भुवनेश्वरीकवचम्

भुवनेश्वरीकवचम्

(अथ मायातन्त्रे द्वादशपटलः ।) श्रीमहादेव उवाच । (श्रीदेव्युवाच ।?) श‍ृणु प्रिये प्रवक्ष्यामि कवचं भुवि दुर्लभम् । यस्यापि पठनाद् देवि सर्वसिद्धीश्वरो भवेत् ॥ १॥ इन्द्रोऽपि धारणाद् यस्य प्राप्नुयाद् राज्यमुत्तमम् । कृष्णेन पठितं देवि भूतापमारणाय च ॥ २॥ शुकदेवोऽपि यद् धृत्वा सर्वयोगविशारदः । तस्य श्रीभुवनेश्वरी कवचस्य महेश्वरि ॥ ३॥ सर्वार्थे विनियोगः स्यात् प्राणायामं ततश्चरेत् । अथ कवचम् । मायाबीजं शिरः पातु कामबीजं तु बालकम् ॥ ४॥ दुर्गाबीजं नेत्रयुग्मं नासिकां मन्त्रदा मनुः । वदने दक्षिणाबीजं ताराबीजं तु गण्डयोः ॥ ५॥ षोडशी मे गलं पातु कण्ठं मे भैरवीमनुः । हृदयं छिन्नमस्ता च उदरं बगला तथा ॥ ६॥ धूमावतीं कटिं पातु मातङ्गी पातु सर्वतः । सर्वाङ्गं मे सदा पातु सर्वविद्यास्वरूपिणी ॥ ७॥ भुवनेश्वरी कवच महात्म्य इत्येतत् कवचं देवि पठनाद् धारणादिकम् । कृत्वा तु साधकः श्रेष्ठो विद्यावान् धनवान् भवेत् ॥ ८॥ पुत्रपौत्रादिसम्पन्नो ह्यन्ते याति परां गतिम् । इदं तु कवचं गुह्यं साधकाय प्रकाशयेत् ॥ ९॥ न दद्याद् भ्रष्टमर्त्याय न परदेवताय च । इदं यन्त्रं महेशानि त्रिषु लोकेषु गोपितम् ॥ १०॥ सर्वसिद्धिकरं साक्षान्महापातकनाशनम् । कल्पद्रुमसमं ज्ञेयं पूजयेत् श्रियमाप्नुयात् ॥ ११॥ पठनाद् धारणात् सर्वं पापं क्षयति निश्चितम् । विवादे जयमाप्नोति धनैर्धनपतिर्भवेत् । यं यं वाञ्छति तत् सर्वं भवत्येव न संशयः ॥ १२॥ इति श्रीमायातन्त्रे भुवनेश्वरीकवचं सम्पूर्णम् । (॥ इति श्रीमायातन्त्रे द्वादशः पटलः ॥)
% Text title            : Bhuvaneshvari Kavacham 2
% File name             : bhuvaneshvarIkavacham2mAyAtantra.itx
% itxtitle              : bhuvaneshvarIkavacham 2 (mAyAtantrAntargatam mAyAbIjaM shiraH pAtu)
% engtitle              : bhuvaneshvarIkavacham 2
% Category              : devii, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Mayatantra Patala 12
% Indexextra            : (Scan)
% Latest update         : July 30, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org