भुवनसुन्दर्याः वर्णनम्

भुवनसुन्दर्याः वर्णनम्

(देवीभागवतः) राजोवाच - भगवन्ब्रूहि मे तस्याः स्वरूपं बलमुत्तमम् ॥ ५३॥ उत्पत्तिकारणं वापि स्थानं परमकं च यत् । ऋषिरुवाच - न चोत्पत्तिरनादित्वान्नृप तस्याः कदाचन ॥ ५४॥ नित्यैव सा परा देवी कारणानां च कारणम् । वर्तते सर्वभूतेषु शक्तिः सर्वात्मना नृप ॥ ५५॥ शववच्छक्तिहीनस्तु प्राणी भवति सर्वथा । चिच्छक्तिः सर्वभूतेषु रूपं तस्यास्तदेव हि ॥ ५६॥ आविर्भावतिरोभावौ देवानां कार्यसिद्धये । यदा स्तुवन्ति तां देवा मनुजाश्च विशाम्पते ॥ ५७॥ प्रादुर्भवति भूतानां दुःखनाशाय चाम्बिका । नानारूपधरा देवी नानाशक्तिसमन्विता ॥ ५८॥ आविर्भवति कार्यार्थं स्वेच्छया परमेश्वरी । दैवाधीना न सा देवी यथा सर्वे सुरा नृप ॥ ५९॥ न कालवशगा नित्यं पुरुषार्थप्रवर्तिनी । अकर्ता पुरुषो द्रष्टा दृश्यं सर्वमिदं जगत् ॥ ६०॥ दृश्यस्य जननी सैव देवी सदसदात्मिका । पुरुषं रञ्जयत्येका कृत्वा ब्रह्माण्डनाटकम् ॥ ६१॥ रञ्जिते पुरुषे सर्वं संहरत्यतिरंहसा । तया निमित्तभूतास्ते ब्रह्मविष्णुमहेश्वराः ॥ ६२॥ कल्पिताः स्वस्वकार्येषु प्रेरिता लीलया त्वमी । स्वांशं तेषु समारोप्य कृतास्ते बलवत्तराः ॥ ६३॥ दत्ताश्च शक्तयस्तेभ्यो गीर्लक्ष्मीर्गिरिजा तथा । ते तां ध्यायन्ति देवेशा पूजयन्ति परां मुदा ॥ ६४॥ ज्ञात्वासर्वेश्वरीं शक्तिंसृष्टिस्थितिविनाशिनीम् । एतत्ते सर्वमाख्यातं देवीमाहात्म्यमुत्तमम् । मम बुद्ध्यनुसारेण नान्तं जानामि भूपते ॥ ६५॥ इति देवीभागवते पञ्चमस्कन्धे त्रयस्त्रिंशाध्यायान्तर्गतं देवीमाहात्म्यवर्णनं समाप्तम् । Encoded by Vishwas Bhide Proofread by Vishwas Bhide, PSA Easwaran
% Text title            : Bhuvanasundaryah Varnanam
% File name             : bhuvanasundaryAHvarNanam.itx
% itxtitle              : bhuvanasundaryAH varNanam (devIbhAgavatAntargatam)
% engtitle              : bhuvanasundaryAH varNanam
% Category              : devii
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Indexextra            : (Devi Bhagavatam
% Acknowledge-Permission: http://satsangdhara.net
% Latest update         : April 30, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org