप पूज्यास्ते कीर्तिभाजो यशस्विनः ।
शत्रुतो न भयंतेषां दुर्जनेभ्यो न राजतः ॥ १७१॥
न च रोगो न वै दुःख न दारिद्र्यं न दुर्गतिः ।
महार्णवे महानद्यां स्थितेऽपि च नभीः क्वचित् ॥ १७२॥
रणे द्युते विवादे च विजयं प्राप्नुवन्ति ते ।
नृपाश्च वश्यतां यान्ति नृपमान्याश्च ये नराः ॥ १७३॥
सर्वत्र पूजिता लोके बहुमानपुरस्सराः ।
रतिरागविवृद्धाश्च विह्वलाः कामपीडिताः ॥ १७४॥
यौवनाक्रान्तदेहा स्ताः श्रयन्ते वामलोचनाः ।
लिखितं मूर्ध्निकण्ठे वा धारयेद्यो रणे शुचिः ॥ १७५॥
शतधायुध्यमानं तु प्रतियोद्धा न पश्यति ।
केतौ वा दुन्दुभौ येषां निबद्धं लिखितं रणे ॥ १७६॥
महासैन्ये परित्रस्तान्कान्दिशीकान्हतौजसः ।
विचेतनान्विमूढांश्च शत्रुकृत्यविवर्जितान् ॥ १७७॥
निर्जित्य शत्रुसङ्घास्ते लभन्ते विजयं ध्रुवम् ।
नाभिचारो ने शापश्च बाणवीरादिकीलनम् ॥ १७८॥
डाकिनी पूतनाकृत्या महामारी च शाकिनी ।
भूतप्रेत पिशाचाश्च रक्षांसि व्यन्तरादयः ॥ १७९॥
न विशन्ति गृहे देहे लिखितं यत्रतिष्ठति ।
न शस्त्रानलतोयौघैर्भयं तस्योपजायते ॥ १८०॥
दुर्वृत्तानां च पापानां बलहानिकरं परम् ।
मन्दुराकरिशालासु गवां गोष्ठे समाहितः ॥ १८१॥
पठेत्तद्दोषशान्त्यर्थं कूटं कपटनाशिनी ।
यमदूतान्न पश्यन्ति न ते निरययातनाम् ॥ १८२॥
प्राप्नुवन्त्यक्षयं शान्तं शिवलोकं सनातनम् ।
सर्वबाधा सुघोराषु सर्वदुःखनिवारणम् ॥ १८३॥
सर्वमङ्गलकं स्वर्ग्यं पठितव्यं समाहितैः ।
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ॥ १८४॥
पुण्यं सहस्रनामेदमम्बाया रुद्रभाषितम् ।
चतुर्वर्गप्रदं सत्यं नन्दिकेन प्रकाशितम् ॥ १८५॥
नातः परतरो मन्त्रो नातः परतरः स्तवः ।
नातः परतरा विद्या तीर्थं नातः परात्परम् ॥ १८६॥
तेधन्याः कृतपुण्यास्ते त एव भुवि पूजिताः ।
एकवारं मुदा नित्यं येऽर्चयन्ति महेश्वरीम् ॥ १८७॥
देवतानां देवताया ब्रह्माद्यैर्या च पूजिता ।
भूयात्सा वरदा लोके साधूनां विश्वमङ्गला ॥ १८८॥
एतामेव पुराराद्यां विद्यां त्रिपुरभैरवीम् ।
त्रैलोक्यमोहिनीरूपामकार्षीद्भगवान्हरिः ॥ १८९॥
॥ इति श्रीरुद्रयामलेतन्त्रे नन्दिकेश्वरसंवादे महाप्रभावी
भवानीनामसहस्रस्तोत्रं सम्पूर्णम् ॥
Proofread by Ravin Bhalekar ravibhalekar at hotmail.com