श्रीभुवनेश्वरीशुद्धशक्तिखड्गमाला

श्रीभुवनेश्वरीशुद्धशक्तिखड्गमाला

विनियोगः-- ॐ अस्य श्रीभुवनेश्वरी-खड्ग-माला-मन्त्रस्य श्रीप्रकाशात्मा ऋषिः, गायत्री छन्दः, श्रीभुवनेश्वरी देवता, हं बीजं, ईं शक्तिः, रं कीलकं, श्रीभुवनेश्वरी-पराम्बा-प्रसन्नार्थे जपे विनियोगः । ऋष्यादि-न्यासः- श्रीप्रकाशात्मा-ऋषये नमः शिरसि, गायत्री-छन्दसे नमः मुखे, श्रीभुवनेश्वरी-देवतायै नमः हृदि, हं बीजाय नमः गुह्ये, ईं शक्तये नमः पादयोः, रं कीलकाय नमः नाभौ, श्रीभुवनेश्वरीपराम्बा-प्रसन्नार्थे जपे विनियोगाय नमः सर्वाङ्गे । ध्यानं- स्मरेद् रवीन्द्वग्नि-विलोचनां तां, सत्पुस्तकां जाप्य-वटीं दधानाम् । सिंहासनां मध्यम-यन्त्र-संस्थां, श्रीतत्त्व-विद्यां पराम्बां भजामि ॥ य एनां-सचिन्तयेन्मन्त्री, सर्व-कामार्थ-सिद्धिदाम् । तस्य हस्ते सदैवास्ति, सर्व-सिद्धिर्न संशयः ॥ तादृशं खड्गमाप्नोति, येन हस्त-स्थितेन वै । अष्टादश-महा-द्वीपे, सम्राट् भोक्ता भविष्यति ॥ ॐ श्रीं ह्रीं श्रीं श्रीभुवनेश्वरी-हृदय-देवि शिरोदेवि शिखा-देवि कवच-देवि नेत्र-देव्यस्त्र-देवि कराले विकराले उमे सरस्वति श्रीदुर्गे उषे लक्ष्मि श्रुति स्मृति धृति श्रद्धे मेधे रति कान्ति आर्ये श्रीभुवनेश्वरि दिव्यौघ-गुरु-रूपिणि सिद्धौघ-गुरु-रूपिणि मानवौघ-गुरु-रूपिणि श्री-गुरु-रूपिणि परम-गुरु-रूपिणि परापर-गुरु-रूपिणि परमेष्ठी-गुरु-रूपिणि अमृतभैरव-सहित-श्रीभुवनेश्वरि हृदय-शक्ति शिरः-शक्ति शिखा-शक्ति कवच-शक्ति नेत्र-शक्त्यस्त्र-शक्ति हृल्लेखे गगने रक्ते करालिके महोच्छूष्मे सर्वानन्द-मयचक्र-स्वामिनि! गायत्री-सहित-ब्रह्म-मयि सावित्रीसहित-विष्णु-मयि सरस्वती-सहित-रुद्र-मयि लक्ष्मी-सहित-कुबेर-मयि रति-सहितकाम-मयि पुष्टि-सहित-विघ्न-राज-मयि शङ्ख-निधि-सहित-वसुधा-मयि पद्म-निधि-सहितवसुमति-मयि गायत्र्यादी-सह-श्रीभुवनेश्वरि ह्रां हृदय-दत्वे ह्रीं शिरो-देवि ह्रूं शिखा-देवी ह्रैं कवच-देवि ह्रौं नेत्र-देवि ह्रः अस्त्र-देवि सर्व-सिद्धि-प्रद-चक्र-स्वामिनि! अनङ्ग-कुसुमे अनङ्ग-कुसुमातुरे अनङ्ग-मदने अनङ्ग-मदनातुरे भुवन-पाले गगन-वेगे शशि-रेखे अनङ्ग-वेगे सर्व-रोग-हर-चक्र-स्वामिनि! कराले विकराले उमे सरस्वति श्रीदुर्गे उषे लक्ष्मि श्रुति स्मृति धृति श्रद्धे मेधे रति कान्ति आर्ये सर्व-संक्षोभण-चक्र-स्वामिनि! ब्राह्मि माहेश्वरि कौमारि वैष्णवि वाराहि इन्द्राणि चामुण्डे महा-लक्ष्म्यं-ऽनङ्ग-रूपेऽनङ्ग-कुसुमे मदनातुरे भुवन-वेगे भुवन-पालिके सर्व-शिशिरेऽनङ्ग मदनेऽनङ्ग-मेखले सर्वाशा-परिपूरक-चक्र-स्वामिनि! इन्द्र-मय्यग्नि-मयि यम-मयि निऋति-मयि वरुण-मयि वायु मयि सोम-मयीशान-मयि ब्रह्म-मय्यनन्त-मयि वज्र-मय्यग्नि-मयि दण्ड-मयि खड्ग-मयि पाश-मय्यंकुश-मयि गदा-मयि त्रिशूल-मयि पद्म-मयि चक्र-मयि वर-मय्यङ्कुश-मयि पाश मय्यभय-मयि बटुक-मयि योगिनी-मयि क्षेत्रपाल-मयि गण-पति-मय्यष्ट-वसु-मयि द्वादशादित्य-मय्येकादश- रुद्र-मयि सर्व-भूत-मय्यमृतेश्वर-सहितश्रीभुवनेश्वरि त्रैलोक्य-मोहन-चक्र-स्वामिनि नमस्ते नमस्ते नमस्ते स्वाहा श्रीं ह्रीं श्रीं ॐ ॥ फल-श्रुतिः- कथयामि महादेवि! भुवनेशीं महेश्वरीम् । अनया सदृशो विद्या नान्या ज्ञानस्य साधने ॥ १॥ नात्र चित्त-विशुद्धिर्वा नारि-मित्रादि-दूषणम् । न वा प्रयास-बाहुल्यं समयासमयादिकम् ॥ २॥ देवैर्देवत्व-विधये सिद्धैः खेचर-सिद्धये । पन्नगै राक्षसैर्मर्त्यैर्मुनिभिश्च मुमुक्षुभिः ॥ ३॥ कामिभिर्धर्मिभिश्चार्थ-लिप्सुभिः सेविता परा । न तथा व्यय-बाहुल्यं काम-क्लेश-करं तथा ॥ ४॥ य एवं चिन्तयेन्मन्त्री सर्व-कामार्थ-सिद्धिदाम् । तस्य हस्ते सदैवास्ति सर्व-सिद्धिर्न संशयः ॥ ५॥ गद्य-पद्य-मयी वाणी सभायां विजयी भवेत् । तस्य दर्शन-मात्रेण वादिनो निष्कृतादरः ॥ ६॥ राजानोऽपि हि दासत्वं भजन्ते किं प्रयोजनः । दिवा-रात्रौ पुरश्चर्या कर्तुश्चैव क्षमो भवेत् ॥ ७॥ सर्वस्यैव जनस्येह वल्लभः कीर्ति-वर्धनः । अन्ते च भजते देवी-गणत्वं दुर्लभं नरः ॥ ८॥ चन्द्र-सूर्य-समो भूत्वा वसेत् कल्पायुतं दिवि । न तस्य दुर्लभं किञ्चित् यो वेत्ति भुवनेश्वरीम् ॥ ९॥ इति श्रीभुवनेश्वरीरहस्ये श्रीशुद्धशक्तिखड्गमालास्तोत्रं सम्पूर्णम् ॥ Proofread by Ganesh Kandu kanduganesh at gmail.com
% Text title            : bhuvaneshvarIshuddhashaktikhaDgamAlA
% File name             : bhuvaneshvarIshuddhashaktikhaDgamAlA.itx
% itxtitle              : bhuvaneshvarIshuddhashaktikhaDgamAlA
% engtitle              : bhuvaneshvarIshuddhashaktikhaDgamAlA
% Category              : devii, devI, dashamahAvidyA, mAlAmantra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ganesh Kandu kanduganesh at gmail.com, NA
% Indexextra            : (Scan)
% Latest update         : February 2, 2019, July 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org